रामायण · अध्याय 7.018
प्रविष्टायां हुताशं तु वेदवत्यां स रावणः
पुष्पकं तत् समारुह्य परिचक्राम मेदिनीम्
ततो मरुत्तं नृपतिं यजन्तं सह दैवतैः
उशीरबीजम् आसाद्य ददर्श स तु राक्षसः
संवर्तो नाम ब्रह्मर्षिर् भ्राता साक्षाद् बृहस्पतेः
याजयाम् आस धर्मज्ञः सर्वैर् ब्रह्मगणैर् वृतः
दृष्ट्वा देवास् तु तद् रक्षो वरदानेन दुर्जयम्
तां तां योनिं समापन्नास् तस्य धर्षणभीरवः
इन्द्रो मयूरः संवृत्तो धर्मराजस् तु वायसः
कृकलासो धनाध्यक्षो हंसो वै वरुणो ऽभवत्
तं च राजानम् आसाद्य रावणो राक्षसाधिपः
प्राह युद्धं प्रयच्चेति निर्जितो ऽस्मीति वा वद
ततो मरुत्तो नृपतिः को भवान् इत्य् उवाच तम्
अवहासं ततो मुक्त्वा राक्षसो वाक्यम् अब्रवीत्
अकुतूहलभावेन प्रीतो ऽस्मि तव पार्थिव
धनदस्यानुजं यो मां नावगच्छसि रावणम्
त्रिषु लोकेषु कः सो ऽस्ति यो न जानाति मे बलम्
भ्रातरं येन निर्जित्य विमानम् इदम् आहृतम्
ततो मरुत्तो नृपतिस् तं राक्षसम् अथाब्रवीत्
धन्यः खलु भवान् येन ज्येष्ठो भ्राता रणे जितः
नाधर्मसहितं श्लाघ्यं न लोकप्रतिसंहितम्
कर्म दौरात्म्यकं कृत्वा श्लाघसे भ्रातृनिर्जयात्
किं त्वं प्राक् केवलं धर्मं चरित्वा लब्धवान् वरम्
श्रुतपूर्वं हि न मया यादृशं भाषसे स्वयम्
ततः शरासनं गृह्य सायकांश् च स पार्थिवः
रणाय निर्ययौ क्रुद्धः संवर्तो मार्गम् आवृणोत्
सो ऽब्रवीत् स्नेहसंयुक्तं मरुत्तं तं महान् ऋषिः
श्रोतव्यं यदि मद्वाक्यं संप्रहारो न ते क्षमः
माहेश्वरम् इदं सत्रम् असमाप्तं कुलं दहेत्
दीक्षितस्य कुतो युद्धं क्रूरत्वं दीक्षिते कुतः
संशयश् च रणे नित्यं राक्षसश् चैष दुर्जयः
स निवृत्तो गुरोर् वाक्यान् मरुत्तः पृथिवीपतिः
विसृज्य सशरं चापं स्वस्थो मखमुखो ऽभवत्
ततस् तं निर्जितं मत्वा घोषयाम् आस वै शुकः
रावणो जितवांश् चेति हर्षान् नादं च मुक्तवान्
तान् भक्षयित्वा तत्रस्थान् महर्षीन् यज्ञम् आगतान्
वितृप्तो रुधिरैस् तेषां पुनः संप्रययौ महीम्
रावणे तु गते देवाः सेन्द्राश् चैव दिवौकसः
ततः स्वां योनिम् आसाद्य तानि सत्त्वान्य् अथाब्रुवन्
हर्षात् तदाब्रवीद् इन्द्रो मयूरं नीलबर्हिणम्
प्रीतो ऽस्मि तव धर्मज्ञ उपकाराद् विहंगम
मम नेत्रसहस्रं यत् तत् ते बर्हे भविष्यति
वर्षमाणे मयि मुदं प्राप्स्यसे प्रीतिलक्षणम्
नीलाः किल पुरा बर्हा मयूराणां नराधिप
सुराधिपाद् वरं प्राप्य गताः सर्वे विचित्रताम्
धर्मराजो ऽब्रवीद् राम प्राग्वंशे वायसं स्थितम्
पक्षिंस् तवास्मि सुप्रीतः प्रीतस्य च वचः शृणु
यथान्ये विविधै रोगैः पीड्यन्ते प्राणिनो मया
ते न ते प्रभविष्यन्ति मयि प्रीते न संशयः
मृत्युतस् ते भयं नास्ति वरान् मम विहंगम
यावत् त्वां न वधिष्यन्ति नरास् तावद् भविष्यसि
ये च मद्विषयस्थास् तु मानवाः क्षुधयार्दिताः
त्वयि भुक्ते तु तृप्तास् ते भविष्यन्ति सबान्धवाः
वरुणस् त्व् अब्रवीद् धंसं गङ्गातोयविचारिणम्
श्रूयतां प्रीतिसंयुक्तं वचः पत्ररथेश्वर
वर्णो मनोहरः सौम्यश् चन्द्रमण्डलसंनिभः
भविष्यति तवोदग्रः शुक्लफेनसमप्रभः
मच्छरीरं समासाद्य कान्तो नित्यं भविष्यसि
प्राप्स्यसे चातुलां प्रीतिम् एतन् मे प्रीतिलक्षणम्
हंसानां हि पुरा राम न वर्णः सर्वपाण्डुरः
पक्षा नीलाग्रसंवीताः क्रोडाः शष्पाग्रनिर्मलाः
अथाब्रवीद् वैश्रवणः कृकलासं गिरौ स्थितम्
हैरण्यं संप्रयच्छामि वर्णं प्रीतिस् तवाप्य् अहम्
सद्रव्यं च शिरो नित्यं भविष्यति तवाक्षयम्
एष काञ्चनको वर्णो मत्प्रीत्या ते भविष्यति
एवं दत्त्वा वरांस् तेभ्यस् तस्मिन् यज्ञोत्सवे सुराः
निवृत्ते सह राज्ञा वै पुनः स्वभवनं गताः
मूल पाठ: Rāmāyaṇa · Edition: John Smith's Rāmāyaṇa-Page (last comparison: 2020-04-16) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0