भाषा

ENहिગુ
ग्रंथ पाठ

रामायण · अध्याय 6.104

6.104.001

एवम् उक्ता तु वैदेही परुषं लोमहर्षणम्
राघवेण सरोषेण भृशं प्रव्यथिताभवत्

6.104.002

सा तद् अश्रुतपूर्वं हि जने महति मैथिली
श्रुत्वा भर्तृवचो रूक्षं लज्जया व्रीडिताभवत्

6.104.003

प्रविशन्तीव गात्राणि स्वान्य् एव जनकात्मजा
वाक्शल्यैस् तैः सशल्येव भृशम् अश्रूण्य् अवर्तयत्

6.104.004

ततो बाष्पपरिक्लिष्टं प्रमार्जन्ती स्वम् आननम्
शनैर् गद्गदया वाचा भर्तारम् इदम् अब्रवीत्

6.104.005

किं माम् असदृशं वाक्यम् ईदृशं श्रोत्रदारुणम्
रूक्षं श्रावयसे वीर प्राकृतः प्राकृताम् इव

6.104.006

न तथास्मि महाबाहो यथा त्वम् अवगच्छसि
प्रत्ययं गच्छ मे स्वेन चारित्रेणैव ते शपे

6.104.007

पृथक् स्त्रीणां प्रचारेण जातिं त्वं परिशङ्कसे
परित्यजेमां शङ्कां तु यदि ते ऽहं परीक्षिता

6.104.008

यद्य् अहं गात्रसंस्पर्शं गतास्मि विवशा प्रभो
कामकारो न मे तत्र दैवं तत्रापराध्यति

6.104.009

मदधीनं तु यत् तन् मे हृदयं त्वयि वर्तते
पराधीनेषु गात्रेषु किं करिष्याम्य् अनीश्वरा

6.104.010

सहसंवृद्धभावाच् च संसर्गेण च मानद
यद्य् अहं ते न विज्ञाता हता तेनास्मि शाश्वतम्

6.104.011

प्रेषितस् ते यदा वीरो हनूमान् अवलोककः
लङ्कास्थाहं त्वया वीर किं तदा न विसर्जिता

6.104.012

प्रत्यक्षं वानरेन्द्रस्य त्वद्वाक्यसमनन्तरम्
त्वया संत्यक्तया वीर त्यक्तं स्याज् जीवितं मया

6.104.013

न वृथा ते श्रमो ऽयं स्यात् संशये न्यस्य जीवितम्
सुहृज्जनपरिक्लेशो न चायं निष्फलस् तव

6.104.014

त्वया तु नरशार्दूल क्रोधम् एवानुवर्तता
लघुनेव मनुष्येण स्त्रीत्वम् एव पुरस्कृतम्

6.104.015

अपदेशेन जनकान् नोत्पत्तिर् वसुधातलात्
मम वृत्तं च वृत्तज्ञ बहु ते न पुरस्कृतम्

6.104.016

न प्रमाणीकृतः पाणिर् बाल्ये बालेन पीडितः
मम भक्तिश् च शीलं च सर्वं ते पृष्ठतः कृतम्

6.104.017

एवं ब्रुवाणा रुदती बाष्पगद्गदभाषिणी
अब्रवील् लक्ष्मणं सीता दीनं ध्यानपरं स्थितम्

6.104.018

चितां मे कुरु सौमित्रे व्यसनस्यास्य भेषजम्
मिथ्यापवादोपहता नाहं जीवितुम् उत्सहे

6.104.019

अप्रीतस्य गुणैर् भर्तुस् त्यक्तया जनसंसदि
या क्षमा मे गतिर् गन्तुं प्रवेक्ष्ये हव्यवाहनम्

6.104.020

एवम् उक्तस् तु वैदेह्या लक्ष्मणः परवीरहा
अमर्षवशम् आपन्नो राघवाननम् ऐक्षत

6.104.021

स विज्ञाय मनश्छन्दं रामस्याकारसूचितम्
चितां चकार सौमित्रिर् मते रामस्य वीर्यवान्

6.104.022

अधोमुखं ततो रामं शनैः कृत्वा प्रदक्षिणम्
उपासर्पत वैदेही दीप्यमानं हुताशनम्

6.104.023

प्रणम्य देवताभ्यश् च ब्राह्मणेभ्यश् च मैथिली
बद्धाञ्जलिपुटा चेदम् उवाचाग्निसमीपतः

6.104.024

यथा मे हृदयं नित्यं नापसर्पति राघवात्
तथा लोकस्य साक्षी मां सर्वतः पातु पावकः

6.104.025

एवम् उक्त्वा तु वैदेही परिक्रम्य हुताशनम्
विवेश ज्वलनं दीप्तं निःसङ्गेनान्तरात्मना

6.104.026

जनः स सुमहांस् तत्र बालवृद्धसमाकुलः
ददर्श मैथिलीं तत्र प्रविशन्तीं हुताशनम्

6.104.027

तस्याम् अग्निं विशन्त्यां तु हाहेति विपुलः स्वनः
रक्षसां वानराणां च संबभूवाद्भुतोपमः

मूल पाठ: Rāmāyaṇa · Edition: John Smith's Rāmāyaṇa-Page (last comparison: 2020-04-16) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc