भाषा

ENहिગુ
ग्रंथ पाठ

रामायण · अध्याय 7.010

7.010.001

अथाब्रवीद् द्विजं रामः कथं ते भ्रातरो वने
कीदृशं तु तदा ब्रह्मंस् तपश् चेरुर् महाव्रताः

7.010.002

अगस्त्यस् त्व् अब्रवीत् तत्र रामं प्रयत मानसं
तांस् तान् धर्मविधींस् तत्र भ्रातरस् ते समाविशन्

7.010.003

कुम्भकर्णस् तदा यत्तो नित्यं धर्मपरायणः
तताप ग्रैष्मिके काले पञ्चस्व् अग्निष्व् अवस्थितः

7.010.004

वर्षे मेघोदकक्लिन्नो वीरासनम् असेवत
नित्यं च शैशिरे काले जलमध्यप्रतिश्रयः

7.010.005

एवं वर्षसहस्राणि दश तस्यातिचक्रमुः
धर्मे प्रयतमानस्य सत्पथे निष्ठितस्य च

7.010.006

विभीषणस् तु धर्मात्मा नित्यं धर्मपरः शुचिः
पञ्चवर्षसहस्राणि पादेनैकेन तस्थिवान्

7.010.007

समाप्ते नियमे तस्य ननृतुश् चाप्सरोगणाः
पपात पुष्पवर्षं च क्षुभिताश् चापि देवताः

7.010.008

पञ्चवर्षसहस्राणि सूर्यं चैवान्ववर्तत
तस्थौ चोर्ध्वशिरो बाहुः स्वाध्यायधृतमानसः

7.010.009

एवं विभीषणस्यापि गतानि नियतात्मनः
दशवर्षसहस्राणि स्वर्गस्थस्येव नन्दने

7.010.010

दशवर्षसहस्रं तु निराहारो दशाननः
पूर्णे वर्षसहस्रे तु शिरश् चाग्नौ जुहाव सः

7.010.011

एवं वर्षसहस्राणि नव तस्यातिचक्रमुः
शिरांसि नव चाप्य् अस्य प्रविष्टानि हुताशनम्

7.010.012

अथ वर्षसहस्रे तु दशमे दशमं शिरः
छेत्तुकामः स धर्मात्मा प्राप्तश् चात्र पितामहः

7.010.013

पितामहस् तु सुप्रीतः सार्धं देवैर् उपस्थितः
वत्स वत्स दशग्रीव प्रीतो ऽस्मीत्य् अभ्यभाषत

7.010.014

शीघ्रं वरय धर्मज्ञ वरो यस् ते ऽभिकाङ्क्षितः
किं ते कामं करोम्य् अद्य न वृथा ते परिश्रमः

7.010.015

ततो ऽब्रवीद् दशग्रीवः प्रहृष्टेनान्तरात्मना
प्रणम्य शिरसा देवं हर्षगद्गदया गिरा

7.010.016

भगवन् प्राणिनां नित्यं नान्यत्र मरणाद् भयम्
नास्ति मृत्युसमः शत्रुर् अमरत्वम् अतो वृणे

7.010.017

सुपर्णनागयक्षाणां दैत्यदानवरक्षसाम्
अवध्यः स्यां प्रजाध्यक्ष देवतानां च शाश्वतम्

7.010.018

न हि चिन्ता ममान्येषु प्राणिष्व् अमरपूजित
तृणभूता हि मे सर्वे प्राणिनो मानुषादयः

7.010.019

एवम् उक्तस् तु धर्मात्मा दशग्रीवेण रक्षसा
उवाच वचनं राम सह देवैः पितामहः

7.010.020

भविष्यत्य् एवम् एवैतत् तव राक्षसपुंगव
शृणु चापि वचो भूयः प्रीतस्येह शुभं मम

7.010.021

हुतानि यानि शीर्षाणि पूर्वम् अग्नौ त्वयानघ
पुनस् तानि भविष्यन्ति तथैव तव राक्षस

7.010.022

एवं पितामहोक्तस्य दशग्रीवस्य रक्षसः
अग्नौ हुतानि शीर्षाणि यानि तान्य् उत्थितानि वै

7.010.023

एवम् उक्त्व्वा तु तं राम दशग्रीवं प्रजापतिः
विभीषणम् अथोवाच वाक्यं लोकपितामहः

7.010.024

विभीषण त्वया वत्स धर्मसंहितबुद्धिना
परितुष्टो ऽस्मि धर्मज्ञ वरं वरय सुव्रत

7.010.025

विभीषणस् तु धर्मात्मा वचनं प्राह साञ्जलिः
वृतः सर्वगुणैर् नित्यं चन्द्रमा इव रश्मिभिः

7.010.026

भगवन् कृतकृत्यो ऽहं यन् मे लोकगुरुः स्वयम्
प्रीतो यदि त्वं दातव्यं वरं मे शृणु सुव्रत

7.010.027

या या मे जायते बुद्धिर् येषु येष्व् आश्रमेष्व् इह
सा सा भवतु धर्मिष्ठा तं तं धर्मं च पालये

7.010.028

एष मे परमोदार वरः परमको मतः
न हि धर्माभिरक्तानां लोके किं चन दुर्लभम्

7.010.029

अथ प्रजापतिः प्रीतो विभीषणम् उवाच ह
धर्मिष्ठस् त्वं यथा वत्स तथा चैतद् भविष्यति

7.010.030

यस्माद् राक्षसयोनौ ते जातस्यामित्रकर्षण
नाधर्मे जायते बुद्धिर् अमरत्वं ददामि ते

7.010.031

कुम्भकर्णाय तु वरं प्रयच्छन्तम् अरिंदम
प्रजापतिं सुराः सर्वे वाक्यं प्राञ्जलयो ऽब्रुवन्

7.010.032

न तावत् कुम्भकर्णाय प्रदातव्यो वरस् त्वया
जानीषे हि यथा लोकांस् त्रासयत्य् एष दुर्मतिः

7.010.033

नन्दने ऽप्सरसः सप्त महेन्द्रानुचरा दश
अनेन भक्षिता ब्रह्मन् ऋषयो मानुषास् तथा

7.010.034

वरव्याजेन मोहो ऽस्मै दीयताम् अमितप्रभ
लोकानां स्वस्ति चैव स्याद् भवेद् अस्य च संनतिः

7.010.035

एवम् उक्तः सुरैर् ब्रह्माचिन्तयत् पद्मसंभवः
चिन्तिता चोपतस्थे ऽस्य पार्श्वं देवी सरस्वती

7.010.036

प्राञ्जलिः सा तु पर्श्वस्था प्राह वाक्यं सरस्वती
इयम् अस्म्य् आगता देवकिं कार्यं करवाण्य् अहम्

7.010.037

प्रजापतिस् तु तां प्राप्तां प्राह वाक्यं सरस्वतीम्
वाणि त्वं राक्षसेन्द्रस्य भव या देवतेप्सिता

7.010.038

तथेत्य् उक्त्वा प्रविष्टा सा प्रजापतिर् अथाब्रवीत्
कुम्भकर्ण महाबाहो वरं वरय यो मतः

7.010.039

कुम्भकर्णस् तु तद् वाक्यं श्रुत्वा वचनम् अब्रवीत्
स्वप्तुं वर्षाण्य् अनेकानि देवदेव ममेप्सितम्

7.010.040

एवम् अस्त्व् इति तं चोक्त्वा सह देवैः पितामहः
देवी सरस्वती चैव मुक्त्वा तं प्रययौ दिवम्

7.010.041

कुम्भकर्णस् तु दुष्टात्मा चिन्तयाम् आस दुःखितः
कीर्दृशं किं न्व् इदं वाक्यं ममाद्य वदनाच् च्युतम्

7.010.042

एवं लब्धवराः सर्वे भ्रातरो दीप्ततेजसः
श्लेष्मातकवनं गत्वा तत्र ते न्यवसन् सुखम्

मूल पाठ: Rāmāyaṇa · Edition: John Smith's Rāmāyaṇa-Page (last comparison: 2020-04-16) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc