भाषा

ENहिગુ
ग्रंथ पाठ

रामायण · अध्याय 7.013

7.013.001

अथ लोकेश्वरोत्सृष्टा तत्र कालेन केन चित्
निद्रा समभवत् तीव्रा कुम्भकर्णस्य रूपिणी

7.013.002

ततो भ्रातरम् आसीनं कुम्भकर्णो ऽब्रवीद् वचः
निद्रा मां बाधते राजन् कारयस्व ममालयम्

7.013.003

विनियुक्तास् ततो राज्ञा शिल्पिनो विश्वकर्मवत्
अकुर्वन् कुम्भकर्णस्य कैलाससमम् आलयम्

7.013.004

विस्तीर्णं योजनं शुभ्रं ततो द्विगुणम् आयतम्
दर्शनीयं निराबाधं कुम्भकर्णस्य चक्रिरे

7.013.005

स्फाटिकैः काञ्चनैश् चित्रैः स्तम्भैः सर्वत्र शोभितम्
वैदूर्यकृतशोभं च किङ्किणीजालकं तथा

7.013.006

दन्ततोरणविन्यस्तं वज्रस्फटिकवेदिकम्
सर्वर्तुसुखदं नित्यं मेरोः पुण्यां गुहाम् इव

7.013.007

तत्र निद्रां समाविष्टः कुम्भकर्णो निशाचरः
बहून्य् अब्दसहस्राणि शयानो नावबुध्यते

7.013.008

निद्राभिभूते तु तदा कुम्भकर्णे दशाननः
देवर्षियक्षगन्धर्वान् बाधते स्म स नित्यशः

7.013.009

उद्यानानि विचित्राणि नन्दनादीनि यानि च
तानि गत्वा सुसंक्रुद्धो भिनत्ति स्म दशाननः

7.013.010

नदीं गज इव क्रीडन् वृक्षान् वायुर् इव क्षिपन्
नगान् वज्र इव सृष्टो विध्वंसयति नित्यशः

7.013.011

तथा वृत्तं तु विज्ञाय दशग्रीवं धनेश्वरः
कुलानुरूपं धर्मज्ञ वृत्तं संस्मृत्य चात्मनः

7.013.012

सौभ्रात्रदर्शनार्थं तु दूतं वैश्वरणस् तदा
लङ्कां संप्रेषयाम् आस दशग्रीवस्य वै हितम्

7.013.013

स गत्वा नगरीं लङ्काम् आससाद विभीषणम्
मानितस् तेन धर्मेण पृष्ठश् चागमनं प्रति

7.013.014

पृष्ट्वा च कुशलं राज्ञो ज्ञातीन् अपि च बान्धवान्
सभायां दर्शयाम् आस तम् आसीनं दशाननम्

7.013.015

स दृष्ट्वा तत्र राजानं दीप्यमानं स्वतेजसा
जयेन चाभिसंपूज्य तूष्णीम् आसीन् मुहूर्तकम्

7.013.016

तस्योपनीते पर्यङ्के वरास्तरणसंवृते
उपविश्य दशग्रीवं दूतो वाक्यम् अथाब्रवीत्

7.013.017

राजन् वदामि ते सर्वं भ्राता तव यद् अब्रवीत्
उभयोः सदृशं सौम्य वृत्तस्य च कुलस्य च

7.013.018

साधु पर्याप्तम् एतावत् कृतश् चारित्रसंग्रहः
साधु धर्मे व्यवस्थानं क्रियतां यदि शक्यते

7.013.019

दृष्टं मे नन्दनं भग्नम् ऋषयो निहताः श्रुताः
देवानां तु समुद्योगस् त्वत्तो राजञ् श्रुतश् च मे

7.013.020

निराकृतश् च बहुशस् त्वयाहं राक्षसाधिप
अपराद्धा हि बाल्याच् च रक्षणीयाः स्वबान्धवाः

7.013.021

अहं तु हिमवत्पृष्ठं गतो धर्मम् उपासितुम्
रौद्रं व्रतं समास्थाय नियतो नियतेन्द्रियः

7.013.022

तत्र देवो मया दृष्टः सह देव्योमया प्रभुः
सव्यं चक्षुर् मया चैव तत्र देव्यां निपातितम्

7.013.023

का न्व् इयं स्याद् इति शुभा न खल्व् अन्येन हेतुना
रूपं ह्य् अनुपमं कृत्वा तत्र क्रीडति पार्वती

7.013.024

ततो देव्याः प्रभावेन दग्धं सव्यं ममेक्षणम्
रेणुध्वस्तम् इव ज्योतिः पिङ्गलत्वम् उपागतम्

7.013.025

ततो ऽहम् अन्यद् विस्तीर्णं गत्वा तस्य गिरेस् तटम्
पूर्णं वर्षशतान्य् अष्टौ समवाप महाव्रतम्

7.013.026

समाप्ते नियमे तस्मिंस् तत्र देवो महेश्वरः
प्रीतः प्रीतेन मनसा प्राह वाक्यम् इदं प्रभुः

7.013.027

प्रीतो ऽस्मि तव धर्मज्ञ तपसानेन सुव्रत
मया चैतद् व्रतं चीर्णं त्वया चैव धनाधिप

7.013.028

तृतीयः पुरुषो नास्ति यश् चरेद् व्रतम् ईदृशम्
व्रतं सुदुश्चरं ह्य् एतन् मयैवोत्पादितं पुरा

7.013.029

तत् सखित्वं मया सार्धं रोचयस्व धनेश्वर
तपसा निर्जितत्वाद् धि सखा भव ममानघ

7.013.030

देव्या दग्धं प्रभावेन यच् च साव्यं तवेक्षणम्
एकाक्षि पिङ्गलेत्य् एव नाम स्थास्यति शाश्वतम्

7.013.031

एवं तेन सखित्वं च प्राप्यानुज्ञां च शंकरात्
आगम्य च श्रुतो ऽयं मे तव पापविनिश्चयः

7.013.032

तदधर्मिष्ठसंयोगान् निवर्त कुलदूषण
चिन्त्यते हि वधोपायः सर्षिसंघैः सुरैस् तव

7.013.033

एवम् उक्तो दशग्रीवः क्रुद्धः संरक्तलोचनः
हस्तान् दन्तांश् अ संपीड्य वाक्यम् एतद् उवाच ह

7.013.034

विज्ञातं ते मया दूत वाक्यं यत् त्वं प्रभाषसे
नैव त्वम् असि नैवासौ भ्रात्रा येनासि प्रेषितः

7.013.035

हितं न स ममैतद् धि ब्रवीति धनरक्षकः
महेश्वरसखित्वं तु मूढ श्रावयसे किल

7.013.036

न हन्तव्यो गुरुर् ज्येष्ठो ममायम् इति मन्यते
तस्य त्व् इदानीं श्रुत्वा मे वाक्यम् एषा कृता मतिः

7.013.037

त्रींल् लोकान् अपि जेष्यामि बाहुवीर्यम् उपाश्रितः
एतन् मुहूर्तम् एषो ऽहं तस्यैकस्य कृते च वै
चतुरो लोकपालांस् तान् नयिष्यामि यमक्षयम्

7.013.038

एवम् उक्त्वा तु लङ्केशो दूतं खड्गेन जघ्निवान्
ददौ भक्षयितुं ह्य् एनं राक्षसानां दुरात्मनाम्

7.013.039

ततः कृतस्वस्त्ययनो रथम् आरुह्य रावणः
त्रैलोक्यविजयाकाङ्क्षी ययौ तत्र धनेश्वरः

मूल पाठ: Rāmāyaṇa · Edition: John Smith's Rāmāyaṇa-Page (last comparison: 2020-04-16) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc