भाषा

ENहिગુ
ग्रंथ पाठ

रामायण · अध्याय 6.108

6.108.001

प्रतिप्रयाते काकुत्स्थे महेन्द्रः पाकशासनः
अब्रवीत् परमप्रीतो राघवं प्राञ्जलिं स्थितम्

6.108.002

अमोघं दर्शनं राम तवास्माकं परंतप
प्रीतियुक्तो ऽस्मि तेन त्वं ब्रूहि यन् मनसेच्छसि

6.108.003

एवम् उक्तस् तु काकुत्स्थः प्रत्युवाच कृताञ्जलिः
लक्ष्मणेन सह भ्रात्रा सीतया चापि भार्यया

6.108.004

यदि प्रीतिः समुत्पन्ना मयि सर्वसुरेश्वर
वक्ष्यामि कुरु मे सत्यं वचनं वदतां वर

6.108.005

मम हेतोः पराक्रान्ता ये गता यमसादनम्
ते सर्वे जीवितं प्राप्य समुत्तिष्ठन्तु वानराः

6.108.006

मत्प्रियेष्व् अभिरक्ताश् च न मृत्युं गणयन्ति च
त्वत्प्रसादात् समेयुस् ते वरम् एतद् अहं वृणे

6.108.007

नीरुजान् निर्व्रणांश् चैव संपन्नबलपौरुषान्
गोलाङ्गूलांस् तथैवर्क्षान् द्रष्टुम् इच्छामि मानद

6.108.008

अकाले चापि मुख्यानि मूलानि च फलानि च
नद्यश् च विमलास् तत्र तिष्ठेयुर् यत्र वानराः

6.108.009

श्रुत्वा तु वचनं तस्य राघवस्य महात्मनः
महेन्द्रः प्रत्युवाचेदं वचनं प्रीतिलक्षणम्

6.108.010

महान् अयं वरस् तात त्वयोक्तो रघुनन्दन
समुत्थास्यन्ति हरयः सुप्ता निद्राक्षये यथा

6.108.011

सुहृद्भिर् बान्धवैश् चैव ज्ञातिभिः स्वजनेन च
सर्व एव समेष्यन्ति संयुक्ताः परया मुदा

6.108.012

अकाले पुष्पशबलाः फलवन्तश् च पादपाः
भविष्यन्ति महेष्वास नद्यश् च सलिलायुताः

6.108.013

सव्रणैः प्रथमं गात्रैः संवृतैर् निव्रणैः पुनः
बभूवुर् वानराः सर्वे किम् एतद् इति विस्मितः

6.108.014

काकुत्स्थं परिपूर्णार्थं दृष्ट्वा सर्वे सुरोत्तमाः
ऊचुस् ते प्रथमं स्तुत्वा स्तवार्हं सहलक्ष्मणम्

6.108.015

गच्छायोध्याम् इतो वीर विसर्जय च वानरान्
मैथिलीं सान्त्वयस्वैनाम् अनुरक्तां तपस्विनीम्

6.108.016

भ्रातरं पश्य भरतं त्वच्छोकाद् व्रतचारिणम्
अभिषेचय चात्मानं पौरान् गत्वा प्रहर्षय

6.108.017

एवम् उक्त्वा तम् आमन्त्र्य रामं सौमित्रिणा सह
विमानैः सूर्यसंकाशैर् हृष्टा जग्मुः सुरा दिवम्

6.108.018

अभिवाद्य च काकुत्स्थः सर्वांस् तांस् त्रिदशोत्तमान्
लक्ष्मणेन सह भ्रात्रा वासम् आज्ञापयत् तदा

6.108.019

ततस् तु सा लक्ष्मणरामपालिता महाचमूर् हृष्टजना यशस्विनी
श्रिया ज्वलन्ती विरराज सर्वतो निशाप्रणीतेव हि शीतरश्मिना

मूल पाठ: Rāmāyaṇa · Edition: John Smith's Rāmāyaṇa-Page (last comparison: 2020-04-16) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc