भाषा

ENहिગુ
ग्रंथ पाठ

रामायण · अध्याय 7.007

7.007.001

नारायणगिरिं ते तु गर्जन्तो राक्षसाम्बुदाः
अवर्षन्न् इषुवर्षेण वर्षेणाद्रिम् इवाम्बुदाः

7.007.002

श्यामावदातस् तैर् विष्णुर् नीलैर् नक्तंचरोत्तमैः
वृतो ऽञ्जनगिरीवासीद् वर्षमाणैः पयोधरैः

7.007.003

शलभा इव केदारं मशका इव पर्वतम्
यथामृतघटं जीवा मकरा इव चार्णवम्

7.007.004

तथा रक्षोधनुर् मुक्ता वज्रानिलमनोजवाः
हरिं विशन्ति स्म शरा लोकास्तम् इव पर्यये

7.007.005

स्यन्दनैः स्यन्दनगता गजैश् च गजधूर् गताः
अश्वारोहाः सदश्वैश् च पादाताश् चाम्बरे चराः

7.007.006

राक्षसेन्द्रा गिरिनिभाः शरशक्त्यृष्टितोमरैः
निरुच्छ्वासं हरिं चक्रुः प्राणायाम इव द्विजम्

7.007.007

निशाचरैस् तुद्यमानो मीनैर् इव महातिमिः
शार्ङ्गम् आयम्य गात्राणि राक्षसानां महाहवे

7.007.008

शरैः पूर्णायतोत्सृष्टैर् वज्रवक्त्रैर् मनोजवैः
चिच्छेद तिलशो विष्णुः शतशो ऽथ सहस्रशः

7.007.009

विद्राव्य शरवर्षं तं वर्षं वायुर् इवोत्थितम्
पाञ्चजन्यं महाशङ्खं प्रदध्मौ पुरुषोत्तमः

7.007.010

सो ऽम्बुजो हरिणा ध्मातः सर्वप्राणेन शङ्खराट्
ररास भीमनिह्रादो युगान्ते जलदो यथा

7.007.011

शङ्खराजरवः सो ऽथ त्रासयाम् आस राक्षसान्
मृगराज इवारण्ये समदान् इव कुञ्जरान्

7.007.012

न शेकुर् अश्वाः संस्थातुं विमदाः कुञ्जराभवन्
स्यन्दनेभ्यश् च्युता योधाः शङ्खरावितदुर्बलाः

7.007.013

शार्ङ्गचापविनिर्मुक्ता वज्रतुल्याननाः शराः
विदार्य तानि रक्षांसि सुपुङ्खा विविशुः क्षितिम्

7.007.014

भिद्यमानाः शरैश् चान्ये नारायणधनुश्च्युतैः
निपेतू राक्षसा भीमाः शैला वज्रहता इव

7.007.015

व्रणैर् व्रणकरारीणाम् अधोक्षजशरोद्भवैः
असृक् क्षरन्ति धाराभिः स्वर्णधाराम् इवाचलाः

7.007.016

शङ्खराजरवश् चापि शार्ङ्गचापरवस् तथा
राक्षसानां रवांश् चापि ग्रसते वैष्णवो रवः

7.007.017

सूर्याद् इव करा घोरा ऊर्मयः सागराद् इव
पर्वताद् इव नागेन्द्रा वार्योघा इव चाम्बुदात्

7.007.018

तथा बाणा विनिर्मुक्ताः शार्ङ्गान् नरायणेरिताः
निर्धावन्तीषवस् तूर्णं शतशो ऽथ सहस्रशः

7.007.019

शरभेण यथा सिंहाः सिंहेन द्विरदा यथा
द्विरदेन यथा व्याघ्रा व्याघ्रेण द्वीपिनो यथा

7.007.020

द्वीपिना च यथा श्वानः शुना मार्जारका यथा
मार्जारेण यथा सर्पाः सर्पेण च यथाखवः

7.007.021

तथा ते राक्षसा युद्धे विष्णुना प्रभविष्णुना
द्रवन्ति द्राविताश् चैव शायिताश् च महीतले

7.007.022

राक्षसानां सहस्राणि निहत्य मधुसूदनः
वारिजं नादयाम् आस तोयदं सुरराड् इव

7.007.023

नारायणशरग्रस्तं शङ्खनादसुविह्वलम्
ययौ लङ्काम् अभिमुखं प्रभग्नं राक्षसं बलम्

7.007.024

प्रभग्ने राक्षसबले नारायणशराहते
सुमाली शरवर्षेण आववार रणे हरिम्

7.007.025

उत्क्षिप्य हेमाभरणं करं करम् इव द्विपः
ररास राक्षसो हर्षात् सतडित् तोयदो यथा

7.007.026

सुमालेर् नर्दतस् तस्य शिरो ज्वलितकुण्डलम्
चिच्छेद यन्तुर् अश्वाश् च भ्रान्तास् तस्य तु रक्षसः

7.007.027

तैर् अश्वैर् भ्राम्यते भ्रान्तैः सुमाली राक्षसेश्वरः
इन्द्रियाश्वैर् यथा भ्रान्तैर् धृतिहीनो यथा नरः

7.007.028

माली चाभ्यद्रवद् युद्धे प्रगृह्य सशरं धनुः
मालेर् धनुश्च्युता बाणाः कार्तस्वरविभूषिताः
विविशुर् हरिम् आसाद्य क्रौञ्चं पत्ररथा इव

7.007.029

अर्द्यमानः शरैः सो ऽथ मालिमुक्तैः सहस्रशः
चुक्षुभे न रणे विष्णुर् जितेन्द्रिय इवाधिभिः

7.007.030

अथ मौर्वी स्वनं कृत्वा भगवान् भूतभावनः
मालिनं प्रति बाणौघान् ससर्जासिगदाधरः

7.007.031

ते मालिदेहम् आसाद्य वज्रविद्युत्प्रभाः शराः
पिबन्ति रुधिरं तस्य नागा इव पुरामृतम्

7.007.032

मालिनं विमुखं कृत्वा मालिमौलिं हरिर् बलात्
रथं च सध्वजं चापं वाजिनश् च न्यपातयत्

7.007.033

विरथस् तु गदां गृह्य माली नक्तंचरोत्तमः
आपुप्लुवे गदापाणिर् गिर्यग्राद् इव केषरी

7.007.034

स तया गरुडं संख्ये ईशानम् इव चान्तकः
ललाटदेशे ऽभ्यहनद् वज्रेणेन्द्रो यथाचलम्

7.007.035

गदयाभिहतस् तेन मालिना गरुडो भृशम्
रणात् पराङ्मुखं देवं कृतवान् वेदनातुरः

7.007.036

पराङ्मुखे कृते देवे मालिना गरुडेन वै
उदतिष्ठन् महानादो रक्षसाम् अभिनर्दताम्

7.007.037

रक्षसां नदतां नादं श्रुत्वा हरिहयानुजः
पराङ्मुखो ऽप्य् उत्ससर्ज चक्रं मालिजिघांसया

7.007.038

तत् सूर्यमण्डलाभासं स्वभासा भासयन् नभः
कालचक्रनिभं चक्रं मालेः शीर्षम् अपातयत्

7.007.039

तच्छिरो राक्षसेन्द्रस्य चक्रोत्कृत्तं विभीषणम्
पपात रुधिरोद्गारि पुरा राहुशिरो यथा

7.007.040

ततः सुरैः सुसंहृष्टैः सर्वप्राणसमीरितः
सिंहनादरवो मुक्तः साधु देवेति वादिभिः

7.007.041

मालिनं निहतं दृष्ट्वा सुमाली मल्यवान् अपि
सबलौ शोकसंतप्तौ लङ्कां प्रति विधावितौ

7.007.042

गरुडस् तु समाश्वस्तः संनिवृत्य महामनाः
राक्षसान् द्रावयाम् आस पक्षवातेन कोपितः

7.007.043

नारायणो ऽपीषुवराशनीभिर् विदारयाम् आस धनुःप्रमुक्तैः
नक्तंचरान् मुक्तविधूतकेशान् यथाशनीभिः सतडिन्महेन्द्रः

7.007.044

भिन्नातपत्रं पतमानशस्त्रं शरैर् अपध्वस्तविशीर्णदेहम्
विनिःसृतान्त्रं भयलोलनेत्रं बलं तद् उन्मत्तनिभं बभूव

7.007.045

सिंहार्दितानाम् इव कुञ्जराणां निशाचराणां सह कुञ्जराणाम्
रवाश् च वेगाश् च समं बभूवुः पुराणसिंहेन विमर्दितानाम्

7.007.046

संछाद्यमाना हरिबाणजालैः स्वबाणजालानि समुत्सृजन्तः
धावन्ति नक्तंचरकालमेघा वायुप्रणुन्ना इव कालमेघाः

7.007.047

चक्रप्रहारैर् विनिकृत्तशीर्षाः संचूर्णिताङ्गाश् च गदाप्रहारैः
असिप्रहारैर् बहुधा विभक्ताः पतन्ति शैला इव राक्षसेन्द्राः

7.007.048

चक्रकृत्तास्यकमला गदासंचूर्णितोरसः
लाङ्गलग्लपितग्रीवा मुसलैर् भिन्नमस्तकाः

7.007.049

के चिच् चैवासिना छिन्नास् तथान्ये शरताडिताः
निपेतुर् अम्बरात् तूर्णं राक्षसाः सागराम्भसि

7.007.050

तदाम्बरं विगलितहारकुण्डलैर् निशाचरैर् नीलबलाहकोपमैः
निपात्यमानैर् ददृशे निरन्तरं निपात्यमानैर् इव नीलपर्वतैः

मूल पाठ: Rāmāyaṇa · Edition: John Smith's Rāmāyaṇa-Page (last comparison: 2020-04-16) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc