भाषा

ENहिગુ
ग्रंथ पाठ

रामायण · अध्याय 6.103

6.103.001

तां तु पार्श्वे स्थितां प्रह्वां रामः संप्रेक्ष्य मैथिलीम्
हृदयान्तर्गतक्रोधो व्याहर्तुम् उपचक्रमे

6.103.002

एषासि निर्जिता भद्रे शत्रुं जित्वा मया रणे
पौरुषाद् यद् अनुष्ठेयं तद् एतद् उपपादितम्

6.103.003

गतो ऽस्म्य् अन्तम् अमर्षस्य धर्षणा संप्रमार्जिता
अवमानश् च शत्रुश् च मया युगपद् उद्धृतौ

6.103.004

अद्य मे पौरुषं दृष्टम् अद्य मे सफलः श्रमः
अद्य तीर्णप्रतिज्ञत्वात् प्रभवामीह चात्मनः

6.103.005

या त्वं विरहिता नीता चलचित्तेन रक्षसा
दैवसंपादितो दोषो मानुषेण मया जितः

6.103.006

संप्राप्तम् अवमानं यस् तेजसा न प्रमार्जति
कस् तस्य पुरुषार्थो ऽस्ति पुरुषस्याल्पतेजसः

6.103.007

लङ्घनं च समुद्रस्य लङ्कायाश् चावमर्दनम्
सफलं तस्य तच् छ्लाघ्यम् अद्य कर्म हनूमतः

6.103.008

युद्धे विक्रमतश् चैव हितं मन्त्रयतश् च मे
सुग्रीवस्य ससैन्यस्य सफलो ऽद्य परिश्रमः

6.103.009

निर्गुणं भ्रातरं त्यक्त्वा यो मां स्वयम् उपस्थितः
विभीषणस्य भक्तस्य सफलो ऽद्य परिश्रमः

6.103.010

इत्य् एवं ब्रुवतस् तस्य सीता रामस्य तद् वचः
मृगीवोत्फुल्लनयना बभूवाश्रुपरिप्लुता

6.103.011

पश्यतस् तां तु रामस्य भूयः क्रोधो ऽभ्यवर्तत
प्रभूताज्यावसिक्तस्य पावकस्येव दीप्यतः

6.103.012

स बद्ध्वा भ्रुकुटिं वक्त्रे तिर्यक्प्रेक्षितलोचनः
अब्रवीत् परुषं सीतां मध्ये वानररक्षसाम्

6.103.013

यत् कर्तव्यं मनुष्येण धर्षणां परिमार्जता
तत् कृतं सकलं सीते शत्रुहस्ताद् अमर्षणात्

6.103.014

निर्जिता जीवलोकस्य तपसा भावितात्मना
अगस्त्येन दुराधर्षा मुनिना दक्षिणेव दिक्

6.103.015

विदितश् चास्तु भद्रं ते यो ऽयं रणपरिश्रमः
स तीर्णः सुहृदां वीर्यान् न त्वदर्थं मया कृतः

6.103.016

रक्षता तु मया वृत्तम् अपवादं च सर्वशः
प्रख्यातस्यात्मवंशस्य न्यङ्गं च परिमार्जता

6.103.017

प्राप्तचारित्रसंदेहा मम प्रतिमुखे स्थिता
दीपो नेत्रातुरस्येव प्रतिकूलासि मे दृढम्

6.103.018

तद् गच्छ ह्य् अभ्यनुज्ञाता यतेष्टं जनकात्मजे
एता दश दिशो भद्रे कार्यम् अस्ति न मे त्वया

6.103.019

कः पुमान् हि कुले जातः स्त्रियं परगृहोषिताम्
तेजस्वि पुनर् आदद्यात् सुहृल्लेखेन चेतसा

6.103.020

रावणाङ्कपरिभ्रष्टां दृष्टां दुष्टेन चक्षुषा
कथं त्वां पुनरादद्यां कुलं व्यपदिशन् महत्

6.103.021

तदर्थं निर्जिता मे त्वं यशः प्रत्याहृतं मया
नास्ति मे त्वय्य् अभिष्वङ्गो यथेष्टं गम्यताम् इतः

6.103.022

इति प्रव्याहृतं भद्रे मयैतत् कृतबुद्धिना
लक्ष्मणे भरते वा त्वं कुरु बुद्धिं यथासुखम्

6.103.023

सुग्रीवे वानरेन्द्रे वा राक्षसेन्द्रे विभीषणे
निवेशय मनः सीते यथा वा सुखम् आत्मनः

6.103.024

न हि त्वां रावणो दृष्ट्वा दिव्यरूपां मनोरमाम्
मर्षयते चिरं सीते स्वगृहे परिवर्तिनीम्

6.103.025

ततः प्रियार्हश्वरणा तद् अप्रियं प्रियाद् उपश्रुत्य चिरस्य मैथिली
मुमोच बाष्पं सुभृशं प्रवेपिता गजेन्द्रहस्ताभिहतेव वल्लरी

मूल पाठ: Rāmāyaṇa · Edition: John Smith's Rāmāyaṇa-Page (last comparison: 2020-04-16) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc