भाषा

ENहिગુ
ग्रंथ पाठ

रामायण · अध्याय 6.112

6.112.001

पूर्णे चतुर्दशे वर्षे पञ्चभ्यां लक्ष्मणाग्रजः
भरद्वाजाश्रमं प्राप्य ववन्दे नियतो मुनिम्

6.112.002

सो ऽपृच्छद् अभिवाद्यैनं भरद्वाजं तपोधनम्
शृणोषि क चिद् भगवन् सुभिक्षानामयं पुरे
कच्चिच् च युक्तो भरतो जीवन्त्य् अपि च मातरः

6.112.003

एवम् उक्तस् तु रामेण भरद्वाजो महामुनिः
प्रत्युवाच रघुश्रेष्ठं स्मितपूर्वं प्रहृष्टवत्

6.112.004

पङ्कदिग्धस् तु भरतो जटिलस् त्वां प्रतीक्षते
पादुके ते पुरस्कृत्य सर्वं च कुशलं गृहे

6.112.005

त्वां पुरा चीरवसनं प्रविशन्तं महावनम्
स्त्रीतृतीयं च्युतं राज्याद् धर्मकामं च केवलम्

6.112.006

पदातिं त्यक्तसर्वस्वं पितुर् वचनकारिणम्
स्वर्गभोगैः परित्यक्तं स्वर्गच्युतम् इवामरम्

6.112.007

दृष्ट्वा तु करुणा पूर्वं ममासीत् समितिंजय
कैकेयीवचने युक्तं वन्यमूलफलाशनम्

6.112.008

साम्प्रतं सुसमृद्धार्थं समित्रगणबान्धवम्
समीक्ष्य विजितारिं त्वां मम प्रीतिर् अनुत्तमा

6.112.009

सर्वं च सुखदुःखं ते विदितं मम राघव
यत् त्वया विपुलं प्राप्तं जनस्थानवधादिकम्

6.112.010

ब्राह्मणार्थे नियुक्तस्य रक्षतः सर्वतापसान्
मारीचदर्शनं चैव सीतोन्मथनम् एव च

6.112.011

कबन्धदर्शनं चैव पम्पाभिगमनं तथा
सुग्रीवेण च ते सख्यं यच् च वाली हतस् त्वया

6.112.012

मार्गणं चैव वैदेह्याः कर्म वातात्मजस्य च
विदितायां च वैदेह्यां नलसेतुर् यथा कृतः
यथा च दीपिता लङ्का प्रहृष्टैर् हरियूथपैः

6.112.013

सपुत्रबान्धवामात्यः सबलः सह वाहनः
यथा च निहतः संख्ये रावणो देवकण्टकः

6.112.014

समागमश् च त्रिदशैर् यथादत्तश् च ते वरः
सर्वं ममैतद् विदितं तपसा धर्मवत्सल

6.112.015

अहम् अप्य् अत्र ते दद्मि वरं शस्त्रभृतां वर
अर्घ्यं प्रतिगृहाणेदम् अयोध्यां श्वो गमिष्यसि

6.112.016

तस्य तच् छिरसा वाक्यं प्रतिगृह्य नृपात्मजः
बाढम् इत्य् एव संहृष्टः श्रीमान् वरम् अयाचत

6.112.017

अकालफलिनो वृक्षाः सर्वे चापि मधुस्रवाः
भवन्तु मार्गे भगवन्न् अयोध्यां प्रति गच्छतः

6.112.018

निष्फलाः फलिनश् चासन् विपुष्पाः पुष्पशालिनः
शुष्काः समग्रपत्रास् ते नगाश् चैव मधुस्रवाः

मूल पाठ: Rāmāyaṇa · Edition: John Smith's Rāmāyaṇa-Page (last comparison: 2020-04-16) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc