रामायण · अध्याय 7.016
स जित्वा भ्रातरं राम धनदं राक्षसाधिपः
महासेनप्रसूतिं तु ययौ शरवणं ततः
अथापश्यद् दशग्रीवो रौक्मं शरवणं तदा
गभस्तिजालसंवीतं द्वितीयम् इव भास्करम्
पर्वतं स समासाद्य किं चिद् रम्यवनान्तरम्
अपश्यत् पुष्पकं तत्र राम विष्टम्भितं दिवि
विष्टब्धं पुष्पकं दृष्ट्वा कामगं ह्य् अगमं कृतम्
राक्षसश् चिन्तयाम् आस सचिवैस् तैः समावृतः
किम् इदं यन्निमित्तं मे न च गच्छति पुष्पकम्
पर्वतस्योपरिस्थस्य कस्य कर्म त्व् इदं भवेत्
ततो ऽब्रवीद् दशग्रीवं मारीचो बुद्धिकोविदः
नैतन् निष्कारणं राजन् पुष्पको ऽयं न गच्छति
ततः पार्श्वम् उपागम्य भवस्यानुचरो बली
नन्दीश्वर उवाचेदं राक्षसेन्द्रम् अशङ्कितः
निवर्तस्व दशग्रीव शैले क्रीडति शंकरः
सुपर्णनागयक्षाणां दैत्यदानवरक्षसाम्
प्राणिनाम् एव सर्वेषाम् अगम्यः पर्वतः कृतः
स रोषात् ताम्रनयनः पुष्पकाद् अवरुह्य च
को ऽयं शंकर इत्य् उक्त्वा शैलमूलम् उपागमत्
नन्दीश्वरम् अथापश्यद् अविदूरस्थितं प्रभुम्
दीप्तं शूलम् अवष्टभ्य द्वितीयम् इव शंकरम्
स वानरमुखं दृष्ट्वा तम् अवज्ञाय राक्षसः
प्रहासं मुमुचे मौर्ख्यात् सतोय इव तोयदः
संक्रुद्धो भगवान् नन्दी शंकरस्यापरा तनुः
अब्रवीद् राक्षसं तत्र दशग्रीवम् उपस्थितम्
यस्माद् वानरमूर्तिं मां दृष्ट्वा राक्षसदुर्मते
मौर्ख्यात् त्वम् अवजानीषे परिहासं च मुञ्चसि
तस्मान् मद्रूपसंयुक्ता मद्वीर्यसमतेजसः
उत्पत्स्यन्ते वधार्थं हि कुलस्य तव वानराः
किं त्व् इदानीं मया शक्यं कर्तुं यत् त्वां निशाचर
न हन्तव्यो हतस् त्वं हि पूर्वम् एव स्वकर्मभिः
अचिन्तयित्वा स तदा नन्दिवाक्यं निशाचरः
पर्वतं तं समासाद्य वाक्यम् एतद् उवाच ह
पुष्पकस्य गतिश् छिन्ना यत्कृते मम गच्छतः
तद् एतच् छैलम् उन्मूलं करोमि तव गोपते
केन प्रभावेन भवस् तत्र क्रीडति राजवत्
विज्ञातव्यं न जानीषे भयस्थानम् उपस्थितम्
एवम् उक्त्वा ततो राजन् भुजान् प्रक्षिप्य पर्वते
तोलयाम् आस तं शैलं समृगव्यालपादपम्
ततो राम महादेवः प्रहसन् वीक्ष्य तत्कृतम्
पादाङ्गुष्ठेन तं शैलं पीडयाम् आस लीलया
ततस् ते पीडितास् तस्य शैलस्याधो गता भुजाः
विस्मिताश् चाभवंस् तत्र सचिवास् तस्य रक्षसः
रक्षसा तेन रोषाच् च भुजानां पीडनात् तथा
मुक्तो विरावः सुमहांस् त्रैलोक्यं येन पूरितम्
मानुषाः शब्दवित्रस्ता मेनिरे लोकसंक्षयम्
देवताश् चापि संक्षुब्धाश् चलिताः स्वेषु कर्मसु
ततः प्रीतो महादेवः शैलाग्रे विष्ठितस् तदा
मुक्त्वा तस्य भुजान् राजन् प्राह वाक्यं दशाननम्
प्रीतो ऽस्मि तव वीर्याच् च शौण्डीर्याच् च निशाचर
रवतो वेदना मुक्तः स्वरः परमदारुणः
यस्माल् लोकत्रयं त्व् एतद् रावितं भयम् आगतम्
तस्मात् त्वं रावणो नाम नाम्ना तेन भविष्यसि
देवता मानुषा यक्षा ये चान्ये जगतीतले
एवं त्वाम् अभिधास्यन्ति रावणं लोकरावणम्
गच्छ पौलस्त्य विस्रब्धः पथा येन त्वम् इच्छसि
मया त्वम् अभ्यनुज्ञातो राक्षसाधिप गम्यताम्
साक्षान् महेश्वरेणैवं कृतनामा स रावणः
अभिवाद्य महादेवं विमानं तत् समारुहत्
ततो महीतले राम परिचक्राम रावणः
क्षत्रियान् सुमहावीर्यान् बाधमानस् ततस् ततः
मूल पाठ: Rāmāyaṇa · Edition: John Smith's Rāmāyaṇa-Page (last comparison: 2020-04-16) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0