रामायण · अध्याय 7.028
सुमालिनं हतं दृष्ट्वा वसुना भस्मसात्कृतम्
विद्रुतं चापि स्वं सैन्यं लक्षयित्वार्दितं शरैः
ततः स बलवान् क्रुद्धो रावणस्य सुतो युधि
निवर्त्य राक्षसान् सर्वान् मेघनादो व्यतिष्ठत
स रथेनाग्निवर्णेन कामगेन महारथः
अभिदुद्राव सेनां तां वनान्य् अग्निर् इव ज्वलन्
ततः प्रविशतस् तस्य विविधायुधधारिणः
विदुद्रुवुर् दिशः सर्वा देवास् तस्य च दर्शनात्
न तत्रावस्थितः कश् चिद् रणे तस्य युयुत्सतः
सर्वान् आविध्य वित्रस्तान् दृष्ट्वा शक्रो ऽभ्यभाषत
न भेतव्यं न गन्तव्यं निवर्तध्वं रणं प्रति
एष गच्छति मे पुत्रो युद्धार्थम् अपराजितः
ततः शक्रसुतो देवो जयन्त इति विश्रुतः
रथेनाद्भुतकल्पेन संग्रामम् अभिवर्तत
ततस् ते त्रिदशाः सर्वे परिवार्य शचीसुतम्
रावणस्य सुतं युद्धे समासाद्य व्यवस्थिताः
तेषां युद्धं महद् अभूत् सदृशं देवरक्षसाम्
कृते महेन्द्रपुत्रस्य राक्षसेन्द्रसुतस्य च
ततो मातलिपुत्रे तु गोमुखे राक्षसात्मजः
सारथौ पातयाम् आस शरान् काञ्चनभूषणान्
शचीसुतस् त्व् अपि तथा जयन्तस् तस्य सारथिम्
तं चैव रावणिं क्रुद्धः प्रत्यविध्यद् रणाजिरे
ततः क्रुद्धो महातेजा रक्षो विस्फारितेक्षणः
रावणिः शक्रपुत्रं तं शरवर्षैर् अवाकिरत्
ततः प्रगृह्य शस्त्राणि सारवन्ति महान्ति च
शतघ्नीस् तोमरान् प्रासान् गदाखड्गपरश्वधान्
सुमहान्त्य् अद्रिशृङ्गाणि पातयाम् आस रावणिः
ततः प्रव्यथिता लोकाः संजज्ञे च तमो महत्
तस्य रावणपुत्रस्य तदा शत्रून् अभिघ्नतः
ततस् तद् दैवतबलं समन्तात् तं शचीसुतम्
बहुप्रकारम् अस्वस्थं तत्र तत्र स्म धावति
नाभ्यजानंस् तदान्योन्यं शत्रून् वा दैवतानि वा
तत्र तत्र विपर्यस्तं समन्तात् परिधावितम्
एतस्मिन्न् अन्तरे शूरः पुलोमा नाम वीर्यवान्
दैतेयस् तेन संगृह्य शचीपुत्रो ऽपवाहितः
गृहीत्वा तं तु नप्तारं प्रविष्टः स महोदधिम्
मातामहो ऽर्यकस् तस्य पौलोमी येन सा शची
प्रणाशं दृश्य तु सुरा जयन्तस्यातिदारुणम्
व्यथिताश् चाप्रहृष्टाश् च समन्ताद् विप्रदुद्रुवुः
रावणिस् त्व् अथ संहृष्टो बलैः परिवृतः स्वकैः
अभ्यधावत देवांस् तान् मुमोच च महास्वनम्
दृष्ट्वा प्रणाशं पुत्रस्य रावणेश् चापि विक्रमम्
मातलिं प्राह देवेन्द्रो रथः समुपनीयताम्
स तु दिव्यो महाभीमः सज्ज एव महारथः
उपस्थितो मातलिना वाह्यमानो मनोजवः
ततो मेघा रथे तस्मिंस् तडिद्वन्तो महास्वनाः
अग्रतो वायुचपला गच्छन्तो व्यनदंस् तदा
नानावाद्यानि वाद्यन्त स्तुतयश् च समाहिताः
ननृतुश् चाप्सरःसंघाः प्रयाते वासवे रणम्
रुद्रैर् वसुभिर् आदित्यैः साध्यैश् च समरुद्गणैः
वृतो नानाप्रहरणैर् निर्ययौ त्रिदशाधिपः
निर्गच्छतस् तु शक्रस्य परुषं पवनो ववौ
भास्करो निष्प्रभश् चासीन् महोल्काश् च प्रपेदिरे
एतस्मिन्न् अन्तरे शूरो दशग्रीवः प्रतापवान्
आरुरोह रथं दिव्यं निर्मितं विश्वकर्मणा
पन्नगैः सुमहाकायैर् वेष्टितं लोमहर्षणैः
येषां निश्वासवातेन प्रदीप्तम् इव संयुगम्
दैत्यैर् निशाचरैः शूरै रथः संपरिवारितः
समराभिमुखो दिव्यो महेन्द्रम् अभिवर्तत
पुत्रं तं वारयित्वासौ स्वयम् एव व्यवस्थितः
सो ऽपि युद्धाद् विनिष्क्रम्य रावणिः समुपाविशत्
ततो युद्धं प्रवृत्तं तु सुराणां राक्षसैः सह
शस्त्राभिवर्षणं घोरं मेघानाम् इव संयुगे
कुम्भकर्णस् तु दुष्टात्मा नानाप्रहरणोद्यतः
नाज्ञायत तदा युद्धे सह केनाप्य् अयुध्यत
दन्तैर् भुजाभ्यां पद्भ्यां च शक्तितोमरसायकैः
येन केनैव संरब्धस् ताडयाम् आस वै सुरान्
ततो रुद्रैर् महाभागैः सहादित्यैर् निशाचरः
प्रयुद्धस् तैश् च संग्रामे कृत्तः शस्त्रैर् निरन्तरम्
ततस् तद् राक्षसं सैन्यं त्रिदशैः समरुद्गणैः
रणे विद्रावितं सर्वं नानाप्रहरणैः शितैः
के चिद् विनिहताः शस्त्रैर् वेष्टन्ति स्म महीतले
वाहनेष्व् अवसक्ताश् च स्थिता एवापरे रणे
रथान् नागान् खरान् उष्ट्रान् पन्नगांस् तुरगांस् तथा
शिंशुमारान् वराहांश् च पिशाचवदनांस् तथा
तान् समालिङ्ग्य बाहुभ्यां विष्टब्धाः के चिद् उच्छ्रिताः
देवैस् तु शस्त्रसंविद्धा मम्रिरे च निशाचराः
चित्रकर्म इवाभाति स तेषां रणसंप्लवः
निहतानां प्रमत्तानां राक्षसानां महीतले
शोणितोदक निष्यन्दाकङ्कगृध्रसमाकुला
प्रवृत्ता संयुगमुखे शस्त्रग्राहवती नदी
एतस्मिन्न् अन्तरे क्रुद्धो दशग्रीवः प्रतापवान्
निरीक्ष्य तद् बलं सर्वं दैवतैर् विनिपातितम्
स तं प्रतिविगाह्याशु प्रवृद्धं सैन्यसागरम्
त्रिदशान् समरे निघ्नञ् शक्रम् एवाभ्यवर्तत
ततः शक्रो महच् चापं विस्फार्य सुमहास्वनम्
यस्य विस्फारघोषेण स्वनन्ति स्म दिशो दश
तद् विकृष्य महच् चापम् इन्द्रो रावणमूर्धनि
निपातयाम् आस शरान् पावकादित्यवर्चसः
तथैव च महाबाहुर् दशग्रीवो व्यवस्थितः
शक्रं कार्मुकविभ्रष्टैः शरवर्षैर् अवाकिरत्
प्रयुध्यतोर् अथ तयोर् बाणवर्षैः समन्ततः
नाज्ञायत तदा किं चित् सर्वं हि तमसा वृतम्
मूल पाठ: Rāmāyaṇa · Edition: John Smith's Rāmāyaṇa-Page (last comparison: 2020-04-16) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0