रामायण · अध्याय 7.025
स तु दत्त्वा दशग्रीवो वनं घोरं खरस्य तत्
भगिनीं च समाश्वास्य हृष्टः स्वस्थतरो ऽभवत्
ततो निकुम्भिला नाम लङ्कायाः काननं महत्
महात्मा राक्षसेन्द्रस् तत् प्रविवेश सहानुगः
तत्र यूपशताकीर्णं सौम्यचैत्योपशोभितम्
ददर्श विष्ठितं यज्ञं संप्रदीप्तम् इव श्रिया
ततः कृष्णाजिनधरं कमण्डलुशिखाध्वजम्
ददर्श स्वसुतं तत्र मेघनादम् अरिंदमम्
रक्षःपतिः समासाद्य समाश्लिष्य च बाहुभिः
अब्रवीत् किम् इदं वत्स वर्तते तद् ब्रवीहि मे
उशना त्व् अब्रवीत् तत्र गुरुर् यज्ञसमृद्धये
रावणं राक्षसश्रेष्ठं द्विजश्रेष्ठो महातपाः
अहम् आख्यामि ते राजञ् श्रूयतां सर्वम् एव च
यज्ञास् ते सप्त पुत्रेण प्राप्ताः सुबहुविस्तराः
अग्निष्टोमो ऽश्वमेधश् च यज्ञो बहुसुवर्णकः
राजसूयस् तथा यज्ञो गोमेधो वैष्णवस् तथा
माहेश्वरे प्रवृत्ते तु यज्ञे पुम्भिः सुदुर्लभे
वरांस् ते लब्धवान् पुत्रः साक्षात् पशुपतेर् इह
कामगं स्यन्दनं दिव्यम् अन्तरिक्षचरं ध्रुवम्
मायां च तामसीं नाम यया संपद्यते तमः
एतया किल संग्रामे मायया राक्षसेश्वर
प्रयुद्धस्य गतिः शक्या न हि ज्ञातुं सुरासुरैः
अक्षयाव् इषुधी बाणैश् चापं चापि सुदुर्जयम्
अस्त्रं च बलवत् सौम्य शत्रुविध्वंसनं रणे
एतान् सर्वान् वरांल् लब्ध्वा पुत्रस् ते ऽयं दशानन
अद्य यज्ञसमाप्तौ च त्वत्प्रतीक्षः स्थितो अहम्
ततो ऽब्रवीद् दशग्रीवो न शोभनम् इदं कृतम्
पूजिताः शत्रवो यस्माद् द्रव्यैर् इन्द्रपुरोगमाः
एहीदानीं कृतं यद् धि तद् अकर्तुं न शक्यते
आगच्छ सौम्य गच्छामः स्वम् एव भवनं प्रति
ततो गत्वा दशग्रीवः सपुत्रः सविभीषणः
स्त्रियो ऽवतारयाम् आस सर्वास् ता बाष्पविक्लवाः
लक्षिण्यो रत्नबूताश् च देवदानवरक्षसाम्
नानाभूषणसंपन्ना ज्वलन्त्यः स्वेन तेजसा
विभीषणस् तु ता नारीर् दृष्ट्वा शोकसमाकुलाः
तस्य तां च मतिं ज्ञात्वा धर्मात्मा वाक्यम् अब्रवीत्
ईदृशैस् तैः समाचारैर् यशोऽर्थकुलनाशनैः
धर्षणं प्राणिनां दत्त्वा स्वमतेन विचेष्टसे
ज्ञातीन् वै धर्षयित्वेमास् त्वयानीता वराङ्गनाः
त्वाम् अतिक्रम्य मधुना राजन् कुम्भीनसी हृता
रावणस् त्व् अब्रवीद् वाक्यं नावगच्छामि किं त्व् इदम्
को वायं यस् त्वयाख्यातो मधुर् इत्य् एव नामतः
विभीषणस् तु संक्रुद्धो भ्रातरं वाक्यम् अब्रवीत्
श्रूयताम् अस्य पापस्य कर्मणः फलम् आगतम्
मातामहस्य यो ऽस्माकं ज्येष्ठो भ्राता सुमालिनः
माल्यवान् इति विख्यातो वृद्धप्राज्ञो निशाचरः
पितुर् ज्येष्ठो जनन्याश् च अस्माकं त्व् आर्यको ऽभवत्
तस्य कुम्भीनसी नाम दुहितुर् दुहिताभवत्
मातृष्वसुर् अथास्माकं सा कन्या चानलोद्भवा
भवत्य् अस्माकम् एषा वै भ्रातॄणां धर्मतः स्वसा
सा हृता मधुना राजन् राक्षसेन बलीयसा
यज्ञप्रवृत्ते पुत्रे ते मयि चान्तर्जलोषिते
निहत्य राक्षसश्रेष्ठान् अमात्यांस् तव संमतान्
धर्षयित्वा हृता राजन् गुप्ता ह्य् अन्तःपुरे तव
श्रुत्वा त्व् एतन् महाराज क्षान्तम् एव हतो न सः
यस्माद् अवश्यं दातव्या कन्या भर्त्रे हि दातृभिः
अस्मिन्न् एवाभिसंप्राप्तं लोके विदितम् अस्तु ते
ततो ऽब्रवीद् दशग्रीवः क्रुद्धः संरक्तलोचनः
कल्प्यतां मे रथः शीघ्रं शूराः सज्जीभवन्तु च
भ्राता मे कुम्भकर्णश् च ये च मुख्या निशाचराः
वाहनान्य् अधिरोहन्तु नानाप्रहरणायुधाः
अद्य तं समरे हत्वा मधुं रावणनिर्भयम्
इन्द्रलोकं गमिष्यामि युद्धकाङ्क्षी सुहृद्वृतः
ततो विजित्य त्रिदिवं वशे स्थाप्य पुरंदरम्
निर्वृतो विहरिष्यामि त्रैलोक्यैश्वर्यशोभितः
अक्षौहिणीसहस्राणि चत्वार्य् उग्राणि रक्षसाम्
नानाप्रहरणान्य् आशु निर्ययुर् युद्धकाङ्क्षिणाम्
इन्द्रजित् त्व् अग्रतः सैन्यं सैनिकान् परिगृह्य च
रावणो मध्यतः शूरः कुम्भकर्णश् च पृष्ठतः
विभीषणस् तु धर्मात्मा लङ्कायां धर्मम् आचरत्
ते तु सर्वे महाभागा ययुर् मधुपुरं प्रति
रथैर् नागैः खरैर् उष्ट्रैर् हयैर् दीप्तैर् महोरगैः
राक्षसाः प्रययुः सर्वे कृत्वाकाशं निरन्तरम्
दैत्याश् च शतशस् तत्र कृतवैराः सुरैः सह
रावणं प्रेक्ष्य गच्छन्तम् अन्वगच्छन्त पृष्ठतः
स तु गत्वा मधुपुरं प्रविश्य च दशाननः
न ददर्श मधुं तत्र भगिनीं तत्र दृष्टवान्
सा प्रह्वा प्राञ्जलिर् भूत्वा शिरसा पादयोर् गता
तस्य राक्षसराजस्य त्रस्ता कुम्भीनसी स्वसा
तां समुत्थापयाम् आस न भेतव्यम् इति ब्रुवन्
रावणो राक्षसश्रेष्ठः किं चापि करवाणि ते
साब्रवीद् यदि मे राजन् प्रसन्नस् त्वं महाबल
भर्तारं न ममेहाद्य हन्तुम् अर्हसि मानद
सत्यवाग् भव राजेन्द्र माम् अवेक्षस्व याचतीम्
त्वया ह्य् उक्तं महाबाहो न भेतव्यम् इति स्वयम्
रावणस् त्व् अब्रवीद् धृष्टः स्वसारं तत्र संस्थिताम्
क्व चासौ तव भर्ता वै मम शीघ्रं निवेद्यताम्
सह तेन गमिष्यामि सुरलोकं जयाय वै
तव कारुण्यसौहार्दान् निवृत्तो ऽस्मि मधोर् वधात्
इत्य् उक्ता सा प्रसुप्तं तं समुत्थाप्य निशाचरम्
अब्रवीत् संप्रहृष्टेव राक्षसी सुविपश्चितम्
एष प्राप्तो दशग्रीवो मम भ्राता निशाचरः
सुरलोकजयाकाङ्क्षी साहाय्ये त्वां वृणोति च
तद् अस्य त्वं सहायार्थं सबन्धुर् गच्छ राक्षस
स्निग्धस्य भजमानस्य युक्तम् अर्थाय कल्पितुम्
तस्यास् तद् वचनं श्रुत्वा तथेत्य् आह मधुर् वचः
ददर्श राक्षसश्रेष्ठं यथान्यायम् उपेत्य सः
पूजयाम् आस धर्मेण रावणं राक्षसाधिपम्
प्राप्तपूजो दशग्रीवो मधुवेश्मनि वीर्यवान्
तत्र चैकां निशाम् उष्य गमनायोपचक्रमे
ततः कैलासम् आसाद्य शैलं वैश्रवणालयम्
राक्षसेन्द्रो महेन्द्राभः सेनाम् उपनिवेशयत्
मूल पाठ: Rāmāyaṇa · Edition: John Smith's Rāmāyaṇa-Page (last comparison: 2020-04-16) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0