रामायण · अध्याय 7.015
ततस् तान् विद्रुतान् दृष्ट्वा यक्षाञ् शतसहस्रशः
स्वयम् एव धनाध्यक्षो निर्जगाम रणं प्रति
तत्र माणिचारो नाम यक्षः परमदुर्जयः
वृतो यक्षसहस्रैः स चतुर्भिः समयोधयत्
ते गदामुसलप्रासशक्तितोमरमुद्गरैः
अभिघ्नन्तो रणे यक्षा राक्षसान् अभिदुद्रुवुः
ततः प्रहस्तेन तदा सहस्रं निहतं रणे
महोदरेण गदया सहस्रम् अपरं हतम्
क्रुद्धेन च तदा राम मारीचेन दुरात्मना
निमेषान्तरमात्रेण द्वे सहस्रे निपातिते
धूम्राक्षेण समागम्य माणिभद्रो महारणे
मुसलेनोरसि क्रोधात् ताडितो न च कम्पितः
ततो गदां समाविध्य माणिभद्रेण राक्षसः
धूम्राक्षस् ताडितो मूर्ध्नि विह्वलो निपपात ह
धूम्राक्षं ताडितं दृष्ट्वा पतितं शोणितोक्षितम्
अभ्यधावत् सुसंक्रुद्धो माणिभद्रं दशाननः
तं क्रुद्धम् अभिधावन्तं युगान्ताग्निम् इवोत्थितम्
शक्तिभिस् ताडयाम् आस तिसृभिर् यक्षपुंगवः
ततो राक्षसराजेन ताडितो गदया रणे
तस्य तेन प्रहारेण मुकुटः पार्श्वम् आगतः
तदा प्रभृति यक्षो ऽसौ पार्श्वमौलिर् इति स्मृतः
तस्मिंस् तु विमुखे यक्षे माणिभद्रे महात्मनि
संनादः सुमहान् राम तस्मिञ् शैले व्यवर्धत
ततो दूरात् प्रददृशे धनाध्यक्षो गदाधरः
शुक्रप्रोष्टःपदाभ्यां च शङ्खपद्मसमावृतः
स दृष्ट्वा भ्रातरं संख्ये शापाद् विभ्रष्टगौरवम्
उवाच वचनं धीमान् युक्तं पैतामहे कुले
मया त्वं वार्यमाणो ऽपि नावगच्छसि दुर्मते
पश्चाद् अस्य फलं प्राप्य ज्ञास्यसे निरयं गतः
यो हि मोहाद् विषं पीत्वा नावगच्छति मानवः
परिणामे स वि मूढो जानीते कर्मणः फलम्
दैवतानि हि नन्दन्ति धर्मयुक्तेन केन चित्
येन त्वम् ईदृशं भावं नीतस् तच् च न बुध्यसे
यो हि मातॄः पितॄन् भ्रातॄन् आचर्यांश् चावमन्यते
स पश्यति फलं तस्य प्रेतराजवशं गतः
अध्रुवे हि शरीरे यो न करोति तपो ऽर्जनम्
स पश्चात् तप्यते मूढो मृतो दृष्ट्वात्मनो गतिम्
कस्य चिन् न हि दुर्बुधेश् छन्दतो जायते मतिः
यादृशं कुरुते कर्म तादृशं फलम् अश्नुते
बुद्धिं रूपं बलं वित्तं पुत्रान् माहात्म्यम् एव च
प्रप्नुवन्ति नराः सर्वं स्वकृतैः पूर्वकर्मभिः
एवं निरयगामी त्वं यस्य ते मतिर् ईदृशी
न त्वां समभिभाषिष्ये दुर्वृत्तस्यैष निर्णयः
एवम् उक्त्वा ततस् तेन तस्यामात्याः समाहताः
मारीचप्रमुखाः सर्वे विमुखा विप्रदुद्रुवुः
ततस् तेन दशग्रीवो यक्षेन्द्रेण महात्मना
गदयाभिहतो मूर्ध्नि न च स्थानाद् व्यकम्पत
ततस् तौ राम निघ्नन्ताव् अन्योन्यं परमाहवे
न विह्वलौ न च श्रान्तौ बभूवतुर् अमर्षणैः
आग्नेयम् अस्त्रं स ततो मुमोच धनदो रणे
वारुणेन दशग्रीवस् तद् अस्त्रं प्रत्यवारयत्
ततो मायां प्रविष्टः स राक्षसीं राक्षसेश्वरः
जघान मूर्ध्नि धनदं व्याविध्य महतीं गदाम्
एवं स तेनाभिहतो विह्वलः शोणितोक्षितः
कृत्तमूल इवाशोको निपपात धनाधिपः
ततः पद्मादिभिस् तत्र निधिभिः स धनाधिपः
नन्दनं वनम् आनीय धनदो श्वासितस् तदा
ततो निर्जित्य तं राम धनदं राक्षसाधिपः
पुष्पकं तस्य जग्राह विमानं जयलक्षणम्
काञ्चनस्तम्भसंवीतं वैदूर्यमणितोरणम्
मुक्ताजालप्रतिच्छन्नं सर्वकामफलद्रुमम्
तत् तु राजा समारुह्य कामगं वीर्यनिर्जितम्
जित्वा वैश्रवणं देवं कैलासाद् अवरोहत
मूल पाठ: Rāmāyaṇa · Edition: John Smith's Rāmāyaṇa-Page (last comparison: 2020-04-16) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0