भाषा

ENहिગુ
ग्रंथ पाठ

रामायण · अध्याय 7.004

7.004.001

श्रुत्वागस्त्येरितं वाक्यं रामो विस्मयम् आगतः
पूर्वम् आसीत् तु लङ्कायां रक्षसाम् इति संभवः

7.004.002

ततः शिरः कम्पयित्वा त्रेताग्निसमविग्रहम्
अगस्त्यं तं मुहुर् दृष्ट्वा स्मयमानो ऽभ्यभाषत

7.004.003

भगवन् पूर्वम् अप्य् एषा लङ्कासीत् पिशिताशिनाम्
इतीदं भवतः श्रुत्वा विस्मयो जनितो मम

7.004.004

पुलस्त्यवंशाद् उद्भूता राक्षसा इति नः श्रुतम्
इदानीम् अन्यतश् चापि संभवः कीर्तितस् त्वया

7.004.005

रावणात् कुम्भकर्णाच् च प्रहस्ताद् विकटाद् अपि
रावणस्य च पुत्रेभ्यः किं नु ते बलवत्तराः

7.004.006

क एषां पूर्वको ब्रह्मन् किंनामा किंतपोबलः
अपराधं च कं प्राप्य विष्णुना द्राविताः पुरा

7.004.007

एतद् विस्तरतः सर्वं कथयस्व ममानघ
कौतूहलं कृतं मह्यं नुद भानुर् यथा तमः

7.004.008

राघवस्य तु तच् छ्रुत्वा संस्कारालंकृतं वचः
ईषद्विस्मयमानस् तम् अगस्त्यः प्राह राघवम्

7.004.009

प्रजापतिः पुरा सृष्ट्वा अपः सलिलसंभवः
तासां गोपायने सत्त्वान् असृजत् पद्मसंभवः

7.004.010

ते सत्त्वाः सत्त्वकर्तारं विनीतवद् उपस्थिताः
किं कुर्म इति भाषन्तः क्षुत्पिपासाभयार्दिताः

7.004.011

प्रजापतिस् तु तान्य् आह सत्त्वानि प्रहसन्न् इव
आभाष्य वाचा यत्नेन रक्षध्वम् इति मानदः

7.004.012

रक्षाम इति तत्रान्यैर् यक्षामेति तथापरैः
भुङ्क्षिताभुङ्क्षितैर् उक्तस् ततस् तान् आह भूतकृत्

7.004.013

रक्षाम इति यैर् उक्तं राक्षसास् ते भवन्तु वः
यक्षाम इति यैर् उक्तं ते वै यक्षा भवन्तु वः

7.004.014

तत्र हेतिः प्रहेतिश् च भ्रातरौ राक्षसर्षभौ
मधुकैटभसंकाशौ बभूवतुर् अरिंदमौ

7.004.015

प्रहेतिर् धार्मिकस् तत्र न दारान् सो ऽभिकाङ्क्षति
हेतिर् दारक्रियार्थं तु यत्नं परम् अथाकरोत्

7.004.016

स कालभगिनीं कन्यां भयां नाम भयावहाम्
उदावहद् अमेयात्मा स्वयम् एव महामतिः

7.004.017

स तस्यां जनयाम् आस हेती राक्षसपुंगवः
पुत्रं पुत्रवतां श्रेष्ठो विद्युत्केश इति श्रुतम्

7.004.018

विद्युत्केशो हेतिपुत्रः प्रदीप्ताग्निसमप्रभः
व्यवर्धत महातेजास् तोयमध्य इवाम्बुजम्

7.004.019

स यदा यौवनं भद्रम् अनुप्राप्तो निशाचरः
ततो दारक्रियां तस्य कर्तुं व्यवसितः पिता

7.004.020

संध्यादुहितरं सो ऽथ संध्यातुल्यां प्रभावतः
वरयाम् आस पुत्रार्थं हेती राक्षसपुंगवः

7.004.021

अवश्यम् एव दातव्या परस्मै सेति संध्यया
चिन्तयित्वा सुता दत्ता विद्युत्केशाय राघव

7.004.022

संध्यायास् तनयां लब्ध्वा विद्युत्केशो निशाचरः
रमते स तया सार्धं पौलोम्या मघवान् इव

7.004.023

केन चित् त्व् अथ कालेन राम सालकटंकटा
विद्युत्केशाद् गर्भम् आप घनराजिर् इवार्णवात्

7.004.024

ततः सा राक्षसी गर्भं घनगर्भसमप्रभम्
प्रसूता मन्दरं गत्वा गङ्गा गर्भम् इवाग्निजम्

7.004.025

तम् उत्सृज्य तु सा गर्भं विद्युत्केशाद् रतार्थिनी
रेमे सा पतिना सार्धं विस्मृत्य सुतम् आत्मजम्

7.004.026

तयोत्सृष्टः स तु शिशुः शरदर्कसमद्युतिः
पाणिम् आस्ये समाधाय रुरोद घनराड् इव

7.004.027

अथोपरिष्टाद् गच्छन् वै वृषभस्थो हरः प्रभुः
अपश्यद् उमया सार्धं रुदन्तं राक्षसात्मजम्

7.004.028

कारुण्यभावात् पार्वत्या भवस् त्रिपुरहा ततः
तं राक्षसात्मजं चक्रे मातुर् एव वयः समम्

7.004.029

अमरं चैव तं कृत्वा महादेवो ऽक्षयो ऽव्ययः
पुरम् आकाशगं प्रादात् पार्वत्याः प्रियकाम्यया

7.004.030

उमयापि वरो दत्तो राक्षसीनां नृपात्मज
सद्योपलब्धिर् गर्भस्य प्रसूतिः सद्य एव च
सद्य एव वयःप्राप्तिर् मातुर् एव वयः समम्

7.004.031

ततः सुकेशो वरदानगर्वितः श्रियं प्रभोः प्राप्य हरस्य पार्श्वतः
चचार सर्वत्र महामतिः खगः खगं पुरं प्राप्य पुरंदरो यथा

मूल पाठ: Rāmāyaṇa · Edition: John Smith's Rāmāyaṇa-Page (last comparison: 2020-04-16) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc