भाषा

ENहिગુ
ग्रंथ पाठ

रामायण · अध्याय 7.027

7.027.001

कैलासं लङ्घयित्वाथ दशग्रीवः सराक्षसः
आससाद महातेजा इन्द्रलोकं निशाचरः

7.027.002

तस्य राक्षससैन्यस्य समन्ताद् उपयास्यतः
देवलोकं ययौ शब्दो भिद्यमानार्णवोपमः

7.027.003

श्रुत्वा तु रावणं प्राप्तम् इन्द्रः संचलितासनः
अब्रवीत् तत्र तान् देवान् सर्वान् एव समागतान्

7.027.004

आदित्यान् सवसून् रुद्रान् विश्वान् साध्यान् मरुद्गणान्
सज्जीभवत युद्धार्थं रावणस्य दुरात्मनः

7.027.005

एवम् उक्तास् तु शक्रेण देवाः शक्रसमा युधि
संनह्यन्त महासत्त्वा युद्धश्रद्धासमन्विताः

7.027.006

स तु दीनः परित्रस्तो महेन्द्रो रावणं प्रति
विष्णोः समीपम् आगत्य वाक्यम् एतद् उवाच ह

7.027.007

विष्णो कथं करिष्यामो महावीर्यपराक्रम
असौ हि बलवान् रक्षो युद्धार्थम् अभिवर्तते

7.027.008

वरप्रदानाद् बलवान् न खल्व् अन्येन हेतुना
तच् च सत्यं हि कर्तव्यं वाक्यं देव प्रजापतेः

7.027.009

तद् यथा नमुचिर् वृत्रो बलिर् नरकशम्बरौ
त्वन् मतं समवष्टभ्य यथा दग्धास् तथा कुरु

7.027.010

न ह्य् अन्यो देव देवानाम् आपत्सु सुमहाबल
गतिः परायणं वास्ति त्वाम् ऋते पुरुषोत्तम

7.027.011

त्वं हि नारायणः श्रीमान् पद्मनाभः सनातनः
त्वयाहं स्थापितश् चैव देवराज्ये सनातने

7.027.012

तद् आख्याहि यथातत्त्वं देवदेव मम स्वयम्
असिचक्रसहायस् त्वं युध्यसे संयुगे रिपुम्

7.027.013

एवम् उक्तः स शक्रेण देवो नारायणः प्रभुः
अब्रवीन् न परित्रासः कार्यस् ते श्रूयतां च मे

7.027.014

न तावद् एष दुर्वृत्तः शक्यो दैवतदानवैः
हन्तुं युधि समासाद्य वरदानेन दुर्जयः

7.027.015

सर्वथा तु महत् कर्म करिष्यति बलोत्कटः
रक्षः पुत्रसहायो ऽसौ दृष्टम् एतन् निसर्गतः

7.027.016

ब्रवीषि यत् तु मां शक्र संयुगे योत्स्यसीति ह
नैवाहं प्रतियोत्स्ये तं रावणं राक्षसाधिपम्

7.027.017

अनिहत्य रिपुं विष्णुर् न हि प्रतिनिवर्तते
दुर्लभश् चैष कामो ऽद्य वरम् आसाद्य राक्षसे

7.027.018

प्रतिजानामि देवेन्द्र त्वत्समीपं शतक्रतो
राक्षसस्याहम् एवास्य भविता मृत्युकारणम्

7.027.019

अहम् एनं वधिष्यामि रावणं ससुतं युधि
देवतास् तोषयिष्यामि ज्ञात्वा कालम् उपस्थितम्

7.027.020

एतस्मिन्न् अन्तरे नादः शुश्रुवे रजनीक्षये
तस्य रावणसैन्यस्य प्रयुद्धस्य समन्ततः

7.027.021

अथ युद्धं समभवद् देवराक्षसयोस् तदा
घोरं तुमुलनिर्ह्रादं नानाप्रहरणायुधम्

7.027.022

एतस्मिन्न् अन्तरे शूरा राक्षसा घोरदर्शनाः
युद्धार्थम् अभ्यधावन्त सचिवा रावणाज्ञया

7.027.023

मारीचश् च प्रहस्तश् च महापार्श्वमहोदरौ
अकम्पनो निकुम्भश् च शुकः सारण एव च

7.027.024

संह्रादिर् धूमकेतुश् च महादंष्ट्रो महामुखः
जम्बुमाली महामाली विरूपाक्षश् च राक्षसः

7.027.025

एतैः सर्वैर् महावीर्यैर् वृतो राक्षसपुंगवः
रावणस्यार्यकः सैन्यं सुमाली प्रविवेश ह

7.027.026

स हि देवगणान् सर्वान् नानाप्रहरणैः शितैः
विध्वंसयति संक्रुद्धः सह तैः क्षणदाचरैः

7.027.027

एतस्मिन्न् अन्तरे शूरो वसूनाम् अष्टमो वसुः
सावित्र इति विख्यातः प्रविवेश महारणम्

7.027.028

ततो युद्धं समभवत् सुराणां राक्षसैः सह
क्रुद्धानां रक्षसां कीर्तिं समरेष्व् अनिवर्तिनाम्

7.027.029

ततस् ते राक्षसाः शूरा देवांस् तान् समरे स्थितान्
नानाप्रहरणैर् घोरैर् जघ्नुः शतसहस्रशः

7.027.030

सुरास् तु राक्षसान् घोरान् महावीर्यान् स्वतेजसा
समरे विविधैः शस्त्रैर् अनयन् यमसादनम्

7.027.031

एतस्मिन्न् अन्तरे शूरः सुमाली नाम राक्षसः
नानाप्रहरणैः क्रुद्धो रणम् एवाभ्यवर्तत

7.027.032

देवानां तद् बलं सर्वं नानाप्रहरणैः शितैः
विध्वंसयति संक्रुद्धो वायुर् जलधरान् इव

7.027.033

ते महाबाणवर्षैश् च शूलैः प्रासैश् च दारुणैः
पीड्यमानाः सुराः सर्वे न व्यतिष्ठन् समाहिताः

7.027.034

ततो विद्राव्यमाणेषु त्रिदशेषु सुमालिना
वसूनाम् अष्टमो देवः सावित्रो व्यवतिष्ठत

7.027.035

संवृतः स्वैर् अनीकैस् तु प्रहरन्तं निशाचरम्
विक्रमेण महातेजा वारयाम् आस संयुगे

7.027.036

सुमत्तयोस् तयोर् आसीद् युद्धं लोके सुदारुणम्
सुमालिनो वसोश् चैव समरेष्व् अनिवर्तिनोः

7.027.037

ततस् तस्य महाबाणैर् वसुना सुमहात्मना
महान् स पन्नगरथः क्षणेन विनिपातितः

7.027.038

हत्वा तु संयुगे तस्य रथं बाणशतैः शितैः
गदां तस्य वधार्थाय वसुर् जग्राह पाणिना

7.027.039

तां प्रदीप्तां प्रगृह्याशु कालदण्डनिभां शुभाम्
तस्य मूर्धनि सावित्रः सुमालेर् विनिपातयत्

7.027.040

तस्य मूर्धनि सोल्काभा पतन्ती च तदा बभौ
सहस्राक्षसमुत्सृष्टा गिराव् इव महाशनिः

7.027.041

तस्य नैवास्थि कायो वा न मांसं ददृशे तदा
गदया भस्मसाद्भूतो रणे तस्मिन् निपातितः

7.027.042

तं दृष्ट्वा निहतं संख्ये राक्षसास् ते समन्ततः
दुद्रुवुः सहिताः सर्वे क्रोशमाना महास्वनम्

मूल पाठ: Rāmāyaṇa · Edition: John Smith's Rāmāyaṇa-Page (last comparison: 2020-04-16) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc