रामायण · अध्याय 6.114
बहूनि नाम वर्षाणि गतस्य सुमहद् वनम्
शृणोम्य् अहं प्रीतिकरं मम नाथस्य कीर्तनम्
कल्याणी बत गाथेयं लौकिकी प्रतिभाति मे
एति जीवन्तम् आनन्दो नरं वर्षशताद् अपि
राघवस्य हरीणां च कथम् आसीत् समागमः
कस्मिन् देशे किम् आश्रित्य तत् त्वम् आख्याहि पृच्छतः
स पृष्टो राजपुत्रेण बृस्यां समुपवेशितः
आचचक्षे ततः सर्वं रामस्य चरितं वने
यथा प्रव्रजितो रामो मातुर् दत्ते वरे तव
यथा च पुत्रशोकेन राजा दशरथो मृतः
यथा दूतैस् त्वम् आनीतस् तूर्णं राजगृहात् प्रभो
त्वयायोध्यां प्रविष्टेन यथा राज्यं न चेप्सितम्
चित्रकूटं गिरिं गत्वा राज्येनामित्रकर्शनः
निमन्त्रितस् त्वया भ्राता धर्मम् आचरिता सताम्
स्थितेन राज्ञो वचने यथा राज्यं विसर्जितम्
आर्यस्य पादुके गृह्य यथासि पुनर् आगतः
सर्वम् एतन् महाबाहो यथावद् विदितं तव
त्वयि प्रतिप्रयाते तु यद् वृत्तं तन् निबोध मे
अपयाते त्वयि तदा समुद्भ्रान्तमृगद्विजम्
प्रविवेशाथ विजनं सुमहद् दण्डकावनम्
तेषां पुरस्ताद् बलवान् गच्छतां गहने वने
विनदन् सुमहानादं विराधः प्रत्यदृश्यत
तम् उत्क्षिप्य महानादम् ऊर्ध्वबाहुम् अधोमुखम्
निखाते प्रक्षिपन्ति स्म नदन्तम् इव कुञ्जरम्
तत् कृत्वा दुष्करं कर्म भ्रातरौ रामलक्ष्मणौ
सायाह्ने शरभङ्गस्य रम्यम् आश्रमम् ईयतुः
शरभङ्गे दिवं प्राप्ते रामः सत्यपराक्रमः
अभिवाद्य मुनीन् सर्वाञ् जनस्थानम् उपागमत्
चतुर्दशसहस्राणि रक्षसां भीमकर्मणाम्
हतानि वसता तत्र राघवेण महात्मना
ततः पश्चाच् छूर्पणखा रामपार्श्वम् उपागता
ततो रामेण संदिष्टो लक्ष्मणः सहसोत्थितः
प्रगृह्य खड्गं चिच्छेद कर्णनासे महाबलः
ततस् तेनार्दिता बाला रावणं समुपागता
रावणानुचरो घोरो मारीचो नाम राक्षसः
लोभयाम् आस वैदेहीं भूत्वा रत्नमयो मृगः
सा रामम् अब्रवीद् दृष्ट्वा वैदेही गृह्यताम् इति
अहो मनोहरः कान्त आश्रमे नो भविष्यति
ततो रामो धनुष्पाणिर् धावन्तम् अनुधावति
स तं जघान धावन्तं शरेणानतपर्वणा
अथ सौम्या दशग्रीवो मृगं याते तु राघवे
लक्ष्मणे चापि निष्क्रान्ते प्रविवेशाश्रमं तदा
जग्राह तरसा सीतां ग्रहः खे रोहिणीम् इव
त्रातुकामं ततो युद्धे हत्वा गृध्रं जटायुषम्
प्रगृह्य सीतां सहसा जगामाशु स रावणः
ततस् त्व् अद्भुतसंकाशाः स्थिताः पर्वतमूर्धनि
सीतां गृहीत्वा गच्छन्तं वानराः पर्वतोपमाः
ददृशुर् विस्मितास् तत्र रावणं राक्षसाधिपम्
प्रविवेर्श तदा लङ्कां रावणो लोकरावणः
तां सुवर्णपरिक्रान्ते शुभे महति वेश्मनि
प्रवेश्य मैथिलीं वाक्यैः सान्त्वयाम् आस रावणः
निवर्तमानः काकुत्स्थो दृष्ट्वा गृध्रं प्रविव्यथे
गृध्रं हतं तदा दग्ध्वा रामः प्रियसखं पितुः
गोदावरीम् अनुचरन् वनोद्देशांश् च पुष्पितान्
आसेदतुर् महारण्ये कबन्धं नाम राक्षसं
ततः कबन्धवचनाद् रामः सत्यपराक्रमः
ऋश्यमूकं गिरिं गत्वा सुग्रीवेण समागतः
तयोः समागमः पूर्वं प्रीत्या हार्दो व्यजायत
इतरेतर संवादात् प्रगाढः प्रणयस् तयोः
रामः स्वबाहुवीर्येण स्वराज्यं प्रत्यपादयत्
वालिनं समरे हत्वा महाकायं महाबलम्
सुग्रीवः स्थापितो राज्ये सहितः सर्ववानरैः
रामाय प्रतिजानीते राजपुत्र्यास् तु मार्गणम्
आदिष्टा वानरेन्द्रेण सुग्रीवेण महात्मना
दशकोट्यः प्लवंगानां सर्वाः प्रस्थापिता दिशः
तेषां नो विप्रनष्टानां विन्ध्ये पर्वतसत्तमे
भृशं शोकाभितप्तानां महान् कालो ऽत्यवर्तत
भ्राता तु गृध्रराजस्य संपातिर् नाम वीर्यवान्
समाख्याति स्म वसतिं सीताया रावणालये
सो ऽहं दुःखपरीतानां दुःखं तज्ज्ञातिनां नुदन्
आत्मवीर्यं समास्थाय योजनानां शतं प्लुतः
तत्राहम् एकाम् अद्राक्षम् अशोकवनिकां गताम्
कौशेयवस्त्रां मलिनां निरानन्दां दृढव्रताम्
तया समेत्य विधिवत् पृष्ट्वा सर्वम् अनिन्दिताम्
अभिज्ञानं मणिं लब्ध्वा चरितार्थो ऽहम् आगतः
मया च पुनर् आगम्य रामस्याक्लिष्टकर्मणः
अभिज्ञानं मया दत्तम् अर्चिष्मान् स महामणिः
श्रुत्वा तां मैथिलीं हृष्टस् त्व् आशशंसे स जीवितम्
जीवितान्तम् अनुप्राप्तः पीत्वामृतम् इवातुरः
उद्योजयिष्यन्न् उद्योगं दध्रे लङ्कावधे मनः
जिघांसुर् इव लोकांस् ते सर्वांल् लोकान् विभावसुः
ततः समुद्रम् आसाद्य नलं सेतुम् अकारयत्
अतरत् कपिवीराणां वाहिनी तेन सेतुना
प्रहस्तम् अवधीन् नीलः कुम्भकर्णं तु राघवः
लक्ष्मणो रावणसुतं स्वयं रामस् तु रावणम्
स शक्रेण समागम्य यमेन वरुणेन च
सुरर्षिभिश् च काकुत्स्थो वरांल् लेभे परंतपः
स तु दत्तवरः प्रीत्या वानरैश् च समागतः
पुष्पकेण विमानेन किष्किन्धाम् अभ्युपागमत्
तं गङ्गां पुनर् आसाद्य वसन्तं मुनिसंनिधौ
अविघ्नं पुष्ययोगेन श्वो रामं द्रष्टुम् अर्हसि
ततः स सत्यं हनुमद्वचो महन् निशम्य हृष्टो भरतः कृताञ्जलिः
उवाच वाणीं मनसः प्रहर्षिणी चिरस्य पूर्णः खलु मे मनोरथः
मूल पाठ: Rāmāyaṇa · Edition: John Smith's Rāmāyaṇa-Page (last comparison: 2020-04-16) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0