रामायण · अध्याय 7.020
ततो वित्रासयन् मर्त्यान् पृथिव्यां राक्षसाधिपः
आससाद घने तस्मिन् नारदं मुनिसत्तमम्
नारदस् तु महातेजा देवर्षिर् अमितप्रभः
अब्रवीन् मेघपृष्ठस्थो रावणं पुष्पके स्थितम्
राक्षसाधिपते सौम्य तिष्ठ विश्रवसः सुत
प्रीतो ऽस्म्य् अभिजनोपेत विक्रमैर् ऊर्जितैस् तव
विष्णुना दैत्यघातैश् च तार्क्ष्यस्योरगधर्षणैः
त्वया समरमर्दैश् च भृशं हि परितोषितः
किं चिद् वक्ष्यामि तावत् ते श्रोतव्यं श्रोष्यसे यदि
श्रुत्वा चानन्तरं कार्यं त्वया राक्षसपुंगव
किम् अयं वध्यते लोकस् त्वयावध्येन दैवतैः
हत एव ह्य् अयं लोको यदा मृत्युवशं गतः
पश्य तावन् महाबाहो राक्षसेश्वरमानुषम्
लोकम् एनं विचित्रार्थं यस्य न ज्ञायते गतिः
क्व चिद् वादित्रनृत्तानि सेव्यन्ते मुदितैर् जनैः
रुद्यते चापरैर् आर्तैर् धाराश्रुनयनाननैः
माता पितृसुतस्नेहैर् भार्या बन्धुमनोरमैः
मोहेनायं जनो ध्वस्तः क्लेशं स्वं नावबुध्यते
तत् किम् एवं परिक्लिश्य लोकं मोहनिराकृतम्
जित एव त्वया सौम्य मर्त्यलोको न संशयः
एवम् उक्तस् तु लङ्केशो दीप्यमान इवौजसा
अब्रवीन् नारदं तत्र संप्रहस्याभिवाद्य च
महर्षे देवगन्धर्वविहार समरप्रिय
अहं खलूद्यतो गन्तुं विजयार्थी रसातलम्
ततो लोकत्रयं जित्वा स्थाप्य नागान् सुरान् वशे
समुद्रम् अमृतार्थं वै मथिष्यामि रसालयम्
अथाब्रवीद् दशग्रीवं नारदो भगवान् ऋषिः
क्व खल्व् इदानीं मार्गेण त्वयानेन गमिष्यते
अयं खलु सुदुर्गम्यः पितृराज्ञः पुरं प्रति
मार्गो गच्छति दुर्धर्षो यमस्यामित्रकर्शन
स तु शारदमेघाभं मुक्त्वा हासं दशाननः
उवाच कृतम् इत्य् एव वचनं चेदम् अब्रवीत्
तस्माद् एष महाब्रह्मन् वैवस्वतवधोद्यतः
गच्छामि दक्षिणाम् आशां यत्र सूर्यात्मजो नृपः
मया हि भगवन् क्रोधात् प्रतिज्ञातं रणार्थिना
अवजेष्यामि चतुरो लोकपालान् इति प्रभो
तेनैष प्रस्थितो ऽहं वै पितृराजपुरं प्रति
प्राणिसंक्लेशकर्तारं योजयिष्यामि मृत्युना
एवम् उक्त्वा दशग्रीवो मुनिं तम् अभिवाद्य च
प्रययौ दक्षिणाम् आशां प्रहृष्टैः सह मन्त्रिभिः
नारदस् तु महातेजा मुहूर्तं ध्यानम् आस्थितः
चिन्तयाम् आस विप्रेन्द्रो विधूम इव पावकः
येन लोकास् त्रयः सेन्द्राः क्लिश्यन्ते सचराचराः
क्षीणे चायुषि धर्मे च स कालो हिंस्यते कथम्
यस्य नित्यं त्रयो लोका विद्रवन्ति भयार्दिताः
तं कथं राक्षसेन्द्रो ऽसौ स्वयम् एवाभिगच्छति
यो विधाता च धाता च सुकृते दुष्कृते यथा
त्रैलोक्यं विजितं येन तं कथं नु विजेष्यति
अपरं किं नु कृत्वैवं विधानं संविधास्यति
कौतूहलसमुत्पन्नो यास्यामि यमसादनम्
मूल पाठ: Rāmāyaṇa · Edition: John Smith's Rāmāyaṇa-Page (last comparison: 2020-04-16) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0