भाषा

ENहिગુ
ग्रंथ पाठ

रामायण · अध्याय 7.019

7.019.001

अथ जित्वा मरुत्तं स प्रययौ राक्षसाधिपः
नगराणि नरेन्द्राणां युद्धकाङ्क्षी दशाननः

7.019.002

स समासाद्य राजेन्द्रान् महेन्द्रवरुणोपमान्
अब्रवीद् राक्षसेन्द्रस् तु युद्धं मे दीयताम् इति

7.019.003

निर्जिताः स्मेति वा ब्रूत एषो हि मम निश्चयः
अन्यथा कुर्वताम् एवं मोक्षो वो नोपपद्यते

7.019.004

ततस् तु बहवः प्राज्ञाः पार्थिवा धर्मणिश्चयाः
निर्जिताः स्मेत्य् अभाषन्त ज्ञात्वा वरबलं रिपोः

7.019.005

दुष्यन्तः सुरथो गाधिर् गयो राजा पुरूरवाः
एते सर्वे ऽब्रुवंस् तात निर्जिताः स्मेति पार्थिवाः

7.019.006

अथायोध्यां समासाद्य रावणो राक्षसाधिपः
सुगुप्ताम् अनरण्येन शक्रेणेवामरावतीम्

7.019.007

प्राह राजानम् आसाद्य युद्धं मे संप्रदीयताम्
निर्जितो ऽस्मीति वा ब्रूहि ममैतद् इह शासनम्

7.019.008

अनरण्यः सुसंक्रुद्धो राक्षसेन्द्रम् अथाब्रवीत्
दीयते द्वन्द्वयुद्धं ते राक्षसाधिपते मया

7.019.009

अथ पूर्वं श्रुतार्थेन सज्जितं सुमहद् धि यत्
निष्क्रामत् तन् नरेन्द्रस्य बलं रक्षोवधोद्यतम्

7.019.010

नागानां बहुसाहस्रं वाजिनाम् अयुतं तथा
महीं संछाद्य निष्क्रान्तं सपदातिरथं क्षणात्

7.019.011

तद् रावणबलं प्राप्य बलं तस्य महीपतेः
प्राणश्यत तदा राजन् हव्यं हुतम् इवानले

7.019.012

सो ऽपश्यत नरेन्द्रस् तु नश्यमानं महद् बलम्
महार्णवं समासाद्य यथा पञ्चापगा जलम्

7.019.013

ततः शक्रधनुःप्रख्यं धनुर् विस्फारयन् स्वयम्
आसदाद नरेन्द्रास् तं रावणं क्रोधमूर्छितः

7.019.014

ततो बाणशतान्य् अष्टौ पातयाम् आस मूर्धनि
तस्य राक्षसराजस्य इक्ष्वाकुकुलनन्दनः

7.019.015

तस्य बाणाः पतन्तस् ते चक्रिरे न क्षतं क्व चित्
वारिधारा इवाभ्रेभ्यः पतन्त्यो नगमूर्धनि

7.019.016

ततो राक्षसराजेन क्रुद्धेन नृपतिस् तदा
तलेन भिहतो मूर्ध्नि स रथान् निपपात ह

7.019.017

स राजा पतितो भूमौ विह्वलाङ्गः प्रवेपितः
वज्रदग्ध इवारण्ये सालो निपतितो महान्

7.019.018

तं प्रहस्याब्रवीद् रक्ष इक्ष्वाकुं पृथिवीपतिम्
किम् इदानीं त्वया प्राप्तं फलं मां प्रति युध्यता

7.019.019

त्रैलोक्ये नास्ति यो द्वन्द्वं मम दद्यान् नराधिप
शङ्के प्रमत्तो भोगेषु न शृणोषि बलं मम

7.019.020

तस्यैवं ब्रुवतो राजा मन्दासुर् वाक्यम् अब्रवीत्
किं शक्यम् इह कर्तुं वै यत् कालो दुरतिक्रमः

7.019.021

न ह्य् अहं निर्जितो रक्षस् त्वया चात्मप्रशंसिना
कालेनेह विपन्नो ऽहं हेतुभूतस् तु मे भवान्

7.019.022

किं त्व् इदानीं मया शक्यं कर्तुं प्राणपरिक्षये
इक्ष्वाकुपरिभावित्वाद् वचो वक्ष्यामि राक्षस

7.019.023

यदि दत्तं यदि हुतं यदि मे सुकृतं तपः
यदि गुप्ताः प्रजाः सम्यक् तथा सत्यं वचो ऽस्तु मे

7.019.024

उत्पत्स्यते कुले ह्य् अस्मिन्न् इक्ष्वाकूणां महात्मनाम्
राजा परमतेजस्वी यस् ते प्राणान् हरिष्यति

7.019.025

ततो जलधरोदग्रस् ताडितो देवदुन्दुभिः
तस्मिन्न् उदाहृते शापे पुष्पवृष्टिश् च खाच् च्युता

7.019.026

ततः स राजा राजेन्द्र गतः स्थानं त्रिविष्टपम्
स्वर्गते च नृपे राम राक्षसः स न्यवर्तत

मूल पाठ: Rāmāyaṇa · Edition: John Smith's Rāmāyaṇa-Page (last comparison: 2020-04-16) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc