रामायण · अध्याय 7.003
अथ पुत्रः पुलस्त्यस्य विश्रवा मुनिपुंगवः
अचिरेणैव कालेन पितेव तपसि स्थितः
सत्यवाञ् शीलवान् दक्षः स्वाध्यायनिरतः शुचिः
सर्वभोगेष्व् असंसक्तो नित्यं धर्मपरायणः
ज्ञात्वा तस्य तु तद्वृत्तं भरद्वाजो महान् ऋषिः
ददौ विश्रवसे भार्यां स्वां सुतां देववर्णिनीम्
प्रतिगृह्य तु धर्मेण भरद्वाजसुतां तदा
मुदा परमया युक्तो विश्रवा मुनिपुंगवः
स तस्यां वीर्यसंपन्नम् अपत्यं परमाद्भुतम्
जनयाम् आस धर्मात्मा सर्वैर् ब्रह्मगुणैर् युतम्
तस्मिञ् जाते तु संहृष्टः स बभूव पितामहः
नाम चास्याकरोत् प्रीतः सार्धं देवर्षिभिस् तदा
यस्माद् विश्रवसो ऽपत्यं सादृश्याद् विश्रवा इव
तस्माद् वैश्रवणो नाम भविष्यत्य् एष विश्रुतः
स तु वैश्रवणस् तत्र तपोवनगतस् तदा
अवर्धत महातेजा हुताहुतिर् इवानलः
तस्याश्रमपदस्थस्य बुद्धिर् जज्ञे महात्मनः
चरिष्ये नियतो धर्मं धर्मो हि परमा गतिः
स तु वर्षसहस्राणि तपस् तप्त्वा महावने
पूर्णे वर्षसहस्रे तु तं तं विधिम् अवर्तत
जलाशी मारुताहारो निराहारस् तथैव च
एवं वर्षसहस्राणि जग्मुस् तान्य् एव वर्षवत्
अथ प्रीतो महातेजाः सेन्द्रैः सुरगणैः सह
गत्वा तस्याश्रमपदं ब्रह्मेदं वाक्यम् अब्रवीत्
परितुष्टो ऽस्मि ते वत्स कर्मणानेन सुव्रत
वरं वृणीष्व भद्रं ते वरार्हस् त्वं हि मे मतः
अथाब्रवीद् वैश्रवणः पितामहम् उपस्थितम्
भगवंल् लोकपालत्वम् इच्छेयं वित्तरक्षणम्
ततो ऽब्रवीद् वैश्रवणं परितुष्टेन चेतसा
ब्रह्मा सुरगणैः सार्धं बाढम् इत्य् एव हृष्टवत्
अहं हि लोकपालानां चतुर्थं स्रष्टुम् उद्यतः
यमेन्द्रवरुणानां हि पदं यत् तव चेप्सितम्
तत्कृतं गच्छ धर्मज्ञ धनेशत्वम् अवाप्नुहि
यमेन्द्रवरुणानां हि चतुर्थो ऽद्य भविष्यसि
एतच् च पुष्पकं नाम विमानं सूर्यसंनिभम्
प्रतिगृह्णीष्व यानार्थं त्रिदशैः समतां व्रज
स्वस्ति ते ऽस्तु गमिष्यामः सर्व एव यथागतम्
कृतकृत्या वयं तात दत्त्वा तव महावरम्
गतेषु ब्रह्मपूर्वेषु देवेष्व् अथ नभस्तलम्
धनेशः पितरं प्राह विनयात् प्रणतो वचः
भगवंल् लब्धवान् अस्मि वरं कमलयोनितः
निवासं न तु मे देवो विदधे स प्रजापतिः
तत् पश्य भगवन् कं चिद् देशं वासाय नः प्रभो
न च पीडा भवेद् यत्र प्राणिनो यस्य कस्य चित्
एवम् उक्तस् तु पुत्रेण विश्रवा मुनिपुंगवः
वचनं प्राह धर्मज्ञ श्रूयताम् इति धर्मवित्
लङ्का नाम पुरी रम्या निर्मिता विश्वकर्मणा
राक्षसानां निवासार्थं यथेन्द्रस्यामरावती
रमणीया पुरी सा हि रुक्मवैदूर्यतोरणा
राक्षसैः सा परित्यक्ता पुरा विष्णुभयार्दितैः
शून्या रक्षोगणैः सर्वै रसातलतलं गतैः
स त्वं तत्र निवासाय रोचयस्व मतिं स्वकाम्
निर्दोषस् तत्र ते वासो न च बाधास्ति कस्य चित्
एतच् छ्रुत्वा तु धर्मात्मा धर्मिष्ठं वचनं पितुः
निवेशयाम् आस तदा लङ्कां पर्वतमूर्धनि
नैरृतानां सहस्रैस् तु हृष्टैः प्रमुदितैः सदा
अचिरेणैककालेन संपूर्णा तस्य शासनात्
अथ तत्रावसत् प्रीतो धर्मात्मा नैरृताधिपः
समुद्रपरिधानायां लङ्कायां विश्रवात्मजः
काले काले विनीतात्मा पुष्पकेण धनेश्वरः
अभ्यगच्छत् सुसंहृष्टः पितरं मातरं च सः
स देवगन्धर्वगणैर् अभिष्टुतस् तथैव सिद्धैः सह चारणैर् अपि
गभस्तिभिः सूर्य इवौजसा वृतः पितुः समीपं प्रययौ श्रिया वृतः
मूल पाठ: Rāmāyaṇa · Edition: John Smith's Rāmāyaṇa-Page (last comparison: 2020-04-16) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0