भाषा

ENहिગુ
ग्रंथ पाठ

रामायण · अध्याय 6.110

6.110.001

उपस्थितं तु तं दृष्ट्वा पुष्पकं पुष्पभूषितम्
अविदूरे स्थितं रामं प्रत्युवाच विभीषणः

6.110.002

स तु बद्धाञ्जलिः प्रह्वो विनीतो राक्षसेश्वरः
अब्रवीत् त्वरयोपेतः किं करोमीति राघवम्

6.110.003

तम् अब्रवीन् महातेजा लक्ष्मणस्योपशृण्वतः
विमृश्य राघवो वाक्यम् इदं स्नेहपुरस्कृतम्

6.110.004

कृतप्रयत्नकर्माणो विभीषण वनौकसः
रत्नैर् अर्थैश् च विविभैर् भूषणैश् चाभिपूजय

6.110.005

सहैभिर् अर्दिता लङ्का निर्जिता राक्षसेश्वर
हृष्टैः प्राणभयं त्यक्त्वा संग्रामेष्व् अनिवर्तिभिः

6.110.006

एवं संमानिताश् चेमे मानार्हा मानद त्वया
भविष्यन्ति कृतज्ञेन निर्वृता हरियूथपाः

6.110.007

त्यागिनं संग्रहीतारं सानुक्रोशं यशस्विनम्
यतस् त्वाम् अवगच्छन्ति ततः संबोधयामि ते

6.110.008

एवम् उक्तस् तु रामेण वानरांस् तान् विभीषणः
रत्नार्थैः संविभागेन सर्वान् एवान्वपूजयत्

6.110.009

ततस् तान् पूजितान् दृष्ट्वा रत्नैर् अर्थैश् च यूथपान्
आरुरोह ततो रामस् तद् विमानम् अनुत्तमम्

6.110.010

अङ्केनादाय वैदेहीं लज्जमानां यशस्विनीम्
लक्ष्मणेन सह भ्रात्रा विक्रान्तेन धनुष्मता

6.110.011

अब्रवीच् च विमानस्थः काकुत्स्थः सर्ववानरान्
सुग्रीवं च महावीर्यं राक्षसं च विभीषणम्

6.110.012

मित्रकार्यं कृतम् इदं भवद्भिर् वानरोत्तमाः
अनुज्ञाता मया सर्वे यथेष्टं प्रतिगच्छत

6.110.013

यत् तु कार्यं वयस्येन सुहृदा वा परंतप
कृतं सुग्रीव तत् सर्वं भवता धर्मभीरुणा
किष्किन्धां प्रतियाह्य् आशु स्वसैन्येनाभिसंवृतः

6.110.014

स्वराज्ये वस लङ्कायां मया दत्ते विभीषण
न त्वां धर्षयितुं शक्ताः सेन्द्रा अपि दिवौकसः

6.110.015

अयोध्यां प्रतियास्यामि राजधानीं पितुर् मम
अभ्यनुज्ञातुम् इच्छामि सर्वान् आमन्त्रयामि वः

6.110.016

एवम् उक्तास् तु रामेण वानरास् ते महाबलाः
ऊचुः प्राञ्जलयो रामं राक्षसश् च विभीषणः
अयोध्यां गन्तुम् इच्छामः सर्वान् नयतु नो भवान्

6.110.017

दृष्ट्वा त्वाम् अभिषेकार्द्रं कौसल्याम् अभिवाद्य च
अचिरेणागमिष्यामः स्वान् गृहान् नृपतेः सुत

6.110.018

एवम् उक्तस् तु धर्मात्मा वानरैः सविभीषणैः
अब्रवीद् राघवः श्रीमान् ससुग्रीवविभीषणान्

6.110.019

प्रियात् प्रियतरं लब्धं यद् अहं ससुहृज्जनः
सर्वैर् भवद्भिः सहितः प्रीतिं लप्स्ये पुरीं गतः

6.110.020

क्षिप्रम् आरोह सुग्रीव विमानं वानरैः सह
त्वम् अध्यारोह सामात्यो राक्षसेन्द्रविभीषण

6.110.021

ततस् तत् पुष्पकं दिव्यं सुग्रीवः सह सेनया
अध्यारोहत् त्वरञ् शीघ्रं सामात्यश् च विभीषणः

6.110.022

तेष्व् आरूढेषु सर्वेषु कौबेरं परमासनम्
राघवेणाभ्यनुज्ञातम् उत्पपात विहायसं

6.110.023

ययौ तेन विमानेन हंसयुक्तेन भास्वता
प्रहृष्टश् च प्रतीतश् च बभौ रामः कुबेरवत्

मूल पाठ: Rāmāyaṇa · Edition: John Smith's Rāmāyaṇa-Page (last comparison: 2020-04-16) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc