रामायण · अध्याय 6.113
अयोध्यां तु समालोक्य चिन्तयाम् आस राघवः
चिन्तयित्वा ततो दृष्टिं वानरेषु न्यपातयत्
प्रियकामः प्रियं रामस् ततस् त्वरितविक्रमम्
उवाच धीमांस् तेजस्वी हनूमन्तं प्लवंगमम्
अयोध्यां त्वरितो गच्छ क्षिप्रं त्वं प्लवगोत्तम
जानीहि कच्चित् कुशली जनो नृपतिमन्दिरे
शृङ्गवेरपुरं प्राप्य गुहं गहनगोचरम्
निषादाधिपतिं ब्रूहि कुशलं वचनान् मम
श्रुत्वा तु मां कुशलिनम् अरोगं विगतज्वरम्
भविष्यति गुहः प्रीतः स ममात्मसमः सखा
अयोध्यायाश् च ते मार्गं प्रवृत्तिं भरतस्य च
निवेदयिष्यति प्रीतो निषादाधिपतिर् गुहः
भरतस् तु त्वया वाच्यः कुशलं वचनान् मम
सिद्धार्थं शंस मां तस्मै सभार्यं सहलक्ष्मणम्
हरणं चापि वैदेह्या रावणेन बलीयसा
सुग्रीवेण च संवादं वालिनश् च वधं रणे
मैथिल्यन्वेषणं चैव यथा चाधिगता त्वया
लङ्घयित्वा महातोयम् आपगापतिम् अव्ययम्
उपयानं समुद्रस्य सागरस्य च दर्शनम्
यथा च कारितः सेतू रावणश् च यथा हतः
वरदानं महेन्द्रेण ब्रह्मणा वरुणेन च
महादेवप्रसादाच् च पित्रा मम समागमम्
जित्वा शत्रुगणान् रामः प्राप्य चानुत्तमं यशः
उपयाति समृद्धार्थः सह मित्रैर् महाबलः
एतच् छ्रुत्वा यमाकारं भजते भरतस् ततः
स च ते वेदितव्यः स्यात् सर्वं यच् चापि मां प्रति
ज्ञेयाः सर्वे च वृत्तान्ता भरतस्येङ्गितानि च
तत्त्वेन मुखवर्णेन दृष्ट्या व्याभाषणेन च
सर्वकामसमृद्धं हि हस्त्यश्वरथसंकुलम्
पितृपैतामहं राज्यं कस्य नावर्तयेन् मनः
संगत्या भरतः श्रीमान् राज्येनार्थी स्वयं भवेत्
प्रशास्तु वसुधां सर्वाम् अखिलां रघुनन्दनः
तस्य बुद्धिं च विज्ञाय व्यवसायं च वानर
यावन् न दूरं याताः स्मः क्षिप्रम् आगन्तुम् अर्हसि
इति प्रतिसमादिष्टो हनूमान् मारुतात्मजः
मानुषं धारयन् रूपम् अयोध्यां त्वरितो ययौ
लङ्घयित्वा पितृपथं भुजगेन्द्रालयं शुभम्
गङ्गायमुनयोर् भीमं संनिपातम् अतीत्य च
शृङ्गवेरपुरं प्राप्य गुहम् आसाद्य वीर्यवान्
स वाचा शुभया हृष्टो हनूमान् इदम् अब्रवीत्
सखा तु तव काकुत्स्थो रामः सत्यपराक्रमः
ससीतः सह सौमित्रिः स त्वां कुशलम् अब्रवीत्
पञ्चमीम् अद्य रजनीम् उषित्वा वचनान् मुनेः
भरद्वाजाभ्यनुज्ञातं द्रक्ष्यस्य् अद्यैव राघवम्
एवम् उक्त्वा महातेजाः संप्रहृष्टतनूरुहः
उत्पपात महावेगो वेगवान् अविचारयन्
सो ऽपश्यद् रामतीर्थं च नदीं वालुकिनीं तथा
गोमतीं तां च सो ऽपश्यद् भीमं सालवनं तथा
स गत्वा दूरम् अध्वानं त्वरितः कपिकुञ्जरः
आससाद द्रुमान् फुल्लान् नन्दिग्रामसमीपजान्
क्रोशमात्रे त्व् अयोध्यायाश् चीरकृष्णाजिनाम्बरम्
ददर्श भरतं दीनं कृशम् आश्रमवासिनम्
जटिलं मलदिग्धाङ्गं भ्रातृव्यसनकर्शितम्
फलमूलाशिनं दान्तं तापसं धर्मचारिणम्
समुन्नतजटाभारं वल्कलाजिनवाससं
नियतं भावितात्मानं ब्रह्मर्षिसमतेजसं
पादुके ते पुरस्कृत्य शासन्तं वै वसुंधराम्
चतुर्वर्ण्यस्य लोकस्य त्रातारं सर्वतो भयात्
उपस्थितम् अमात्यैश् च शुचिभिश् च पुरोहितैः
बलमुख्यैश् च युक्तैश् च काषायाम्बरधारिभिः
न हि ते राजपुत्रं तं चीरकृष्णाजिनाम्बरम्
परिमोक्तुं व्यवस्यन्ति पौरा वै धर्मवत्सलाः
तं धर्मम् इव धर्मज्ञं देववन्तम् इवापरम्
उवाच प्राञ्जलिर् वाक्यं हनूमान् मारुतात्मजः
वसन्तं दण्डकारण्ये यं त्वं चीरजटाधरम्
अनुशोचसि काकुत्स्थं स त्वा कुशलम् अब्रवीत्
प्रियम् आख्यामि ते देव शोकं त्यक्ष्यसि दारुणम्
अस्मिन् मुहूर्ते भ्रात्रा त्वं रामेण सह संगतः
निहत्य रावणं रामः प्रतिलभ्य च मैथिलीम्
उपयाति समृद्धार्थः सह मित्रैर् महाबलैः
लक्ष्मणश् च महातेजा वैदेही च यशस्विनी
सीता समग्रा रामेण महेन्द्रेण शची यथा
एवम् उक्तो हनुमता भरतः कैकयीसुतः
पपात सहसा हृष्टो हर्षान् मोहं जगाम ह
ततो मुहूर्ताद् उत्थाय प्रत्याश्वस्य च राघवः
हनूमन्तम् उवाचेदं भरतः प्रियवादिनम्
अशोकजैः प्रीतिमयैः कपिम् आलिङ्ग्य संभ्रमात्
सिषेच भरतः श्रीमान् विपुलैर् अश्रुबिन्दुभिः
देवो वा मानुषो वा त्वम् अनुक्रोशाद् इहागतः
प्रियाख्यानस्य ते सौम्य ददामि ब्रुवतः प्रियम्
गवां शतसहस्रं च ग्रामाणां च शतं परम्
सकुण्डलाः शुभाचारा भार्याः कन्याश् च षोडश
हेमवर्णाः सुनासोरूः शशिसौम्याननाः स्त्रियः
सर्वाभरणसंपन्ना संपन्नाः कुलजातिभिः
निशम्य रामागमनं नृपात्मजः कपिप्रवीरस्य तदाद्भुतोपमम्
प्रहर्षितो रामदिदृक्षयाभवत् पुनश् च हर्षाद् इदम् अब्रवीद् वचः
मूल पाठ: Rāmāyaṇa · Edition: John Smith's Rāmāyaṇa-Page (last comparison: 2020-04-16) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0