रामायण · अध्याय 7.029
ततस् तमसि संजाते राक्षसा दैवतैः सह
अयुध्यन्त बलोन्मत्ताः सूदयन्तः परस्परम्
ततस् तु देवसैन्येन राक्षसानां महद् बलम्
दशांशं स्थापितं युद्धे शेषं नीतं यमक्षयम्
तस्मिंस् तु तमसा नद्धे सर्वे ते देवराक्षसाः
अन्योन्यं नाभ्यजानन्त युध्यमानाः परस्परम्
इन्द्रश् च रावणश् चैव रावणिश् च महाबलः
तस्मिंस् तमोजालवृते मोहम् ईयुर् न ते त्रयः
स तु दृष्ट्वा बलं सर्वं निहतं रावणो रणे
क्रोधम् अभ्यागमत् तीव्रं महानादं च मुक्तवान्
क्रोधात् सूतं च दुर्धर्षः स्यन्दनस्थम् उवाच ह
परसैन्यस्य मध्येन यावदन्तं नयस्व माम्
अद्यैतांस् त्रिदशान् सर्वान् विक्रमैः समरे स्वयम्
नानाशस्त्रैर् महासारैर् नाशयामि नभस्तलात्
अहम् इन्द्रं वधिष्यामि वरुणं धनदं यमम्
त्रिदशान् विनिहत्याशु स्वयं स्थास्याम्य् अथोपरि
विषादो न च कर्तव्यः शीघ्रं वाहय मे रथम्
द्विः खलु त्वां ब्रवीम्य् अद्य यावदन्तं नयस्व माम्
अयं स नन्दनोद्देशो यत्र वर्तामहे वयम्
नय माम् अद्य तत्र त्वम् उदयो यत्र पर्वतः
तस्य तद् वचनं श्रुत्वा तुरगान् स मनोजवान्
आदिदेशाथ शत्रूणां मध्येनैव च सारथिः
तस्य तं निश्चयं ज्ञात्वा शक्रो देवेश्वरस् तदा
रथस्थः समरस्थांस् तान् देवान् वाक्यम् अथाब्रवीत्
सुराः शृणुत मद्वाक्यं यत् तावन् मम रोचते
जीवन्न् एव दशग्रीवः साधु रक्षो निगृह्यताम्
एष ह्य् अतिबलः सैन्ये रथेन पवनौजसा
गमिष्यति प्रवृद्धोर्मिः समुद्र इव पर्वणि
न ह्य् एष हन्तुं शक्यो ऽद्य वरदानात् सुनिर्भयः
तद् ग्रहीष्यामहे रक्षो यत्ता भवत संयुगे
यथा बलिं निगृह्यैतत् त्रैलोक्यं भुज्यते मया
एवम् एतस्य पापस्य निग्रहो मम रोचते
ततो ऽन्यं देशम् आस्थाय शक्रः संत्यज्य रावणम्
अयुध्यत महातेजा राक्षसान् नाशयन् रणे
उत्तरेण दशग्रीवः प्रविवेशानिवर्तितः
दक्षिणेन तु पार्श्वेन प्रविवेश शतक्रतुः
ततः स योजनशतं प्रविष्टो राक्षसाधिपः
देवतानां बलं कृत्स्नं शरवर्षैर् अवाकिरत्
ततः शक्रो निरीक्ष्याथ प्रविष्टं तं बलं स्वकम्
न्यवर्तयद् असंभ्रान्तः समावृत्य दशाननम्
एतस्मिन्न् अन्तरे नादो मुक्तो दानवराक्षसैः
हा हताः स्मेति तं दृष्ट्वा ग्रस्तं शक्रेण रावणम्
ततो रथं समारुह्य रावणिः क्रोधमूर्छितः
तत् सैन्यम् अतिसंक्रुद्धः प्रविवेश सुदारुणम्
स तां प्रविश्य मायां तु दत्तां गोपतिना पुरा
अदृश्यः सर्वभूतानां तत् सैन्यं समवाकिरत्
ततः स देवान् संत्यज्य शक्रम् एवाभ्ययाद् द्रुतम्
महेन्द्रश् च महातेजा न ददर्श सुतं रिपोः
स मातलिं हयांश् चैव ताडयित्वा शरोत्तमैः
महेन्द्रं बाणवर्षेण शीघ्रहस्तो ह्य् अवाकिरत्
ततः शक्रो रथं त्यक्त्व विसृज्य च स मातलिम्
ऐरावतं समारुह्य मृगयाम् आस रावणिम्
स तु माया बलाद् रक्षः संग्रामे नाभ्यदृश्यत
किरमाणः शरौघेन महेन्द्रम् अमितौजसं
स तं यदा परिश्रान्तम् इन्द्रं मेने ऽथ रावणिः
तदैनं मायया बद्ध्वा स्वसैन्यम् अभितो ऽनयत्
तं दृष्ट्वाथ बलात् तस्मिन् माययापहृतं रणे
महेन्द्रम् अमराः सर्वे किं न्व् एतद् इति चुक्रुशुः
न हि दृश्यति विद्यावान् मायया येन नीयते
एतस्मिन्न् अन्तरे चापि सर्वे सुरगणास् तदा
अभ्यद्रवन् सुसंक्रुद्धा रावणं शस्त्रवृष्टिभिः
रावणस् तु समासाद्य वस्वादित्यमरुद्गणान्
न शशाक रणे स्थातुं न योद्धुं शस्त्रपीडितः
तं तु दृष्ट्वा परिश्रान्तं प्रहारैर् जर्जरच्छविम्
रावणिः पितरं युद्धे ऽदर्शनस्थो ऽब्रवीद् इदम्
आगच्छ तात गच्छावो निवृत्तं रणकर्म तत्
जितं ते विदितं भो ऽस्तु स्वस्थो भव गतज्वरः
अयं हि सुरसैन्यस्य त्रैलोक्यस्य च यः प्रभुः
स गृहीतो मया शक्रो भग्नमानाः सुराः कृताः
यथेष्टं भुङ्क्ष्व त्रैलोक्यं निगृह्य रिपुम् ओजसा
वृथा ते किं श्रमं कृत्वा युद्धं हि तव निष्फलम्
स दैवतबलात् तस्मान् निवृत्तो रणकर्मणः
तच् छ्रुत्वा रावणेर् वाक्यं स्वस्थचेता दशाननः
अथ रणविगतज्वरः प्रभुर् विजयम् अवाप्य निशाचराधिपः
भवनम् अभि ततो जगाम हृष्टः स्वसुतम् अवाप्य च वाक्यम् अब्रवीत्
अतिबलसदृशैः पराक्रमैस् तैर् मम कुलमानविवर्धनं कृतम्
यद् अमरसमविक्रम त्वया त्रिदशपतिस् त्रिदशाश् च निर्जिताः
त्वरितम् उपनयस्व वासवं नगरम् इतो व्रज सैन्यसंवृतः
अहम् अपि तव गच्छतो द्रुतं सह सचिवैर् अनुयामि पृष्ठतः
अथ स बलवृतः सवाहनस् त्रिदशपतिं परिगृह्य रावणिः
स्वभवनम् उपगम्य राक्षसो मुदितमना विससर्ज राक्षसान्
मूल पाठ: Rāmāyaṇa · Edition: John Smith's Rāmāyaṇa-Page (last comparison: 2020-04-16) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0