भाषा

ENहिગુ
ग्रंथ पाठ

रामायण · अध्याय 6.115

6.115.001

श्रुत्वा तु परम् आनन्दं भरतः सत्यविक्रमः
हृष्टम् आज्ञापयाम् आस शत्रुघ्नं परवीरहा

6.115.002

दैवतानि च सर्वाणि चैत्यानि नगरस्य च
सुगन्धमाल्यैर् वादित्रैर् अर्चन्तु शुचयो नराः

6.115.003

राजदारास् तथामात्याः सैन्याः सेनागणाङ्गनाः
अभिनिर्यान्तु रामस्य द्रष्टुं शशिनिभं मुखम्

6.115.004

भरतस्य वचः श्रुत्वा शत्रुघ्नः परवीरहा
विष्टीर् अनेकसाहस्रीश् चोदयाम् आस वीर्यवान्

6.115.005

समीकुरुत निम्नानि विषमाणि समानि च
स्थानानि च निरस्यन्तां नन्दिग्रामाद् इतः परम्

6.115.006

सिञ्चन्तु पृथिवीं कृत्स्नां हिमशीतेन वारिणा
ततो ऽभ्यवकिरंस् त्व् अन्ये लाजैः पुष्पैश् च सर्वतः

6.115.007

समुच्छ्रितपताकास् तु रथ्याः पुरवरोत्तमे
शोभयन्तु च वेश्मानि सूर्यस्योदयनं प्रति

6.115.008

स्रग्दाममुक्तपुष्पैश् च सुगन्धैः पञ्चवर्णकैः
राजमार्गम् असंबाधं किरन्तु शतशो नराः

6.115.009

मत्तैर् नागसहस्रैश् च शातकुम्भविभूषितः
अपरे हेमकक्ष्याभिः सगजाभिः करेणुभिः
निर्ययुस् त्वरया युक्ता रथैश् च सुमहारथाः

6.115.010

ततो यानान्य् उपारूढाः सर्वा दशरथस्त्रियः
कौसल्यां प्रमुखे कृत्वा सुमित्रां चापि निर्ययुः

6.115.011

अश्वानां खुरशब्देन रथनेमिस्वनेन च
शङ्खदुन्दुभिनादेन संचचालेव मेदिनी

6.115.012

कृत्स्नं च नगरं तत् तु नन्दिग्रामम् उपागमत्
द्विजातिमुख्यैर् धर्मात्मा श्रेणीमुख्यैः सनैगमैः

6.115.013

माल्यमोदक हस्तैश् च मन्त्रिभिर् भरतो वृतः
शङ्खभेरीनिनादैश् च बन्दिभिश् चाभिवन्दितः

6.115.014

आर्यपादौ गृहीत्वा तु शिरसा धर्मकोविदः
पाण्डुरं छत्रम् आदाय शुक्लमाल्योपशोभितम्

6.115.015

शुक्ले च वालव्यजने राजार्हे हेमभूषिते
उपवासकृशो दीनश् चीरकृष्णाजिनाम्बरः

6.115.016

भ्रातुर् आगमनं श्रुत्वा तत् पूर्वं हर्षम् आगतः
प्रत्युद्ययौ तदा रामं महात्मा सचिवैः सह

6.115.017

समीक्ष्य भरतो वाक्यम् उवाच पवनात्मजम्
कच्चिन् न खलु कापेयी सेव्यते चलचित्तता
न हि पश्यामि काकुत्स्थं रामम् आर्यं परंतपम्

6.115.018

अथैवम् उक्ते वचने हनूमान् इदम् अब्रवीत्
अर्थं विज्ञापयन्न् एव भरतं सत्यविक्रमम्

6.115.019

सदा फलान् कुसुमितान् वृक्षान् प्राप्य मधुस्रवान्
भरद्वाजप्रसादेन मत्तभ्रमरनादितान्

6.115.020

तस्य चैष वरो दत्तो वासवेन परंतप
ससैन्यस्य तदातिथ्यं कृतं सर्वगुणान्वितम्

6.115.021

निस्वनः श्रूयते भीमः प्रहृष्टानां वनौकसाम्
मन्ये वानरसेना सा नदीं तरति गोमतीम्

6.115.022

रजोवर्षं समुद्भूतं पश्य वालुकिनीं प्रति
मन्ये सालवनं रम्यं लोलयन्ति प्लवंगमाः

6.115.023

तद् एतद् दृश्यते दूराद् विमलं चन्द्रसंनिभम्
विमानं पुष्पकं दिव्यं मनसा ब्रह्मनिर्मितम्

6.115.024

रावणं बान्धवैः सार्धं हत्वा लब्धं महात्मना
धनदस्य प्रसादेन दिव्यम् एतन् मनोजवम्

6.115.025

एतस्मिन् भ्रातरौ वीरौ वैदेह्या सह राघवौ
सुग्रीवश् च महातेजा राक्षसेन्द्रो विभीषणः

6.115.026

ततो हर्षसमुद्भूतो निस्वनो दिवम् अस्पृशत्
स्त्रीबालयुववृद्धानां रामो ऽयम् इति कीर्तितः

6.115.027

रथकुञ्जरवाजिभ्यस् ते ऽवतीर्य महीं गताः
ददृशुस् तं विमानस्थं नराः सोमम् इवाम्बरे

6.115.028

प्राञ्जलिर् भरतो भूत्वा प्रहृष्टो राघवोन्मुखः
स्वागतेन यथार्थेन ततो रामम् अपूजयत्

6.115.029

मनसा ब्रह्मणा सृष्टे विमाने लक्ष्मणाग्रजः
रराज पृथुदीर्घाक्षो वज्रपाणिर् इवापरः

6.115.030

ततो विमानाग्रगतं भरतो भ्रातरं तदा
ववन्दे प्रणतो रामं मेरुस्थम् इव भास्करम्

6.115.031

आरोपितो विमानं तद् भरतः सत्यविक्रमः
रामम् आसाद्य मुदितः पुनर् एवाभ्यवादयत्

6.115.032

तं समुत्थाप्य काकुत्स्थश् चिरस्याक्षिपथं गतम्
अङ्के भरतम् आरोप्य मुदितः परिषष्वजे

6.115.033

ततो लक्ष्मणम् आसाद्य वैदेहीं च परंतपः
अभ्यवादयत प्रीतो भरतो नाम चाब्रवीत्

6.115.034

सुग्रीवं कैकयी पुत्रो जाम्बवन्तं तथाङ्गदम्
मैन्दं च द्विविदं नीलम् ऋषभं चैव सस्वजे

6.115.035

ते कृत्वा मानुषं रूपं वानराः कामरूपिणः
कुशलं पर्यपृच्छन्त प्रहृष्टा भरतं तदा

6.115.036

विभीषणं च भरतः सान्त्वयन् वाक्यम् अब्रवीत्
दिष्ट्या त्वया सहायेन कृतं कर्म सुदुष्करम्

6.115.037

शत्रुघ्नश् च तदा रामम् अभिवाद्य सलक्ष्मणम्
सीतायाश् चरणौ पश्चाद् ववन्दे विनयान्वितः

6.115.038

रामो मातरम् आसाद्य विषण्णं शोककर्शिताम्
जग्राह प्रणतः पादौ मनो मातुः प्रसादयन्

6.115.039

अभिवाद्य सुमित्रां च कैकेयीं च यशस्विनीम्
स मातॄश् च तदा सर्वाः पुरोहितम् उपागमत्

6.115.040

स्वागतं ते महाबाहो कौसल्यानन्दवर्धन
इति प्राञ्जलयः सर्वे नागरा रामम् अब्रुवन्

6.115.041

तन्य् अञ्जलिसहस्राणि प्रगृहीतानि नागरैः
आकोशानीव पद्मानि ददर्श भरताग्रजः

6.115.042

पादुके ते तु रामस्य गृहीत्वा भरतः स्वयम्
चरणाभ्यां नरेन्द्रस्य योजयाम् आस धर्मवित्

6.115.043

अब्रवीच् च तदा रामं भरतः स कृताञ्जलिः
एतत् ते रक्षितं राजन् राज्यं निर्यातितं मया

6.115.044

अद्य जन्म कृतार्थं मे संवृत्तश् च मनोरथः
यस् त्वां पश्यामि राजानम् अयोध्यां पुनर् आगतम्

6.115.045

अवेक्षतां भवान् कोशं कोष्ठागारं पुरं बलम्
भवतस् तेजसा सर्वं कृतं दशगुणं मया

6.115.046

तथा ब्रुवाणं भरतं दृष्ट्वा तं भ्रातृवत्सलम्
मुमुचुर् वानरा बाष्पं राक्षसश् च विभीषणः

6.115.047

ततः प्रहर्षाद् भरतम् अङ्कम् आरोप्य राघवः
ययौ तेन विमानेन ससैन्यो भरताश्रमम्

6.115.048

भरताश्रमम् आसाद्य ससैन्यो राघवस् तदा
अवतीर्य विमानाग्राद् अवतस्थे महीतले

6.115.049

अब्रवीच् च तदा रामस् तद्विमानम् अनुत्तमम्
वह वैश्रवणं देवम् अनुजानामि गम्यताम्

6.115.050

ततो रामाभ्यनुज्ञातं तद्विमानम् अनुत्तमम्
उत्तरां दिशम् उद्दिश्य जगाम धनदालयम्

6.115.051

पुरोहितस्यात्मसमस्य राघवो बृहस्पतेः शक्र इवामराधिपः
निपीड्य पादौ पृथग् आसने शुभे सहैव तेनोपविवेश वीर्यवान्

मूल पाठ: Rāmāyaṇa · Edition: John Smith's Rāmāyaṇa-Page (last comparison: 2020-04-16) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc