भाषा

ENहिગુ
ग्रंथ पाठ

रामायण · अध्याय 6.106

6.106.001

एतच् छ्रुत्वा शुभं वाक्यं पितामहसमीरितम्
अङ्केनादाय वैदेहीम् उत्पपात विभावसुः

6.106.002

तरुणादित्यसंकाशां तप्तकाञ्चनभूषणाम्
रक्ताम्बरधरां बालां नीलकुञ्चितमूर्धजाम्

6.106.003

अक्लिष्टमाल्याभरणां तथा रूपां मनस्विनीम्
ददौ रामाय वैदेहीम् अङ्के कृत्वा विभावसुः

6.106.004

अब्रवीच् च तदा रामं साक्षी लोकस्य पावकः
एषा ते राम वैदेही पापम् अस्या न विद्यते

6.106.005

नैव वाचा न मनसा नानुध्यानान् न चक्षुषा
सुवृत्ता वृत्तशौण्डीरा न त्वाम् अतिचचार ह

6.106.006

रावणेनापनीतैषा वीर्योत्सिक्तेन रक्षसा
त्वया विरहिता दीना विवशा निर्जनाद् वनात्

6.106.007

रुद्धा चान्तःपुरे गुप्ता त्वक्चित्ता त्वत्परायणा
रक्षिता राक्षसी संघैर् विकृतैर् घोरदर्शनैः

6.106.008

प्रलोभ्यमाना विविधं भर्त्स्यमाना च मैथिली
नाचिन्तयत तद् रक्षस् त्वद्गतेनान्तरात्मना

6.106.009

विशुद्धभावां निष्पापां प्रतिगृह्णीष्व राघव
न किं चिद् अभिधातव्यम् अहम् आज्ञापयामि ते

6.106.010

एवम् उक्तो महातेजा धृतिमान् दृढविक्रमः
अब्रवीत् त्रिदशश्रेष्ठं रामो धर्मभृतां वरः

6.106.011

अवश्यं त्रिषु लोकेषु सीता पावनम् अर्हति
दीर्घकालोषिता चेयं रावणान्तःपुरे शुभा

6.106.012

बालिशः खलु कामात्मा रामो दशरथात्मजः
इति वक्ष्यन्ति मां सन्तो जानकीम् अविशोध्य हि

6.106.013

अनन्यहृदयां भक्तां मच्चित्तपरिरक्षणीम्
अहम् अप्य् अवगच्छामि मैथिलीं जनकात्मजाम्

6.106.014

प्रत्ययार्थं तु लोकानां त्रयाणां सत्यसंश्रयः
उपेक्षे चापि वैदेहीं प्रविशन्तीं हुताशनम्

6.106.015

इमाम् अपि विशालाक्षीं रक्षितां स्वेन तेजसा
रावणो नातिवर्तेत वेलाम् इव महोदधिः

6.106.016

न हि शक्तः स दुष्टात्मा मनसापि हि मैथिलीम्
प्रधर्षयितुम् अप्राप्तां दीप्ताम् अग्निशिखाम् इव

6.106.017

नेयम् अर्हति चैश्वर्यं रावणान्तःपुरे शुभा
अनन्या हि मया सीतां भास्करेण प्रभा यथा

6.106.018

विशुद्धा त्रिषु लोकेषु मैथिली जनकात्मजा
न हि हातुम् इयं शक्या कीर्तिर् आत्मवता यथा

6.106.019

अवश्यं च मया कार्यं सर्वेषां वो वचो हितम्
स्निग्धानां लोकमान्यानाम् एवं च ब्रुवतां हितम्

6.106.020

इतीदम् उक्त्वा वचनं महाबलैः प्रशस्यमानः स्वकृतेन कर्मणा
समेत्य रामः प्रियया महाबलः सुखं सुखार्हो ऽनुबभूव राघवः

मूल पाठ: Rāmāyaṇa · Edition: John Smith's Rāmāyaṇa-Page (last comparison: 2020-04-16) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc