भाषा

ENहिગુ
ग्रंथ पाठ

रामायण · अध्याय 7.017

7.017.001

अथ राजन् महाबाहुर् विचरन् स महीतलम्
हिमवद्वनम् आसाद्य परिचक्राम रावणः

7.017.002

तत्रापश्यत वै कन्यां कृष्टाजिनजटाधराम्
आर्षेण विधिना युक्तां तपन्तीं देवताम् इव

7.017.003

स दृष्ट्वा रूपसंपन्नां कन्यां तां सुमहाव्रताम्
काममोहपरीतात्मा पप्रच्छ प्रहसन्न् इव

7.017.004

किम् इदं वर्तसे भद्रे विरुद्धं यौवनस्य ते
न हि युक्ता तवैतस्य रूपस्येयं प्रतिक्रिया

7.017.005

कस्यासि दुहिता भद्रे को वा भर्ता तवानघे
पृच्छतः शंस मे शीघ्रं को वा हेतुस् तपोऽर्जने

7.017.006

एवम् उक्ता तु सा कन्या तेनानार्येण रक्षसा
अब्रवीद् विधिवत् कृत्वा तस्यातिथ्यं तपोधना

7.017.007

कुशध्वजो नाम पिता ब्रह्मर्षिर् मम धार्मिकः
बृहस्पतिसुतः श्रीमान् बुद्ध्या तुल्यो बृहस्पतेः

7.017.008

तस्याहं कुर्वतो नित्यं वेदाभ्यासं महात्मनः
संभूता वान्मयी कन्या नाम्ना वेदवती स्मृता

7.017.009

ततो देवाः सगन्धर्वा यक्षराक्षसपन्नगाः
ते चापि गत्वा पितरं वरणं रोचयन्ति मे

7.017.010

न च मां स पिता तेभ्यो दत्तवान् राक्षसेश्वर
कारणं तद् वदिष्यामि निशामय महाभुज

7.017.011

पितुस् तु मम जामाता विष्णुः किल सुरोत्तमः
अभिप्रेतस् त्रिलोकेशस् तस्मान् नान्यस्य मे पिताः

7.017.012

दातुम् इच्छति धर्मात्मा तच् छ्रुत्वा बलदर्पितः
शम्भुर् नाम ततो राजा दैत्यानां कुपितो ऽभवत्
तेन रात्रौ प्रसुप्तो मे पिता पापेन हिंसितः

7.017.013

ततो मे जननी दीना तच् छरीरं पितुर् मम
परिष्वज्य महाभागा प्रविष्टा दहनं सह

7.017.014

ततो मनोरथं सत्यं पितुर् नारायणं प्रति
करोमीति ममेच्छा च हृदये साधु विष्ठिता

7.017.015

अहं प्रेतगतस्यापि करिष्ये काङ्क्षितं पितुः
इति प्रतिज्ञाम् आरुह्य चरामि विपुलं तपः

7.017.016

एतत् ते सर्वम् आख्यातं मया राक्षसपुंगव
आश्रितां विद्धि मां धर्मं नारायणपतीच्छया

7.017.017

विज्ञातस् त्वं हि मे राजन् गच्छ पौलस्त्यनन्दन
जानामि तपसा सर्वं त्रैलोक्ये यद् धि वर्तते

7.017.018

सो ऽब्रवीद् रावणस् तत्र तां कन्यां सुमहाव्रताम्
अवरुह्य विमानाग्रात् कन्दर्पशरपीडितः

7.017.019

अवलिप्तासि सुश्रोणि यस्यास् ते मतिर् ईदृशी
वृद्धानां मृगशावाक्षि भ्राजते धर्मसंचयः

7.017.020

त्वं सर्वगुणसंपन्ना नार्हसे कर्तुम् ईदृशम्
त्रैलोक्यसुन्दरी भीरु यौवने वार्धकं विधिम्

7.017.021

कश् च तावद् असौ यं त्वं विष्णुर् इत्य् अभिभाषसे
वीर्येण तपसा चैव भोगेन च बलेन च
न मयासौ समो भद्रे यं त्वं कामयसे ऽङ्गने

7.017.022

म मैवम् इति सा कन्या तम् उवाच निशाचरम्
मूर्धजेषु च तां रक्षः कराग्रेण परामृशत्

7.017.023

ततो वेदवती क्रुद्धा केशान् हस्तेन साच्छिनत्
उवाचाग्निं समाधाय मरणाय कृतत्वरा

7.017.024

धर्षितायास् त्वयानार्य नेदानीं मम जीवितम्
रक्षस् तस्मात् प्रवेक्ष्यामि पश्यतस् ते हुताशनम्

7.017.025

यस्मात् तु धर्षिता चाहम् अपापा चाप्य् अनाथवत्
तस्मात् तव वधार्थं वै समुत्पत्स्याम्य् अहं पुनः

7.017.026

न हि शक्यः स्त्रिया पाप हन्तुं त्वं तु विशेषतः
शापे त्वयि मयोत्सृष्टे तपसश् च व्ययो भवेत्

7.017.027

यदि त्व् अस्ति मया किं चित् कृतं दत्तं हुतं तथा
तेन ह्य् अयोनिजा साध्वी भवेयं धर्मिणः सुता

7.017.028

एवम् उक्त्वा प्रविष्टा सा ज्वलन्तं वै हुताशनम्
पपात च दिवो दिव्या पुष्पवृष्टिः समन्ततः

7.017.029

पूर्वं क्रोधहतः शत्रुर् ययासौ निहतस् त्वया
समुपाश्रित्य शैलाभं तव वीर्यम् अमानुषम्

7.017.030

एवम् एषा महाभागा मर्त्येषूत्पद्यते पुनः
क्षेत्रे हलमुखग्रस्ते वेद्याम् अग्निशिखोपमा

7.017.031

एषा वेदवती नाम पूर्वम् आसीत् कृते युगे
त्रेतायुगम् अनुप्राप्य वधार्थं तस्य रक्षसः
सीतोत्पन्नेति सीतैषा मानुषैः पुनर् उच्यते

मूल पाठ: Rāmāyaṇa · Edition: John Smith's Rāmāyaṇa-Page (last comparison: 2020-04-16) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc