भाषा

ENहिગુ
ग्रंथ पाठ

रामायण · अध्याय 7.012

7.012.001

राक्षसेन्द्रो ऽभिषिक्तस् तु भ्रातृभ्यां सहितस् तदा
ततः प्रदानं राक्षस्या भगिन्याः समचिन्तयत्

7.012.002

ददौ तां कालकेयाय दानवेन्द्राय राक्षसीम्
स्वसां शूर्पणखां नाम विद्युज्जिह्वाय नामतः

7.012.003

अथ दत्त्वा स्वसारं स मृगयां पर्यटन् नृपः
तत्रापश्यत् ततो राम मयं नाम दितेः सुतम्

7.012.004

कन्यासहायं तं दृष्ट्वा दशग्रीवो निशाचरः
अपृच्छत् को भवन् एको निर्मनुष्य मृगे वने

7.012.005

मयस् त्व् अथाब्रवीद् राम पृच्छन्तं तं निशाचरम्
श्रूयतां सर्वम् आख्यास्ये यथावृत्तम् इदं मम

7.012.006

हेमा नामाप्सरास् तात श्रुतपूर्वा यदि त्वया
दैवतैर् मम सा दत्ता पौलोमीव शतक्रतोः

7.012.007

तस्यां सक्तमनास् तात पञ्चवर्षशतान्य् अहम्
सा च दैवत कार्येण गता वर्षं चतुर्दशम्

7.012.008

तस्याः कृते च हेमायाः सर्वं हेमपुरं मया
वज्रवैदूर्यचित्रं च मायया निर्मितं तदा

7.012.009

तत्राहम् अरतिं विन्दंस् तया हीनः सुदुःखितः
तस्मात् पुराद् दुहितरं गृहीत्वा वनम् आगतः

7.012.010

इयं ममात्मजा राजंस् तस्याः कुक्षौ विवर्धिता
भर्तारम् अनया सार्धम् अस्याः प्राप्तो ऽस्मि मार्गितुम्

7.012.011

कन्यापितृत्वं दुःखं हि नराणां मानकाङ्क्षिणाम्
कन्या हि द्वे कुले नित्यं संशये स्थाप्य तिष्ठति

7.012.012

द्वौ सुतौ तु मम त्व् अस्यां भार्यायां संबभूवतुः
मायावी प्रथमस् तात दुन्दुभिस् तदनन्तरम्

7.012.013

एतत् ते सर्वम् आख्यातं याथातथ्येन पृच्छतः
त्वाम् इदानीं कथं तात जानीयां को भवान् इति

7.012.014

एवम् उक्तो राक्षसेन्द्रो विनीतम् इदम् अब्रवीत्
अहं पौलस्त्य तनयो दशग्रीवश् च नामतः

7.012.015

ब्रह्मर्षेस् तं सुतं ज्ञात्वा मयो हर्षम् उपागतः
दातुं दुहितरं तस्य रोचयाम् आस तत्र वै

7.012.016

प्रहसन् प्राह दैत्येन्द्रो राक्षसेन्द्रम् इदं वचः
इयं ममात्मजा राजन् हेमयाप्सरसा धृता
कन्या मन्दोदरी नाम पत्न्यर्थं प्रतिगृह्यताम्

7.012.017

बाढम् इत्य् एव तं राम दशग्रीवो ऽभ्यभाषत
प्रज्वाल्य तत्र चैवाग्निम् अकरोत् पाणिसंग्रहम्

7.012.018

न हि तस्य मयो राम शापाभिज्ञस् तपोधनात्
विदित्वा तेन सा दत्ता तस्य पैतामहं कुलम्

7.012.019

अमोघां तस्य शक्तिं च प्रददौ परमाद्भुताम्
परेण तपसा लब्धां जघ्निवांल् लक्ष्मणं यया

7.012.020

एवं स कृतदारो वै लङ्कायाम् ईश्वरः प्रभुः
गत्वा तु नगरं भार्ये भ्रातृभ्यां समुदावहत्

7.012.021

वैरोचनस्य दौहित्रीं वज्रज्वालेति नामतः
तां भार्यां कुम्भकर्णस्य रावणः समुदावहत्

7.012.022

गन्धर्वराजस्य सुतां शैलूषस्य महात्मन
सरमा नाम धर्मज्ञो लेभे भार्यां विभीषणः

7.012.023

तीरे तु सरसः सा वै संजज्ञे मानसस्य च
मानसं च सरस् तात ववृधे जलदागमे

7.012.024

मात्रा तु तस्याः कन्यायाः स्नेहनाक्रन्दितं वचः
सरो मा वर्धतेत्य् उक्तं ततः सा सरमाभवत्

7.012.025

एवं ते कृतदारा वै रेमिरे तत्र राक्षसाः
स्वां स्वां भार्याम् उपादाय गन्धर्वा इव नन्दने

7.012.026

ततो मन्दोदरी पुत्रं मेघनादम् असूयत
स एष इन्द्रजिन् नाम युष्माभिर् अभिधीयते

7.012.027

जातमात्रेण हि पुरा तेन राक्षससूनुना
रुदता सुमहान् मुक्तो नादो जलधरोपमः

7.012.028

जडीकृतायां लङ्कायां तेन नादेन तस्य वै
पिता तस्याकरोन् नाम मेघनाद इति स्वयम्

7.012.029

सो ऽवर्धत तदा राम रावणान्तःपुरे शुभे
रक्ष्यमाणो वरस्त्रीभिश् छन्नः काष्ठैर् इवानलः

मूल पाठ: Rāmāyaṇa · Edition: John Smith's Rāmāyaṇa-Page (last comparison: 2020-04-16) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc