भाषा

ENहिગુ
ग्रंथ पाठ

रामायण · अध्याय 6.111

6.111.001

अनुज्ञातं तु रामेण तद् विमानम् अनुत्तमम्
उत्पपात महामेघः श्वसनेनोद्धतो यथा

6.111.002

पातयित्वा ततश् चक्षुः सर्वतो रघुनन्दनः
अब्रवीन् मैथिलीं सीतां रामः शशिनिभाननाम्

6.111.003

कैलासशिखराकारे त्रिकूटशिखरे स्थिताम्
लङ्काम् ईक्षस्व वैदेहि निर्मितां विश्वकर्मणा

6.111.004

एतद् आयोधनं पश्य मांसशोणितकर्दमम्
हरीणां राक्षसानां च सीते विशसनं महत्

6.111.005

तवहेतोर् विशालाक्षि रावणो निहतो मया
कुम्भकर्णो ऽत्र निहतः प्रहस्तश् च निशाचरः

6.111.006

लक्ष्मणेनेन्द्रजिच् चात्र रावणिर् निहतो रणे
विरूपाक्षश् च दुष्प्रेक्ष्यो महापार्श्वमहोदरौ

6.111.007

अकम्पनश् च निहतो बलिनो ऽन्ये च राक्षसाः
त्रिशिराश् चातिकायश् च देवान्तकनरान्तकौ

6.111.008

अत्र मन्दोदरी नाम भार्या तं पर्यदेवयत्
सपत्नीनां सहस्रेण सास्रेण परिवारिता

6.111.009

एतत् तु दृश्यते तीर्थं समुद्रस्य वरानने
यत्र सागरम् उत्तीर्य तां रात्रिम् उषिता वयम्

6.111.010

एष सेतुर् मया बद्धः सागरे सलिलार्णवे
तवहेतोर् विशालाक्षि नलसेतुः सुदुष्करः

6.111.011

पश्य सागरम् अक्षोभ्यं वैदेहि वरुणालयम्
अपारम् अभिगर्जन्तं शङ्खशुक्तिनिषेवितम्

6.111.012

हिरण्यनाभं शैलेन्द्रं काञ्चनं पश्य मैथिलि
विश्रमार्थं हनुमतो भित्त्वा सागरम् उत्थितम्

6.111.013

अत्र राक्षसराजो ऽयम् आजगाम विभीषणः

6.111.014

एषा सा दृश्यते सीते किष्किन्धा चित्रकानना
सुग्रीवस्य पुरी रम्या यत्र वाली मया हतः

6.111.015

दृश्यते ऽसौ महान् सीते सविद्युद् इव तोयदः
ऋश्यमूको गिरिश्रेष्ठः काञ्चनैर् धातुभिर् वृतः

6.111.016

अत्राहं वानरेन्द्रेण सुग्रीवेण समागतः
समयश् च कृतः सीते वधार्थं वालिनो मया

6.111.017

एषा सा दृश्यते पम्पा नलिनी चित्रकानना
त्वया विहीनो यत्राहं विललाप सुदुःखितः

6.111.018

अस्यास् तीरे मया दृष्टा शबरी धर्मचारिणी
अत्र योजनबाहुश् च कबन्धो निहतो मया

6.111.019

दृश्यते ऽसौ जनस्थाने सीते श्रीमान् वनस्पतिः
यत्र युद्धं महद् वृत्तं तवहेतोर् विलासिनि
रावणस्य नृशंसस्य जटायोश् च महात्मनः

6.111.020

खरश् च निहतश् संख्ये दूषणश् च निपातितः
त्रिशिराश् च महावीर्यो मया बाणैर् अजिह्मगैः

6.111.021

पर्णशाला तथा चित्रा दृश्यते शुभदर्शना
यत्र त्वं राक्षसेन्द्रेण रावणेन हृता बलात्

6.111.022

एषा गोदावरी रम्या प्रसन्नसलिला शिवा
अगस्त्यस्याश्रमो ह्य् एष दृश्यते पश्य मैथिलि

6.111.023

वैदेहि दृश्यते चात्र शरभङ्गाश्रमो महान्
उपयातः सहस्राक्षो यत्र शक्रः पुरंदरः

6.111.024

एते ते तापसावासा दृश्यन्ते तनुमध्यमे
अत्रिः कुलपतिर् यत्र सूर्यवैश्वानरप्रभः
अत्र सीते त्वया दृष्टा तापसी धर्मचारिणी

6.111.025

अस्मिन् देशे महाकायो विराधो निहतो मया

6.111.026

असौ सुतनुशैलेन्द्रश् चित्रकूटः प्रकाशते
यत्र मां कैकयीपुत्रः प्रसादयितुम् आगतः

6.111.027

एषा सा यमुना दूराद् दृश्यते चित्रकानना
भरद्वाजाश्रमो यत्र श्रीमान् एष प्रकाशते

6.111.028

एषा त्रिपथगा गङ्गा दृश्यते वरवर्णिनि
शृङ्गवेरपुरं चैतद् गुहो यत्र समागतः

6.111.029

एषा सा दृश्यते ऽयोध्या राजधानी पितुर् मम
अयोध्यां कुरु वैदेहि प्रणामं पुनर् आगता

6.111.030

ततस् ते वानराः सर्वे राक्षसश् च विभीषणः
उत्पत्योत्पत्य ददृशुस् तां पुरीं शुभदर्शनाम्

6.111.031

ततस् तु तां पाण्डुरहर्म्यमालिनीं विशालकक्ष्यां गजवाजिसंकुलाम्
पुरीम् अयोध्यां ददृशुः प्लवंगमाः पुरीं महेन्द्रस्य यथामरावतीम्

मूल पाठ: Rāmāyaṇa · Edition: John Smith's Rāmāyaṇa-Page (last comparison: 2020-04-16) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc