भाषा

ENहिગુ
ग्रंथ पाठ

रामायण · अध्याय 7.026

7.026.001

स तु तत्र दशग्रीवः सह सैन्येन वीर्यवान्
अस्तं प्राप्ते दिनकरे निवासं समरोचयत्

7.026.002

उदिते विमले चन्द्रे तुल्यपर्वतवर्चसि
स ददर्श गुणांस् तत्र चन्द्रपादोपशोभितान्

7.026.003

कर्णिकारवनैर् दिव्यैः कदम्बगहनैस् तथा
पद्मिनीभिश् च फुल्लाभिर् मन्दाकिन्या जलैर् अपि

7.026.004

घण्टानाम् इव संनादः शुश्रुवे मधुरस्वनः
अप्सरोगणसंघनां गायतां धनदालये

7.026.005

पुष्पवर्षाणि मुञ्चन्तो नगाः पवनताडिताः
शैलं तं वासयन्तीव मधुमाधवगन्धिनः

7.026.006

मधुपुष्परजःपृक्तं गन्धम् आदाय पुष्कलम्
प्रववौ वर्धयन् कामं रावणस्य सुखो ऽनिलः

7.026.007

गेयात् पुष्पसमृद्ध्या च शैत्याद् वायोर् गुणैर् गिरेः
प्रवृत्तायां रजन्यां च चन्द्रस्योदयनेन च

7.026.008

रावणः सुमहावीर्यः कामबाणवशं गतः
विनिश्वस्य विनिश्वस्य शशिनं समवैक्षत

7.026.009

एतस्मिन्न् अन्तरे तत्र दिव्यपुष्पविभूषिता
सर्वाप्सरोवरा रम्भा पूर्णचन्द्रनिभानना

7.026.010

कृतैर् विशेषकैर् आर्द्रैः षडर्तुकुसुमोत्सवैः
नीलं सतोयमेघाभं वस्त्रं समवगुण्ठिता

7.026.011

यस्य वक्त्रं शशिनिभं भ्रुवौ चापनिभे शुभे
ऊरू करिकराकारौ करौ पल्लवकोमलौ
सैन्यमध्येन गच्छन्ती रावणेनोपलक्षिता

7.026.012

तां समुत्थाय रक्षेन्द्रः कामबाणबलार्दितः
करे गृहीत्वा गच्छन्तीं स्मयमानो ऽभ्यभाषत

7.026.013

क्व गच्छसि वरारोहे कां सिद्धिं भजसे स्वयम्
कस्याभ्युदयकालो ऽयं यस् त्वां समुपभोक्ष्यते

7.026.014

तवाननरसस्याद्य पद्मोत्पलसुगन्धिनः
सुधामृतरसस्येव को ऽद्य तृप्तिं गमिष्यति

7.026.015

स्वर्णकुम्भनिभौ पीनौ शुभौ भीरु निरन्तरौ
कस्योरस्थलसंस्पर्शं दास्यतस् ते कुचाव् इमौ

7.026.016

सुवर्णचक्रप्रतिमं स्वर्णदामचितं पृथु
अध्यारोक्ष्यति कस् ते ऽद्य स्वर्गं जघनरूपिणम्

7.026.017

मद्विशिष्टः पुमान् को ऽन्यः शक्रो विष्णुर् अथाश्विनौ
माम् अतीत्य हि यस्य त्वं यासि भीरु न शोभनम्

7.026.018

विश्रम त्वं पृथुश्रोणि शिलातलम् इदं शुभम्
त्रैलोक्ये यः प्रभुश् चैव तुल्यो मम न विद्यते

7.026.019

तद् एष प्राञ्जलिः प्रह्वो याचते त्वां दशाननः
यः प्रभुश् चापि भर्ता च त्रैलोक्यस्य भजस्व माम्

7.026.020

एवम् उक्ताब्रवीद् रम्भा वेपमाना कृताञ्जलिः
प्रसीद नार्हसे वक्तुम् ईदृशं त्वं हि मे गुरुः

7.026.021

अन्येभ्यो ऽपि त्वया रक्ष्या प्राप्नुयां धर्षणं यदि
धर्मतश् च स्नुषा ते ऽहं तत्त्वम् एतद् ब्रवीमि ते

7.026.022

अब्रवीत् तां दशग्रीवश् चरणाधोमुखीं स्थिताम्
सुतस्य यदि मे भार्या ततस् त्वं मे स्नुषा भवेः

7.026.023

बाढम् इत्य् एव सा रम्भा प्राह रावणम् उत्तरम्
धर्मतस् ते सुतस्याहं भार्या राक्षसपुंगव

7.026.024

पुत्रः प्रियतरः प्राणैर् भ्रातुर् वैश्रवणस्य ते
ख्यातो यस् त्रिषु लोकेषु नलकूबर इत्य् असौ

7.026.025

धर्मतो यो भवेद् विप्रः क्षत्रियो वीर्यतो भवेत्
क्रोधाद् यश् च भवेद् अग्निः क्षान्त्या च वसुधासमः

7.026.026

तस्यास्मि कृतसंकेता लोकपालसुतस्य वै
तम् उद्दिश्य च मे सर्वं विभूषणम् इदं कृतम्

7.026.027

यस्य तस्य हि नान्यस्य भावो मां प्रति तिष्ठति
तेन सत्येन मां राजन् मोक्तुम् अर्हस्य् अरिंदम

7.026.028

स हि तिष्ठति धर्मात्मा साम्प्रतं मत्समुत्सुकः
तन् न विघ्नं सुतस्येह कर्तुम् अर्हसि मुञ्च माम्

7.026.029

सद्भिर् आचरितं मार्गं गच्छ राक्षसपुंगव
माननीयो मया हि त्वं लालनीया तथास्मि ते

7.026.030

एवं ब्रुवाणां रम्भां तां धर्मार्थसहितं वचः
निर्भर्त्स्य राक्षसो मोहात् प्रतिगृह्य बलाद् बली
काममोहाभिसंरब्धो मैथुनायोपचक्रमे

7.026.031

सा विमुक्ता ततो रम्भा भ्रष्टमाल्यविभूषणा
गजेन्द्राक्रीडमथिता नदीवाकुलतां गता

7.026.032

सा वेपमाना लज्जन्ती भीता करकृताञ्जलिः
नलकूबरम् आसाद्य पादयोर् निपपात ह

7.026.033

तदवस्थां च तां दृष्ट्वा महात्मा नलकूबरः
अब्रवीत् किम् इदं भद्रे पादयोः पतितासि मे

7.026.034

सा तु निश्वसमाना च वेपमानाथ साञ्जलिः
तस्मै सर्वं यथातथ्यम् आख्यातुम् उपचक्रमे

7.026.035

एष देव दशग्रीवः प्राप्तो गन्तुं त्रिविष्टपम्
तेन सैन्यसहायेन निशेह परिणाम्यते

7.026.036

आयान्ती तेन दृष्टास्मि त्वत्सकाशम् अरिंदम
गृहीत्वा तेन पृष्टास्मि कस्य त्वम् इति रक्षसा

7.026.037

मया तु सर्वं यत् सत्यं तद् धि तस्मै निवेदितम्
काममोहाभिभूतात्मा नाश्रौषीत् तद् वचो मम

7.026.038

याच्यमानो मया देव स्नुषा ते ऽहम् इति प्रभो
तत् सर्वं पृष्ठतः कृत्वा बलात् तेनास्मि धर्षिता

7.026.039

एवं त्वम् अपराधं मे क्षन्तुम् अर्हसि मानद
न हि तुल्यं बलं सौम्य स्त्रियाश् च पुरुषस्य च

7.026.040

एवं श्रुत्वा तु संक्रुद्धस् तदा वैश्वरणात्मजः
धर्षणां तां परां श्रुत्वा ध्यानं संप्रविवेश ह

7.026.041

तस्य तत् कर्म विज्ञाय तदा वैश्रवणात्मजः
मुहूर्ताद् रोषताम्राक्षस् तोयं जग्राह पाणिना

7.026.042

गृहीत्वा सलिलं दिव्यम् उपस्पृश्य यथाविधि
उत्ससर्ज तदा शापं राक्षसेन्द्राय दारुणम्

7.026.043

अकामा तेन यस्मात् त्वं बलाद् भद्रे प्रधर्षिता
तस्मात् स युवतीम् अन्यां नाकामाम् उपयास्यति

7.026.044

यदा त्व् अकामां कामार्तो धर्षयिष्यति योषितम्
मूर्धा तु सप्तधा तस्य शकलीभविता तदा

7.026.045

तस्मिन्न् उदाहृते शापे ज्वलिताग्निसमप्रभे
देवदुन्दुभयो नेदुः पुष्पवृष्टिश् च खाच् च्युता

7.026.046

प्रजापतिमुखाश् चापि सर्वे देवाः प्रहर्षिताः
ज्ञात्वा लोकगतिं सर्वां तस्य मृत्युं च रक्षसः

7.026.047

श्रुत्वा तु स दशग्रीवस् तं शापं रोमहर्षणम्
नारीषु मैथुनं भावं नाकामास्व् अभ्यरोचयत्

मूल पाठ: Rāmāyaṇa · Edition: John Smith's Rāmāyaṇa-Page (last comparison: 2020-04-16) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc