भाषा

ENहिગુ
ग्रंथ पाठ

रामायण · अध्याय 7.009

7.009.001

कस्य चित् त्व् अथ कालस्य सुमाली नाम राक्षसः
रसातलान् मर्त्यलोकं सर्वं वै विचचार ह

7.009.002

नीलजीमूतसंकाशस् तप्तकाञ्चनकुण्डलः
कन्यां दुहितरं गृह्य विना पद्मम् इव श्रियम्
अथापश्यत् स गच्छन्तं पुष्पकेण धनेश्वरम्

7.009.003

तं दृष्ट्वामरसंकाशं गच्छन्तं पावकोपमम्
अथाब्ब्रवीत् सुतां रक्षः कैकसीं नाम नामतः

7.009.004

पुत्रि प्रदानकालो ऽयं यौवनं ते ऽतिवर्तते
त्वत्कृते च वयं सर्वे यन्त्रिता धर्मबुद्धयः

7.009.005

त्वं हि सर्वगुणोपेता श्रीः सपद्मेव पुत्रिके
प्रत्याख्यानाच् च भीतैस् त्वं न वरैः प्रतिगृह्यसे

7.009.006

कन्यापितृत्वं दुःखं हि सर्वेषां मानकाङ्क्षिणाम्
न ज्ञायते च कः कन्यां वरयेद् इति पुत्रिके

7.009.007

मातुः कुलं पितृकुलं यत्र चैव प्रदीयते
कुलत्रयं सदा कन्या संशये स्थाप्य तिष्ठति

7.009.008

सा त्वं मुनिवरश्रेष्ठं प्रजापतिकुलोद्भवम्
गच्छ विश्रवसं पुत्रि पौलस्त्यं वरय स्वयम्

7.009.009

ईदृशास् ते भविष्यन्ति पुत्राः पुत्रि न संशयः
तेजसा भास्करसमा यादृशो ऽयं धनेश्वरः

7.009.010

एतस्मिन्न् अन्तरे राम पुलस्त्यतनयो द्विजः
अग्निहोत्रम् उपातिष्ठच् चतुर्थ इव पावकः

7.009.011

सा तु तां दारुणां वेलाम् अचिन्त्य पितृगौरवात्
उपसृत्याग्रतस् तस्य चरणाधोमुखी स्थिता

7.009.012

स तु तां वीक्ष्य सुश्रोणीं पूर्णचन्द्रनिभाननाम्
अब्रवीत् परमोदारो दीप्यमान इवौजसा

7.009.013

भद्रे कस्यासि दुहिता कुतो वा त्वम् इहागता
किं कार्यं कस्य वा हेतोस् तत्त्वतो ब्रूहि शोभने

7.009.014

एवम् उक्ता तु सा कन्या कृताञ्जलिर् अथाब्रवीत्
आत्मप्रभावेन मुने ज्ञातुम् अर्हसि मे मतम्

7.009.015

किं तु विद्धि हि मां ब्रह्मञ् शासनात् पितुर् आगताम्
कैकसी नाम नाम्नाहं शेषं त्वं ज्ञातुम् अर्हसि

7.009.016

स तु गत्वा मुनिर् ध्यानं वाक्यम् एतद् उवाच ह
विज्ञातं ते मया भद्रे कारणं यन् मनोगतम्

7.009.017

दारुणायां तु वेलायां यस्मात् त्वं माम् उपस्थिता
शृणु तस्मात् सुतान् भद्रे यादृशाञ् जनयिष्यसि

7.009.018

दारुणान् दारुणाकारान् दारुणाभिजनप्रियान्
प्रसविष्यसि सुश्रोणि राक्षसान् क्रूरकर्मणः

7.009.019

सा तु तद् वचनं श्रुत्वा प्रणिपत्याब्रवीद् वचः
भगवन् नेदृशाः पुत्रास् त्वत्तो ऽर्हा ब्रह्मयोनितः

7.009.020

अथाब्रवीन् मुनिस् तत्र पश्चिमो यस् तवात्मजः
मम वंशानुरूपश् च धर्मात्मा च भविष्यति

7.009.021

एवम् उक्ता तु सा कन्या राम कालेन केन चित्
जनयाम् आस बीभत्सं रक्षोरूपं सुदारुणम्

7.009.022

दशशीर्षं महादंष्ट्रं नीलाञ्जनचयोपमम्
ताम्रौष्ठं विंशतिभुजं महास्यं दीप्तमूर्धजम्

7.009.023

जातमात्रे ततस् तस्मिन् सज्वालकवलाः शिवाः
क्रव्यादाश् चापसव्यानि मण्डलानि प्रचक्रिरे

7.009.024

ववर्ष रुधिरं देवो मेघाश् च खरनिस्वनाः
प्रबभौ न च खे सूर्यो महोल्काश् चापतन् भुवि

7.009.025

अथ नामाकरोत् तस्य पितामहसमः पिता
दशशीर्षः प्रसूतो ऽयं दशग्रीवो भविष्यति

7.009.026

तस्य त्व् अनन्तरं जातः कुम्भकर्णो महाबलः
प्रमाणाद् यस्य विपुलं प्रमाणं नेह विद्यते

7.009.027

ततः शूर्पणखा नाम संजज्ञे विकृतानना
विभीषणश् च धर्मात्मा कैकस्याः पश्चिमः सुतः

7.009.028

ते तु तत्र महारण्ये ववृधुः सुमहौजसः
तेषां क्रूरो दशग्रीवो लोकोद्वेगकरो ऽभवत्

7.009.029

कुम्भकर्णः प्रमत्तस् तु महर्षीन् धर्मसंश्रितान्
त्रैलोक्यं त्रासयन् दुष्टो भक्षयन् विचचार ह

7.009.030

विभीषणस् तु धर्मात्मा नित्यं धर्मपथे स्थितः
स्वाध्यायनियताहार उवास नियतेन्द्रियः

7.009.031

अथ वित्तेश्वरो देवस् तत्र कालेन केन चित्
आगच्छत् पितरं द्रष्टुं पुष्पकेण महौजसं

7.009.032

तं दृष्ट्वा कैकसी तत्र ज्वलन्तम् इव तेजसा
आस्थाय राक्षसीं बुद्धिं दशग्रीवम् उवाच ह

7.009.033

पुत्रवैश्रवणं पश्य भ्रातरं तेजसा वृतम्
भ्रातृभावे समे चापि पश्यात्मानं त्वम् ईदृशम्

7.009.034

दशग्रीव तथा यत्नं कुरुष्वामितविक्रम
यथा भवसि मे पुत्र शीघ्रं वैश्वरणोपमः

7.009.035

मातुस् तद् वचनं श्रुत्वा दशग्रीवः प्रतापवान्
अमर्षम् अतुलं लेभे प्रतिज्ञां चाकरोत् तदा

7.009.036

सत्यं ते प्रतिजानामि तुल्यो भ्रात्राधिको ऽपि वा
भविष्याम्य् अचिरान् मातः संतापं त्यज हृद्गतम्

7.009.037

ततः क्रोधेन तेनैव दशग्रीवः सहानुजः
प्राप्स्यामि तपसा कामम् इति कृत्वाध्यवस्य च
आगच्छद् आत्मसिद्ध्यर्थं गोकर्णस्याश्रमं शुभम्

मूल पाठ: Rāmāyaṇa · Edition: John Smith's Rāmāyaṇa-Page (last comparison: 2020-04-16) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc