भाषा

ENहिગુ
ग्रंथ पाठ

रामायण · अध्याय 7.005

7.005.001

सुकेशं धार्मिकं दृष्ट्वा वरलब्धं च राक्षसं
ग्रामणीर् नाम गन्धर्वो विश्वावसुसमप्रभः

7.005.002

तस्य देववती नाम द्वितीया श्रीर् इवात्मजा
तां सुकेशाय धर्मेण ददौ दक्षः श्रियं यथा

7.005.003

वरदानकृतैश्वर्यं सा तं प्राप्य पतिं प्रियम्
आसीद् देववती तुष्टा धनं प्राप्येव निर्धनः

7.005.004

स तया सह संयुक्तो रराज रजनीचरः
अञ्जनाद् अभिनिष्क्रान्तः करेण्वेव महागजः

7.005.005

देववत्यां सुकेशस् तु जनयाम् आस राघव
त्रींस् त्रिनेत्रसमान् पुत्रान् राक्षसान् राक्षसाधिपः
माल्यवन्तं सुमालिं च मालिं च बलिनां वरम्

7.005.006

त्रयो लोका इवाव्यग्राः स्थितास् त्रय इवाग्नयः
त्रयो मन्त्रा इवात्युग्रास् त्रयो घोरा इवामयाः

7.005.007

त्रयः सुकेशस्य सुतास् त्रेताग्निसमवर्चसः
विवृद्धिम् अगमंस् तत्र व्याधयोपेक्षिता इव

7.005.008

वरप्राप्तिं पितुस् ते तु ज्ञात्वैश्वर्यं ततो महत्
तपस् तप्तुं गता मेरुं भ्रातरः कृतनिश्चयाः

7.005.009

प्रगृह्य नियमान् घोरान् राक्षसा नृपसत्तम
विचेरुस् ते तपो घोरं सर्वभूतभयावहम्

7.005.010

सत्यार्जवदमोपेतैस् तपोभिर् भुवि दुष्करैः
संतापयन्तस् त्रींल् लोकान् सदेवासुरमानुषान्

7.005.011

ततो विभुश् चतुर्वक्त्रो विमानवरम् आस्थितः
सुकेशपुत्रान् आमन्त्र्य वरदो ऽस्मीत्य् अभाषत

7.005.012

ब्रह्माणं वरदं ज्ञात्वा सेन्द्रैर् देवगणैर् वृतम्
ऊचुः प्राञ्जलयः सर्वे वेपमाना इव द्रुमाः

7.005.013

तपसाराधितो देव यदि नो दिशसे वरम्
अजेयाः शत्रुहन्तारस् तथैव चिरजीविनः
प्रभविष्णवो भवामेति परस्परम् अनुव्रताः

7.005.014

एवं भविष्यतीत्य् उक्त्वा सुकेशतनयान् प्रभुः
प्रययौ ब्रह्मलोकाय ब्रह्मा ब्राह्मणवत्सलः

7.005.015

वरं लब्ध्वा ततः सर्वे राम रात्रिंचरास् तदा
सुरासुरान् प्रबाधन्ते वरदानात् सुनिर्भयाः

7.005.016

तैर् वध्यमानास् त्रिदशाः सर्षिसंघाः सचारणाः
त्रातारं नाधिगच्छन्ति निरयस्था यथा नराः

7.005.017

अथ ते विश्वकर्माणं शिल्पिनां वरम् अव्ययम्
ऊचुः समेत्य संहृष्टा राक्षसा रघुसत्तम

7.005.018

गृहकर्ता भवान् एव देवानां हृदयेप्सितम्
अस्माकम् अपि तावत् त्वं गृहं कुरु महामते

7.005.019

हिमवन्तं समाश्रित्य मेरुं मन्दरम् एव वा
महेश्वरगृहप्रख्यं गृहं नः क्रियतां महत्

7.005.020

विश्वकर्मा ततस् तेषां राक्षसानां महाभुजः
निवासं कथयाम् आस शक्रस्येवामरावतीम्

7.005.021

दक्षिणस्योदधेस् तीरे त्रिकूटो नाम पर्वतः
शिखरे तस्य शैलस्य मध्यमे ऽम्बुदसंनिभे
शकुनैर् अपि दुष्प्रापे टङ्कच्छिन्नचतुर्दिशि

7.005.022

त्रिंशद्योजनविस्तीर्णा स्वर्णप्राकारतोरणा
मया लङ्केति नगरी शक्राज्ञप्तेन निर्मिता

7.005.023

तस्यां वसत दुर्धर्षाः पुर्यां राक्षससत्तमाः
अमरावतीं समासाद्य सेन्द्रा इव दिवौकसः

7.005.024

लङ्कादुर्गं समासाद्य राक्षसैर् बहुभिर् वृताः
भविष्यथ दुराधर्षाः शत्रूणां शत्रुसूदनाः

7.005.025

विश्वकर्मवचः श्रुत्वा ततस् ते राम राक्षसाः
सहस्रानुचरा गत्वा लङ्कां ताम् अवसन् पुरीम्

7.005.026

दृढप्राकारपरिखां हैमैर् गृहशतैर् वृताम्
लङ्काम् अवाप्य ते हृष्टा विहरन्ति निशाचराः

7.005.027

नर्मदा नाम गन्धर्वी नानाधर्मसमेधिता
तस्याः कन्यात्रयं ह्य् आसीद् धीश्रीकीर्तिसमद्युति

7.005.028

ज्येष्ठक्रमेण सा तेषां राक्षसानाम् अराक्षसी
कन्यास् ताः प्रददौ हृष्टा पूर्णचन्द्रनिभाननाः

7.005.029

त्रयाणां राक्षसेन्द्राणां तिस्रो गन्धर्वकन्यकाः
मात्रा दत्ता महाभागा नक्षत्रे भगदैवते

7.005.030

कृतदारास् तु ते राम सुकेशतनयाः प्रभो
भार्याभिः सह चिक्रीडुर् अप्सरोभिर् इवामराः

7.005.031

तत्र माल्यवतो भार्या सुन्दरी नाम सुन्दरी
स तस्यां जनयाम् आस यद् अपत्यं निबोध तत्

7.005.032

वज्रमुष्टिर् विरूपाक्षो दुर्मुखश् चैव राक्षसः
सुप्तघ्नो यज्ञकोपश् च मत्तोन्मत्तौ तथैव च
अनला चाभवत् कन्या सुन्दर्यां राम सुन्दरी

7.005.033

सुमालिनो ऽपि भार्यासीत् पूर्णचन्द्रनिभानना
नाम्ना केतुमती नाम प्राणेभ्यो ऽपि गरीयसी

7.005.034

सुमाली जनयाम् आस यद् अपत्यं निशाचरः
केतुमत्यां महाराज तन् निबोधानुपूर्वशः

7.005.035

प्रहस्तो ऽकम्पनैश् चैव विकटः कालकार्मुकः
धूम्राक्शश् चाथ दण्डश् च सुपार्श्वश् च महाबलः

7.005.036

संह्रादिः प्रघसश् चैव भासकर्णश् च राक्षसः
राका पुष्पोत्कटा चैव कैकसी च शुचिस्मिता
कुम्भीनसी च इत्य् एते सुमालेः प्रसवाः स्मृताः

7.005.037

मालेस् तु वसुदा नाम गन्धर्वी रूपशालिनी
भार्यासीत् पद्मपत्राक्षी स्वक्षी यक्षीवरोपमा

7.005.038

सुमालेर् अनुजस् तस्यां जनयाम् आस यत् प्रभो
अपत्यं कथ्यमानं तन् मया त्वं शृणु राघव

7.005.039

अनलश् चानिलश् चैव हरः संपातिर् एव च
एते विभीषणामात्या मालेयास् ते निशाचराः

7.005.040

ततस् तु ते राक्षसपुंगवास् त्रयो निशाचरैः पुत्रशतैश् च संवृताः
सुरान् सहेन्द्रान् ऋषिनागदानवान् बबाधिरे ते बलवीर्यदर्पिताः

7.005.041

जगद् भ्रमन्तो ऽनिलवद् दुरासदा रणे च मृत्युप्रतिमाः समाहिताः
वरप्रदानाद् अभिगर्विता भृशं क्रतुक्रियाणां प्रशमंकराः सदा

मूल पाठ: Rāmāyaṇa · Edition: John Smith's Rāmāyaṇa-Page (last comparison: 2020-04-16) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc