रामायण · अध्याय 6.107
एतच् छ्रुत्वा शुभं वाक्यं राघवेण सुभाषितम्
इदं शुभतरं वाक्यं व्याजहार महेश्वरः
पुष्कराक्ष महाबाहो महावक्षः परंतप
दिष्ट्या कृतम् इदं कर्म त्वया शस्त्रभृतां वर
दिष्ट्या सर्वस्य लोकस्य प्रवृद्धं दारुणं तमः
अपावृत्तं त्वया संख्ये राम रावणजं भयम्
आश्वास्य भरतं दीनं कौसल्यां च यशस्विनीम्
कैकेयीं च सुमित्रां च दृष्ट्वा लक्ष्मणमातरम्
प्राप्य राज्यम् अयोध्यायां नन्दयित्वा सुहृज्जनम्
इक्ष्वाकूणां कुले वंशं स्थापयित्वा महाबल
इष्ट्वा तुरगमेधेन प्राप्य चानुत्तमं यशः
ब्राह्मणेभ्यो धनं दत्त्वा त्रिदिवं गन्तुम् अर्हसि
एष राजा विमानस्थः पिता दशरथस् तव
काकुत्स्थ मानुषे लोके गुरुस् तव महायशाः
इन्द्रलोकं गतः श्रीमांस् त्वया पुत्रेण तारितः
लक्ष्मणेन सह भ्रात्रा त्वम् एनम् अभिवादय
महादेववचः श्रुत्वा काकुत्स्थः सहलक्ष्मणः
विमानशिखरस्थस्य प्रणामम् अकरोत् पितुः
दीप्यमानं स्वयां लक्ष्म्या विरजोऽम्बरधारिणम्
लक्ष्मणेन सह भ्रात्रा ददर्श पितरं प्रभुः
हर्षेण महताविष्टो विमानस्थो महीपतिः
प्राणैः प्रियतरं दृष्ट्वा पुत्रं दशरथस् तदा
आरोप्याङ्कं महाबाहुर् वरासनगतः प्रभुः
बाहुभ्यां संपरिष्वज्य ततो वाक्यं समाददे
न मे स्वर्गो बहुमतः संमानश् च सुरर्षिभिः
त्वया राम विहीनस्य सत्यं प्रतिशृणोमि ते
कैकेय्या यानि चोक्तानि वाक्यानि वदतां वर
तव प्रव्राजनार्थानि स्थितानि हृदये मम
त्वां तु दृष्ट्वा कुशलिनं परिष्वज्य सलक्ष्मणम्
अद्य दुःखाद् विमुक्तो ऽस्मि नीहाराद् इव भास्करः
तारितो ऽहं त्वया पुत्र सुपुत्रेण महात्मना
अष्टावक्रेण धर्मात्मा तारितो ब्राह्मणो यथा
इदानीं च विजानामि यथा सौम्य सुरेश्वरैः
वधार्थं रावणस्येह विहितं पुरुषोत्तमम्
सिद्धार्था खलु कौसल्या या त्वां राम गृहं गतम्
वनान् निवृत्तं संहृष्टा द्रक्ष्यते शत्रुसूदन
सिद्धार्थाः खलु ते राम नरा ये त्वां पुरीं गतम्
जलार्द्रम् अभिषिक्तं च द्रक्ष्यन्ति वसुधाधिपम्
अनुरक्तेन बलिना शुचिना धर्मचारिणा
इच्छेयं त्वाम् अहं द्रष्टुं भरतेन समागतम्
चतुर्दशसमाः सौम्य वने निर्यापितास् त्वया
वसता सीतया सार्धं लक्ष्मणेन च धीमता
निवृत्तवनवासो ऽसि प्रतिज्ञा सफला कृता
रावणं च रणे हत्वा देवास् ते परितोषिताः
कृतं कर्म यशः श्लाघ्यं प्राप्तं ते शत्रुसूदन
भ्रातृभिः सह राज्यस्थो दीर्घम् आयुर् अवाप्नुहि
इति ब्रुवाणं राजानं रामः प्राञ्जलिर् अब्रवीत्
कुरु प्रसादं धर्मज्ञ कैकेय्या भरतस्य च
सपुत्रां त्वां त्यजामीति यद् उक्ता कैकयी त्वया
स शापः कैकयीं घोरः सपुत्रां न स्पृशेत् प्रभो
स तथेति महाराजो रामम् उक्त्वा कृताञ्जलिम्
लक्ष्मणं च परिष्वज्य पुनर् वाक्यम् उवाच ह
रामं शुश्रूषता भक्त्या वैदेह्या सह सीतया
कृता मम महाप्रीतिः प्राप्तं धर्मफलं च ते
धर्मं प्राप्स्यसि धर्मज्ञ यशश् च विपुलं भुवि
रामे प्रसन्ने स्वर्गं च महिमानं तथैव च
रामं शुश्रूष भद्रं ते सुमित्रानन्दवर्धन
रामः सर्वस्य लोकस्य शुभेष्व् अभिरतः सदा
एते सेन्द्रास् त्रयो लोकाः सिद्धाश् च परमर्षयः
अभिगम्य महात्मानम् अर्चन्ति पुरुषोत्तमम्
एतत् तद् उक्तम् अव्यक्तम् अक्षरं ब्रह्मनिर्मितम्
देवानां हृदयं सौम्य गुह्यं रामः परंतपः
अवाप्तं धर्मचरणं यशश् च विपुलं त्वया
रामं शुश्रूषता भक्त्या वैदेह्या सह सीतया
स तथोक्त्वा महाबाहुर् लक्ष्मणं प्राञ्जलिं स्थितम्
उवाच राजा धर्मात्मा वैदेहीं वचनं शुभम्
कर्तव्यो न तु वैदेहि मन्युस् त्यागम् इमं प्रति
रामेण त्वद्विशुद्ध्यर्थं कृतम् एतद् धितैषिणा
न त्वं सुभ्रु समाधेया पतिशुश्रूवणं प्रति
अवश्यं तु मया वाच्यम् एष ते दैवतं परम्
इति प्रतिसमादिश्य पुत्रौ सीतां तथा स्नुषाम्
इन्द्रलोकं विमानेन ययौ दशरथो ज्वलन्
मूल पाठ: Rāmāyaṇa · Edition: John Smith's Rāmāyaṇa-Page (last comparison: 2020-04-16) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0