रामायण · अध्याय 6.109
तां रात्रिम् उषितं रामं सुखोत्थितम् अरिंदमम्
अब्रवीत् प्राञ्जलिर् वाक्यं जयं पृष्ट्वा विभीषणः
स्नानानि चाङ्गरागाणि वस्त्राण्य् आभरणानि च
चन्दनानि च दिव्यानि माल्यानि विविधानि च
अलंकारविदश् चेमा नार्यः पद्मनिभेक्षणाः
उपस्थितास् त्वां विधिवत् स्नापयिष्यन्ति राघव
एवम् उक्तस् तु काकुत्स्थः प्रत्युवाच विभीषणम्
हरीन् सुग्रीवमुख्यांस् त्वं स्नानेनोपनिमन्त्रय
स तु ताम्यति धर्मात्मा ममहेतोः सुखोचितः
सुकुमारो महाबाहुः कुमारः सत्यसंश्रवः
तं विना कैकेयीपुत्रं भरतं धर्मचारिणम्
न मे स्नानं बहुमतं वस्त्राण्य् आभरणानि च
इत एव पथा क्षिप्रं प्रतिगच्छाम तां पुरीम्
अयोध्याम् आयतो ह्य् एष पन्थाः परमदुर्गमः
एवम् उक्तस् तु काकुत्स्थं प्रत्युवाच विभीषणः
अह्ना त्वां प्रापयिष्यामि तां पुरीं पार्थिवात्मज
पुष्पकं नाम भद्रं ते विमानं सूर्यसंनिभम्
मम भ्रातुः कुबेरस्य रावणेनाहृतं बलात्
तद् इदं मेघसंकाशं विमानम् इह तिष्ठति
तेन यास्यसि यानेन त्वम् अयोध्यां गजज्वरः
अहं ते यद्य् अनुग्राह्यो यदि स्मरसि मे गुणान्
वस तावद् इह प्राज्ञ यद्य् अस्ति मयि सौहृदम्
लक्ष्मणेन सह भ्रात्रा वैदेह्या चापि भार्यया
अर्चितः सर्वकामैस् त्वं ततो राम गमिष्यसि
प्रीतियुक्तस् तु मे राम ससैन्यः ससुहृद्गणः
सत्क्रियां विहितां तावद् गृहाण त्वं मयोद्यताम्
प्रणयाद् बहुमानाच् च सौहृदेन च राघव
प्रसादयामि प्रेष्यो ऽहं न खल्व् आज्ञापयामि ते
एवम् उक्तस् ततो रामः प्रत्युवाच विभीषणम्
रक्षसां वानराणां च सर्वेषां चोपशृण्वताम्
पूजितो ऽहं त्वया वीर साचिव्येन परंतप
सर्वात्मना च चेष्टिभिः सौहृदेनोत्तमेन च
न खल्व् एतन् न कुर्यां ते वचनं राक्षसेश्वर
तं तु मे भ्रातरं द्रष्टुं भरतं त्वरते मनः
मां निवर्तयितुं यो ऽसौ चित्रकूटम् उपागतः
शिरसा याचतो यस्य वचनं न कृतं मया
कौसल्यां च सुमित्रां च कैकेयीं च यशस्विनीम्
गुरूंश् च सुहृदश् चैव पौरांश् च तनयैः सह
उपस्थापय मे क्षिप्रं विमानं राक्षसेश्वर
कृतकार्यस्य मे वासः कथं चिद् इह संमतः
अनुजानीहि मां सौम्य पूजितो ऽस्मि विभीषण
मन्युर् न खलु कर्तव्यस् त्वरितस् त्वानुमानये
ततः काञ्चनचित्राङ्गं वैदूर्यमणिवेदिकम्
कूटागारैः परिक्षिप्तं सर्वतो रजतप्रभम्
पाण्डुराभिः पताकाभिर् ध्वजैश् च समलंकृतम्
शोभितं काञ्चनैर् हर्म्यैर् हेमपद्मविभूषितम्
प्रकीर्णं किङ्किणीजालैर् मुक्तामणिगवाक्षितम्
घण्टाजालैः परिक्षिप्तं सर्वतो मधुरस्वनम्
तन् मेरुशिखराकारं निर्मितं विश्वकर्मणा
बहुभिर् भूषितं हर्म्यैर् मुक्तारजतसंनिभौ
तलैः स्फटिकचित्राङ्गैर् वैदूर्यैश् च वरासनैः
महार्हास्तरणोपेतैर् उपपन्नं महाधनैः
उपस्थितम् अनाधृष्यं तद् विमानं मनोजवम्
निवेदयित्वा रामाय तस्थौ तत्र विभीषणः
मूल पाठ: Rāmāyaṇa · Edition: John Smith's Rāmāyaṇa-Page (last comparison: 2020-04-16) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0