भाषा

ENहिગુ
ग्रंथ पाठ

रामायण · अध्याय 7.014

7.014.001

ततः स सचिवैः सार्धं षड्भिर् नित्यं बलोत्कटैः
महोदरप्रहस्ताभ्यां मारीचशुकसारणैः

7.014.002

धूम्राक्षेण च वीरेण नित्यं समरगृध्नुना
वृतः संप्रययौ श्रीमान् क्रोधाल् लोकान् दहन्न् इव

7.014.003

पुराणि स नदीः शैलान् वनान्य् उपवनानि च
अतिक्रम्य मुहूर्तेन कैलासं गिरिम् आविशत्

7.014.004

तं निविष्टं गिरौ तस्मिन् राक्षसेन्द्रं निशम्य तु
राज्ञो भ्रातायम् इत्य् उक्त्वा गता यत्र धनेश्वरः

7.014.005

गत्वा तु सर्वम् आचख्युर् भ्रातुस् तस्य विनिश्चयम्
अनुज्ञाता ययुश् चैव युद्धाय धनदेन ते

7.014.006

ततो बलस्य संक्षोभः सागरस्येव वर्धतः
अभून् नैरृतराजस्य गिरिं संचालयन्न् इव

7.014.007

ततो युद्धं समभवद् यक्षराक्षससंकुलम्
व्यथिताश् चाभवंस् तत्र सचिवास् तस्य रक्षसः

7.014.008

तं दृष्ट्वा तादृशं सैन्यं दशग्रीवो निशाचरः
हर्षान् नादं ततः कृत्वा रोषात् समभिवर्तत

7.014.009

ये तु ते राक्षसेन्द्रस्य सचिवा घोरविक्रमः
ते सहस्रं सहस्राणाम् एकैकं समयोधयन्

7.014.010

ततो गदाभिः परिघैर् असिभिः शक्तितोमरैः
वध्यमानो दशग्रीवस् तत् सैन्यं समगाहत

7.014.011

तैर् निरुच्छ्वासवत् तत्र वध्यमानो दशाननः
वर्षमाणैर् इव घनैर् यक्षेन्द्रैः संनिरुध्यत

7.014.012

स दुरात्मा समुद्यम्य कालदण्डोपमां गदाम्
प्रविवेश ततः सैन्यं नयन् यक्षान् यमक्षयम्

7.014.013

स कक्षम् इव विस्तीर्णं शुष्केन्धनसमाकुलम्
वातेनाग्निर् इवायत्तो ऽदहत् सैन्यं सुदारुणम्

7.014.014

तैस् तु तस्य मृधे ऽमात्यैर् महोदरशुकादिभिः
अल्पावशिष्टास् ते यक्षाः कृता वातैर् इवाम्बुदाः

7.014.015

के चित् त्व् आयुधभग्नाङ्गाः पतिताः समरक्षितौ
ओष्ठान् स्वदशनैस् तीक्ष्णैर् दंशन्तो भुवि पातिताः

7.014.016

भयाद् अन्योन्यम् आलिङ्ग्य भ्रष्टशस्त्रा रणाजिरे
निषेदुस् ते तदा यक्षाः कूला जलहता इव

7.014.017

हतानां स्वर्गसंस्थानां युध्यतां पृथिवीतले
प्रेक्षताम् ऋषिसंघानां न बभूवान्तरं दिवि

7.014.018

एतस्मिन्न् अन्तरे राम विस्तीर्णबलवाहनः
अगमत् सुमहान् यक्षो नाम्ना संयोधकण्टकः

7.014.019

तेन यक्षेण मारीचो विष्णुनेव समाहतः
पतितः पृथिवीं भेजे क्षीणपुण्य इवाम्बरात्

7.014.020

प्राप्तसंज्ञो मुहूर्तेन विश्रम्य च निशाचरः
तं यक्षं योधयाम् आस स च भग्नः प्रदुद्रुवे

7.014.021

ततः काञ्चनचित्राङ्गं वैदूर्यरजतोक्षितम्
मर्यादां द्वारपालानां तोरणं तत् समाविशत्

7.014.022

ततो राम दशग्रीवं प्रविशन्तं निशाचरम्
सूर्यभानुर् इति ख्यातो द्वारपालो न्यवारयत्

7.014.023

ततस् तोरणम् उत्पाट्य तेन यक्षेण ताडितः
राक्षसो यक्षसृष्टेन तोरणेन समाहतः
न क्षितिं प्रययौ राम वरात् सलिलयोनिनः

7.014.024

स तु तेनैव तं यक्षं तोरणेन समाहनत्
नादृश्यत तदा यक्षो भस्म तेन कृतस् तु सः

7.014.025

ततः प्रदुद्रुवुः सर्वे यक्षा दृष्ट्वा पराक्रमम्
ततो नदीर् गुहाश् चैव विविशुर् भयपीडिताः

मूल पाठ: Rāmāyaṇa · Edition: John Smith's Rāmāyaṇa-Page (last comparison: 2020-04-16) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc