भाषा

ENहिગુ
ग्रंथ पाठ

रामायण · अध्याय 7.011

7.011.001

सुमाली वरलब्धांस् तु ज्ञात्वा तान् वै निशाचरान्
उदतिष्ठद् भयं त्यक्त्वा सानुगः स रसातलात्

7.011.002

मारीचश् च प्रहस्तश् च विरूपाक्षो महोदरः
उदतिष्ठन् सुसंरब्धाः सचिवास् तस्य रक्षसः

7.011.003

सुमाली चैव तैः सर्वैर् वृतो राक्षसपुंगवैः
अभिगम्य दशग्रीवं परिष्वज्येदम् अब्रवीत्

7.011.004

दिष्ट्या ते पुत्रसंप्राप्तश् चिन्तितो ऽयं मनोरथः
यस् त्वं त्रिभुवणश्रेष्ठाल् लब्धवान् वरम् ईदृशम्

7.011.005

यत्कृते च वयं लङ्कां त्यक्त्वा याता रसातलम्
तद् गतं नो महाबाहो महद् विष्णुकृतं भयम्

7.011.006

असकृत् तेन भग्ना हि परित्यज्य स्वम् आलयम्
विद्रुताः सहिताः सर्वे प्रविष्टाः स्म रसातलम्

7.011.007

अस्मदीया च लङ्केयं नगरी राक्षसोषिता
निवेशिता तव भ्रात्रा धनाध्यक्षेण धीमता

7.011.008

यदि नामात्र शक्यं स्यात् साम्ना दानेन वानघ
तरसा वा महाबाहो प्रत्यानेतुं कृतं भवेत्

7.011.009

त्वं च लङ्केश्वरस् तात भविष्यसि न संशयः
सर्वेषां नः प्रभुश् चैव भविष्यसि महाबल

7.011.010

अथाब्रवीद् दशग्रीवो मातामहम् उपस्थितम्
वित्तेशो गुरुर् अस्माकं नार्हस्य् एवं प्रभाषितुम्

7.011.011

उक्तवन्तं तथा वाक्यं दशग्रीवं निशाचरः
प्रहस्तः प्रश्रितं वाक्यम् इदम् आह सकारणम्

7.011.012

दशग्रीव महाबाहो नार्हस् त्वं वक्तुम् ईदृशम्
सौभ्रात्रं नास्ति शूराणां शृणु चेदं वचो मम

7.011.013

अदितिश् च दितिश् चैव भगिन्यौ सहिते किल
भार्ये परमरूपिण्यौ कश्यपस्य प्रजापतेः

7.011.014

अदितिर् जनयाम् आस देवांस् त्रिभुवणेश्वरान्
दितिस् त्व् अजनयद् दैत्यान् कश्यपस्यात्मसंभवान्

7.011.015

दैत्यानां किल धर्मज्ञ पुरेयं सवनार्णवा
सपर्वता मही वीर ते ऽभवन् प्रभविष्णवः

7.011.016

निहत्य तांस् तु समरे विष्णुना प्रभविष्णुना
देवानां वशम् आनीतं त्रैलोक्यम् इदम् अव्ययम्

7.011.017

नैतद् एको भवान् एव करिष्यति विपर्ययम्
सुरैर् आचरितं पूर्वं कुरुष्वैतद् वचो मम

7.011.018

एवम् उक्तो दशग्रीवः प्रहस्तेन दुरात्मना
चिन्तयित्वा मुहूर्तं वै बाढम् इत्य् एव सो ऽब्रवीत्

7.011.019

स तु तेनैव हर्षेण तस्मिन्न् अहनि वीर्यवान्
वनं गतो दशग्रीवः सह तैः क्षणदाचरैः

7.011.020

त्रिकूटस्थः स तु तदा दशग्रीवो निशाचरः
प्रेषयाम् आस दौत्येन प्रहस्तं वाक्यकोविदम्

7.011.021

प्रहस्त शीघ्रं गत्वा त्वं ब्रूहि नैरृतपुंगवम्
वचनान् मम वित्तेशं सामपूर्वम् इदं वचः

7.011.022

इयं लङ्का पुरी राजन् राक्षसानां महात्मनाम्
त्वया निवेशिता सौम्य नैतद् युक्तं तवानघ

7.011.023

तद् भवान् यदि साम्नैतां दद्याद् अतुलविक्रम
कृता भवेन् मम प्रीतिर् धर्मश् चैवानुपालितः

7.011.024

इत्य् उक्तः स तदा गत्वा प्रहस्तो वाक्यकोविदः
दशग्रीववचः सर्वं वित्तेशाय न्यवेदयत्

7.011.025

प्रहस्ताद् अपि संश्रुत्य देवो वैश्रवणो वचः
प्रत्युवाच प्रहस्तं तं वाक्यं वाक्यविशारदः

7.011.026

ब्रूहि गच्छ दशग्रीवं पुरी राज्यं च यन् मम
तवाप्य् एतन् महाबाहो भुङ्क्ष्वैतद् धतकण्टकम्

7.011.027

सर्वं कर्तास्मि भद्रं ते राक्षसेश वचो ऽचिरात्
किं तु तावत् प्रतीक्षस्व पितुर् यावन् निवेदये

7.011.028

एवम् उक्त्वा धनाध्यक्षो जगाम पितुर् अन्तिकम्
अभिवाद्य गुरुं प्राह रावणस्य यदीप्सितम्

7.011.029

एष तात दशग्रीवो दूतं प्रेषितवान् मम
दीयतां नगरी लङ्का पूर्वं रक्षोगणोषिता
मयात्र यद् अनुष्ठेयं तन् ममाचक्ष्व सुव्रत

7.011.030

ब्रह्मर्षिस् त्व् एवम् उक्तो ऽसौ विश्रवा मुनिपुंगवः
उवाच धनदं वाक्यं शृणु पुत्र वचो मम

7.011.031

दशग्रीवो महाबाहुर् उक्तवान् मम संनिधौ
मया निर्भर्त्सितश् चासीद् बहुधोक्तः सुदुर्मतिः

7.011.032

स क्रोधेन मया चोक्तो ध्वंसस्वेति पुनः पुनः
श्रेयोऽभियुक्तं धर्म्यं च शृणु पुत्र वचो मम

7.011.033

वरप्रदानसंमूढो मान्यामान्यं सुदुर्मतिः
न वेत्ति मम शापाच् च प्रकृतिं दारुणां गतः

7.011.034

तस्माद् गच्छ महाबाहो कैलासं धरणीधरम्
निवेशय निवासार्थं त्यज लङ्कां सहानुगः

7.011.035

तत्र मन्दाकिनी रम्या नदीनां प्रवरा नदी
काञ्चनैः सूर्यसंकाशैः पङ्कजैः संवृतोदका

7.011.036

न हि क्षमं त्वया तेन वैरं धनदरक्षसा
जानीषे हि यथानेन लब्धः परमको वरः

7.011.037

एवम् उक्तो गृहीत्वा तु तद् वचः पितृगौरवात्
सदार पौरः सामात्यः सवाहनधनो गतः

7.011.038

प्रहस्तस् तु दशग्रीवं गत्वा सर्वं न्यवेदयत्
शून्या सा नगरी लङ्का त्रिंशद्योजनम् आयता
प्रविश्य तां सहास्माभिः स्वधर्मं तत्र पालय

7.011.039

एवम् उक्तः प्रहस्तेन रावणो राक्षसस् तदा
विवेश नगरीं लङ्कां सभ्राता सबलानुगः

7.011.040

स चाभिषिक्तः क्षणदाचरैस् तदा निवेशयाम् आस पुरीं दशाननः
निकामपूर्णा च बभूव सा पुरी निशाचरैर् नीलबलाहकोपमैः

7.011.041

धनेश्वरस् त्व् अथ पितृवाक्यगौरवान् न्यवेशयच् छशिविमले गिरौ पुरीम्
स्वलंकृतैर् भवनवरैर् विभूषितां पुरंदरस्येव तदामरावतीम्

मूल पाठ: Rāmāyaṇa · Edition: John Smith's Rāmāyaṇa-Page (last comparison: 2020-04-16) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc