भाषा

ENहिગુ
ग्रंथ पाठ

रामायण · अध्याय 6.105

6.105.001

ततो वैश्रवणो राजा यमश् चामित्रकर्शनः
सहस्राक्षो महेन्द्रश् च वरुणश् च परंतपः

6.105.002

षडर्धनयनः श्रीमान् महादेवो वृषध्वजः
कर्ता सर्वस्य लोकस्य ब्रह्मा ब्रह्मविदां वरः

6.105.003

एते सर्वे समागम्य विमानैः सूर्यसंनिभैः
आगम्य नगरीं लङ्काम् अभिजग्मुश् च राघवम्

6.105.004

ततः सहस्ताभरणान् प्रगृह्य विपुलान् भुजान्
अब्रुवंस् त्रिदशश्रेष्ठाः प्राञ्जलिं राघवं स्थितम्

6.105.005

कर्ता सर्वस्य लोकस्य श्रेष्ठो ज्ञानवतां वरः
उपेक्षसे कथं सीतां पतन्तीं हव्यवाहने
कथं देवगणश्रेष्ठम् आत्मानं नावबुध्यसे

6.105.006

ऋतधामा वसुः पूर्वं वसूनां च प्रजापतिः
त्वं त्रयाणां हि लोकानाम् आदिकर्ता स्वयंप्रभुः

6.105.007

रुद्राणाम् अष्टमो रुद्रः साध्यानाम् अपि पञ्चमः
अश्विनौ चापि ते कर्णौ चन्द्रसूर्यौ च चक्षुषी

6.105.008

अन्ते चादौ च लोकानां दृश्यसे त्वं परंतप
उपेक्षसे च वैदेहीं मानुषः प्राकृतो यथा

6.105.009

इत्य् उक्तो लोकपालैस् तैः स्वामी लोकस्य राघवः
अब्रवीत् त्रिदशश्रेष्ठान् रामो धर्मभृतां वरः

6.105.010

आत्मानं मानुषं मन्ये रामं दशरथात्मजम्
यो ऽहं यस्य यतश् चाहं भगवांस् तद् ब्रवीतु मे

6.105.011

इति ब्रुवाणं काकुत्स्थं ब्रह्मा ब्रह्मविदां वरः
अब्रवीच् छृणु मे राम सत्यं सत्यपराक्रम

6.105.012

भवान् नारायणो देवः श्रीमांश् चक्रायुधो विभुः
एकशृङ्गो वराहस् त्वं भूतभव्यसपत्नजित्

6.105.013

अक्षरं ब्रह्मसत्यं च मध्ये चान्ते च राघव
लोकानां त्वं परो धर्मो विष्वक्सेनश् चतुर्भुजः

6.105.014

शार्ङ्गधन्वा हृषीकेशः पुरुषः पुरुषोत्तमः
अजितः खड्गधृग् विष्णुः कृष्णश् चैव बृहद्बलः

6.105.015

सेनानीर् ग्रामणीश् च त्वं बुद्धिः सत्त्वं क्षमा दमः
प्रभवश् चाप्ययश् च त्वम् उपेन्द्रो मधुसूदनः

6.105.016

इन्द्रकर्मा महेन्द्रस् त्वं पद्मनाभो रणान्तकृत्
शरण्यं शरणं च त्वाम् आहुर् दिव्या महर्षयः

6.105.017

सहस्रशृङ्गो वेदात्मा शतजिह्वो महर्षभः
त्वं यज्ञस् त्वं वषट्कारस् त्वम् ओंकारः परंतप

6.105.018

प्रभवं निधनं वा ते न विदुः को भवान् इति
दृश्यसे सर्वभूतेषु ब्राह्मणेषु च गोषु च

6.105.019

दिक्षु सर्वासु गगने पर्वतेषु वनेषु च
सहस्रचरणः श्रीमाञ् शतशीर्षः सहस्रधृक्

6.105.020

त्वं धारयसि भूतानि वसुधां च सपर्वताम्
अन्ते पृथिव्याः सलिले दृश्यसे त्वं महोरगः

6.105.021

त्रींल् लोकान् धारयन् राम देवगन्धर्वदानवान्
अहं ते हृदयं राम जिह्वा देवी सरस्वती

6.105.022

देवा गात्रेषु लोमानि निर्मिता ब्रह्मणा प्रभो
निमेषस् ते ऽभवद् रात्रिर् उन्मेषस् ते ऽभवद् दिवा

6.105.023

संस्कारास् ते ऽभवन् वेदा न तद् अस्ति त्वया विना
जगत् सर्वं शरीरं ते स्थैर्यं ते वसुधातलम्

6.105.024

अग्निः कोपः प्रसादस् ते सोमः श्रीवत्सलक्षण
त्वया लोकास् त्रयः क्रान्ताः पुराणे विक्रमैस् त्रिभिः

6.105.025

महेन्द्रश् च कृतो राजा बलिं बद्ध्वा महासुरम्
सीता लक्ष्मीर् भवान् विष्णुर् देवः कृष्णः प्रजापतिः

6.105.026

वधार्थं रावणस्येह प्रविष्टो मानुषीं तनुम्
तद् इदं नः कृतं कार्यं त्वया धर्मभृतां वर

6.105.027

निहतो रावणो राम प्रहृष्टो दिवम् आक्रम
अमोघं बलवीर्यं ते अमोघस् ते पराक्रमः

6.105.028

अमोघास् ते भविष्यन्ति भक्तिमन्तश् च ये नराः
ये त्वां देवं ध्रुवं भक्ताः पुराणं पुरुषोत्तमम्

6.105.029

ये नराः कीर्तयिष्यन्ति नास्ति तेषां पराभवः

मूल पाठ: Rāmāyaṇa · Edition: John Smith's Rāmāyaṇa-Page (last comparison: 2020-04-16) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc