रामायण · अध्याय 7.008
हन्यमाने बले तस्मिन् पद्मनाभेन पृष्ठतः
माल्यवान् संनिवृत्तो ऽथ वेलातिग इवार्णवः
संरक्तनयनः कोपाच् चलन् मौलिर् निशाचरः
पद्मनाभम् इदं प्राह वचनं परुषं तदा
नारायण न जानीषे क्षत्रधर्मं सनातनम्
अयुद्धमनसो भग्नान् यो ऽस्मान् हंसि यथेतरः
पराङ्मुखवधं पापं यः करोति सुरेश्वर
स हन्ता न गतः स्वर्गं लभते पुण्यकर्मणाम्
युद्धश्रद्धाथ वा ते ऽस्ति शङ्खचक्रगदाधर
अहं स्थितो ऽस्मि पश्यामि बलं दर्शय यत् तव
उवाच राक्षसेन्द्रं तं देवराजानुजो बली
युष्मत्तो भयभीतानां देवानां वै मयाभयम्
राक्षसोत्सादनं दत्तं तद् एतद् अनुपाल्यते
प्राणैर् अपि प्रियं कार्यं देवानां हि सदा मया
सो ऽहं वो निहनिष्यामि रसातलगतान् अपि
देवम् एवं ब्रुवाणं तु रक्ताम्बुरुहलोचनम्
शक्त्या बिभेद संक्रुद्धो राक्षसेन्द्रो ररास च
माल्यवद् भुजनिर्मुक्ता शक्तिर् घण्टाकृतस्वना
हरेर् उरसि बभ्राज मेघस्थेव शतह्रदा
ततस् ताम् एव चोत्कृष्य शक्तिं शक्तिधरप्रियः
माल्यवन्तं समुद्दिश्य चिक्षेपाम्बुरुहेक्षणः
स्कन्दोत्सृष्टेव सा शक्तिर् गोविन्दकरनिःसृता
काङ्क्षन्ती राक्षसं प्रायान् महोल्केवाञ्जनाचलम्
सा तस्योरसि विस्तीर्णे हारभासावभासिते
अपतद् राक्षसेन्द्रस्य गिरिकूट इवाशनिः
तया भिन्नतनुत्राणाः प्राविशद् विपुलं तमः
माल्यवान् पुनर् आश्वस्तस् तस्थौ गिरिर् इवाचलः
ततः कार्ष्णायसं शूलं कण्टकैर् बहुभिश् चितम्
प्रगृह्याभ्यहनद् देवं स्तनयोर् अन्तरे दृढम्
तथैव रणरक्तस् तु मुष्टिना वासवानुजम्
ताडयित्वा धनुर्मात्रम् अपक्रान्तो निशाचरः
ततो ऽम्बरे महाञ् शब्दः साधु साध्व् इति चोत्थितः
आहत्य राक्षसो विष्णुं गरुडं चाप्य् अताडयत्
वैनतेयस् ततः क्रुद्धः पक्षवातेन राक्षसं
व्यपोहद् बलवान् वायुः शुष्कपर्णचयं यथा
द्विजेन्द्रपक्षवातेन द्रावितं दृश्य पूर्वजम्
सुमाली स्वबलैः सार्धं लङ्काम् अभिमुखो ययौ
पक्षवातबलोद्धूतो माल्यवान् अपि राक्षसः
स्वबलेन समागम्य ययौ लङ्कां ह्रिया वृतः
एवं ते राक्षसा राम हरिणा कमलेक्षण
बहुशः संयुगे भग्ना हतप्रवरनायकाः
अशक्नुवन्तस् ते विष्णुं प्रतियोद्धुं भयार्दिताः
त्यक्त्वा लङ्कां गता वस्तुं पातालं सहपत्नयः
सुमालिनं समासाद्य राक्षसं रघुनन्दन
स्थिताः प्रख्यातवीर्यास् ते वंशे सालकटङ्कटे
ये त्वया निहतास् ते वै पौलस्त्या नाम राक्षसाः
सुमाली माल्यवान् माली ये च तेषां पुरःसराः
सर्व एते महाभाग रावणाद् बलवत्तराः
न चान्यो रक्षसां हन्ता सुरेष्व् अपि पुरंजय
ऋते नारायणं देवं शङ्खचक्रगदाधरम्
भवान् नारायणो देवश् चतुर्बाहुः सनातनः
राक्षसान् हन्तुम् उत्पन्नो अजेयः प्रभुर् अव्ययः
मूल पाठ: Rāmāyaṇa · Edition: John Smith's Rāmāyaṇa-Page (last comparison: 2020-04-16) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0