रामायण · अध्याय 7.006
तैर् वध्यमाना देवाश् च ऋषयश् च तपोधनाः
भयार्ताः शरणं जग्मुर् देवदेवं महेश्वरम्
ते समेत्य तु कामारिं त्रिपुरारिं त्रिलोचनम्
ऊचुः प्राञ्जलयो देवा भयगद्गदभाषिणः
सुकेशपुत्रैर् भगवन् पितामहवरोद्धतैः
प्रजाध्यक्ष प्रजाः सर्वा बाध्यन्ते रिपुबाधन
शरण्यान्य् अशरण्यानि आश्रमाणि कृतानि नः
स्वर्गाच् च च्यावितः शक्रः स्वर्गे क्रीडन्ति शक्रवत्
अहं विष्णुर् अहं रुद्रो ब्रह्माहं देवराड् अहम्
अहं यमो ऽहं वरुणश् चन्द्रो ऽहं रविर् अप्य् अहम्
इति ते राक्षसा देव वरदानेन दर्पिताः
बाधन्ते समरोद्धर्षा ये च तेषां पुरःसराः
तन् नो देवभयार्तानाम् अभयं दातुम् अर्हसि
अशिवं वपुर् आस्थाय जहि दैवतकण्टकान्
इत्य् उक्तस् तु सुरैः सर्वैः कपर्दी नीललोहितः
सुकेशं प्रति सापेक्ष आह देवगणान् प्रभुः
नाहं तान् निहनिष्यामि अवध्या मम ते ऽसुराः
किं तु मन्त्रं प्रदास्यामि यो वै तान् निहनिष्यति
एवम् एव समुद्योगं पुरस्कृत्य सुरर्षभाः
गच्छन्तु शरणं विष्णुं हनिष्यति स तान् प्रभुः
ततस् ते जयशब्देन प्रतिनन्द्य महेश्वरम्
विष्णोः समीपम् आजग्मुर् निशाचरभयार्दिताः
शङ्खचक्रधरं देवं प्रणम्य बहुमान्य च
ऊचुः संभ्रान्तवद् वाक्यं सुकेशतनयार्दिताः
सुकेशतनयैर् देवत्रिभिस् त्रेताग्निसंनिभैः
आक्रम्य वरदानेन स्थानान्य् अपहृतानि नः
लङ्का नाम पुरी दुर्गा त्रिकूटशिखरे स्थिता
तत्र स्थिताः प्रबाधन्ते सर्वान् नः क्षणदाचराः
स त्वम् अस्मत्प्रियार्थं तु जहि तान् मधुसूदन
चक्रकृत्तास्यकमलान् निवेदय यमाय वै
भयेष्व् अभयदो ऽस्माकं नान्यो ऽस्ति भवता समः
नुद त्वं नो भयं देव नीहारम् इव भास्करः
इत्य् एवं दैवतैर् उक्तो देवदेवो जनार्दनः
अभयं भयदो ऽरीणां दत्त्वा देवान् उवाच ह
सुकेशं राक्षसं जाने ईशान वरदर्पितम्
तांश् चास्य तनयाञ् जाने येषां ज्येष्ठः स माल्यवान्
तान् अहं समतिक्रान्तमर्यादान् राक्षसाधमान्
सूदयिष्यामि संग्रामे सुरा भवत विज्वराः
इत्य् उक्तास् ते सुराः सर्वे विष्णुना प्रभविष्णुना
यथा वासं ययुर् हृष्टाः प्रशमन्तो जनार्दनम्
विबुधानां समुद्योगं माल्यवान् स निशाचरः
श्रुत्वा तौ भ्रातरौ वीराव् इदं वचनम् अब्रवीत्
अमरा ऋषयश् चैव संहत्य किल शंकरम्
अस्मद्वधं परीप्सन्त इदम् ऊचुस् त्रिलोचनम्
सुकेशतनया देव वरदानबलोद्धताः
बाधन्ते ऽस्मान् समुद्युक्ता घोररूपाः पदे पदे
राक्षसैर् अभिभूताः स्म न शक्ताः स्म उमापते
स्वेषु वेश्मसु संस्थातुं भयात् तेषां दुरात्मनाम्
तद् अस्माकं हितार्थे त्वं जहि तांस् तांस् त्रिलोचन
राक्षसान् हुंकृतेनैव दह प्रदहतां वर
इत्य् एवं त्रिदशैर् उक्तो निशम्यान्धकसूदनः
शिरः करं च धुन्वान इदं वचनम् अब्रवीत्
अवध्या मम ते देवाः सुकेशतनया रणे
मन्त्रं तु वः प्रदास्यामि यो वै तान् निहनिष्यति
यः स चक्रगदापाणिः पीतवासा जनार्दनः
हनिष्यति स तान् युद्धे शरणं तं प्रपद्यथ
हरान् नावाप्य ते कामं कामारिम् अभिवाद्य च
नारायणालयं प्राप्तास् तस्मै सर्वं न्यवेदयन्
ततो नारायणेनोक्ता देवा इन्द्रपुरोगमाः
सुरारीन् सूदयिष्यामि सुरा भवत विज्वराः
देवानां भयभीतानां हरिणा राक्षसर्षभौ
प्रतिज्ञातो वधो ऽस्माकं तच् चिन्तयथ यत् क्षमम्
हिरण्यकशिपोर् मृत्युर् अन्येषां च सुरद्विषाम्
दुःखं नारायणं जेतुं यो नो हन्तुम् अभीप्सति
ततः सुमाली माली च श्रुत्वा माल्यवतो वचः
ऊचतुर् भ्रातरं ज्येष्ठं भगांशाव् इव वासवम्
स्वधीतं दत्तम् इष्टं च ऐश्वर्यं परिपालितम्
आयुर् निरामयं प्राप्तं स्वधर्मः स्थापितश् च नः
देवसागरम् अक्षोभ्यं शस्त्रौघैः प्रविगाह्य च
जिता देवा रणे नित्यं न नो मृत्युकृतं भयम्
नारायणश् च रुद्रश् च शक्रश् चापि यमस् तथा
अस्माकं प्रमुखे स्थातुं सर्व एव हि बिभ्यति
विष्णोर् दोषश् च नास्त्य् अत्र कारणं राक्षसेश्वर
देवानाम् एव दोषेण विष्णोः प्रचलितं मनः
तस्माद् अद्य समुद्युक्ताः सर्वसैन्यसमावृताः
देवान् एव जिघांसामो येभ्यो दोषः समुत्थितः
इति माली सुमाली च माल्यवान् अग्रजः प्रभुः
उद्योगं घोषयित्वाथ राक्षसाः सर्व एव ते
युद्धाय निर्ययुः क्रुद्धा जम्भवृत्रबला इव
स्यन्दनैर् वारणेन्द्रैश् च हयैश् च गिरिसंनिभैः
खरैर् गोभिर् अथोष्ट्रैश् च शिंशुमारैर् भुजं गमैः
मकरैः कच्छपैर् मीनैर् विहंगैर् गरुडोपमैः
सिंहैर् व्याघ्रैर् वराहैश् च सृमरैश् चमरैर् अपि
त्यक्त्वा लङ्कां ततः सर्वे राक्षसा बलगर्विताः
प्रयाता देवलोकाय योद्धुं दैवतशत्रवः
लङ्काविपर्ययं दृष्ट्वा यानि लङ्कालयान्य् अथ
भूतानि भयदर्शीनि विमनस्कानि सर्वशः
भौमास् तथान्तरिक्षाश् च कालाज्ञप्ता भयावहाः
उत्पाता राक्षसेन्द्राणाम् अभावायोत्थिता द्रुतम्
अस्थीनि मेघा वर्षन्ति उष्णं शोणितम् एव च
वेलां समुद्रो ऽप्य् उत्क्रान्तश् चलन्ते चाचलोत्तमाः
अट्टहासान् विमुञ्चन्तो घननादसमस्वनान्
भूताः परिपतन्ति स्म नृत्यमानाः सहस्रशः
गृध्रचक्रं महच् चापि ज्वलनोद्गारिभिर् मुखैः
राक्षसानाम् उपरि वै भ्रमते कालचक्रवत्
तान् अचिन्त्यमहोत्पातान् राक्षसा बलगर्विताः
यन्त्य् एव न निवर्तन्ते मृत्युपाशावपाशिताः
माल्यवांश् च सुमाली च माली च रजनीचराः
आसन् पुरःसरास् तेषां क्रतूनाम् इव पावकाः
माल्यवन्तं तु ते सर्वे माल्यवन्तम् इवाचलम्
निशाचरा आश्रयन्ते धातारम् इव देहिनः
तद् बलं राक्षसेन्द्राणां महाभ्रघननादितम्
जयेप्सया देवलोकं ययौ माली वशे स्थितम्
राक्षसानां समुद्योगं तं तु नारायणः प्रभुः
देवदूताद् उपश्रुत्य दध्रे युद्धे ततो मनः
स देवसिद्धर्षिमहोरगैश् च गन्धर्वमुख्याप्सरसोपगीतः
समाससादामरशत्रुसैन्यं चक्रासिसीरप्रवरादिधारी
सुपर्णपक्षानिलनुन्नपक्षं भ्रमत्पताकं प्रविकीर्णशस्त्रम्
चचाल तद् राक्षसराजसैन्यं चलोपलो नील इवाचलेन्द्रः
तथ शितैः शोणितमांसरूषितैर् युगान्तवैश्वानरतुल्यविग्रहैः
निशाचराः संपरिवार्य माधवं वरायुधैर् निर्बिभिदुः सहस्रशः
मूल पाठ: Rāmāyaṇa · Edition: John Smith's Rāmāyaṇa-Page (last comparison: 2020-04-16) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0