रामायण · अध्याय 6.102
स उवाच महाप्रज्ञम् अभिगम्य प्लवंगमः
रामं वचनम् अर्थज्ञो वरं सर्वधनुष्मताम्
यन्निमित्तो ऽयम् आरम्भः कर्मणां च फलोदयः
तां देवीं शोकसंतप्तां मैथिलीं द्रष्टुम् अर्हसि
सा हि शोकसमाविष्टा बाष्पपर्याकुलेक्षणा
मैथिली विजयं श्रुत्वा तव हर्षम् उपागमत्
पूर्वकात् प्रत्ययाच् चाहम् उक्तो विश्वस्तया तया
भर्तारं द्रष्टुम् इच्छामि कृतार्थं सहलक्ष्मणम्
एवम् उक्तो हनुमता रामो धर्मभृतां वरः
अगच्छत् सहसा ध्यानम् आसीद् बाष्पपरिप्लुतः
दीर्घम् उष्णं च निश्वस्य मेदिनीम् अवलोकयन्
उवाच मेघसंकाशं विभीषणम् उपस्थितम्
दिव्याङ्गरागां वैदेहीं दिव्याभरणभूषिताम्
इह सीतां शिरःस्नाताम् उपस्थापय माचिरम्
एवम् उक्तस् तु रामेण त्वरमाणो विभीषणः
प्रविश्यान्तःपुरं सीतां स्त्रीभिः स्वाभिर् अचोदयत्
दिव्याङ्गरागा वैदेही दिव्याभरणभूषिता
यानम् आरोह भद्रं ते भर्ता त्वां द्रष्टुम् इच्छति
एवम् उक्ता तु वैदेही प्रत्युवाच विभीषणम्
अस्नाता द्रष्टुम् इच्छामि भर्तारं राक्षसाधिप
तस्यास् तद् वचनं श्रुत्वा प्रत्युवाच विभीषणः
यथाह रामो भर्ता ते तत् तथा कर्तुम् अर्हसि
तस्य तद् वचनं श्रुत्वा मैथिली भर्तृदेवता
भर्तृभक्तिव्रता साध्वी तथेति प्रत्यभाषत
ततः सीतां शिरःस्नातां युवतीभिर् अलंकृताम्
महार्हाभरणोपेतां महार्हाम्बरधारिणीम्
आरोप्य शिबिकां दीप्तां परार्ध्याम्बरसंवृताम्
रक्षोभिर् बहुभिर् गुप्ताम् आजहार विभीषणः
सो ऽभिगम्य महात्मानं ज्ञात्वाभिध्यानम् आस्थितम्
प्रणतश् च प्रहृष्टश् च प्राप्तां सीतां न्यवेदयत्
ताम् आगताम् उपश्रुत्य रक्षोगृहचिरोषिताम्
हर्षो दैन्यं च रोषश् च त्रयं राघवम् आविशत्
ततः पार्श्वगतं दृष्ट्वा सविमर्शं विचारयन्
विभीषणम् इदं वाक्यम् अहृष्टो राघवो ऽब्रवीत्
राक्षसाधिपते सौम्य नित्यं मद्विजये रत
वैदेही संनिकर्षं मे शीघ्रं समुपगच्छतु
स तद् वचनम् आज्ञाय राघवस्य विभीषणः
तूर्णम् उत्सारणे यत्नं कारयाम् आस सर्वतः
कञ्चुकोष्णीषिणस् तत्र वेत्रझर्झरपाणयः
उत्सारयन्तः पुरुषाः समन्तात् परिचक्रमुः
ऋक्षाणां वानराणां च राक्षसानां च सर्वतः
वृन्दान्य् उत्सार्यमाणानि दूरम् उत्ससृजुस् ततः
तेषाम् उत्सार्यमाणानां सर्वेषां ध्वनिर् उत्थितः
वायुनोद्वर्तमानस्य सागरस्येव निस्वनः
उत्सार्यमाणांस् तान् दृष्ट्वा समन्ताज् जातसंभ्रमान्
दाक्षिण्यात् तदमर्षाच् च वारयाम् आस राघवः
संरब्धश् चाब्रवीद् रामश् चक्षुषा प्रदहन्न् इव
विभीषणं महाप्राज्ञं सोपालम्भम् इदं वचः
किमर्थं माम् अनादृत्य कृश्यते ऽयं त्वया जनः
निवर्तयैनम् उद्योगं जनो ऽयं स्वजनो मम
न गृहाणि न वस्त्राणि न प्राकारास् तिरस्क्रियाः
नेदृशा राजसत्कारा वृत्तम् आवरणं स्त्रियः
व्यसनेषु न कृच्छ्रेषु न युद्धे न स्वयंवरे
न क्रतौ नो विवाहे च दर्शनं दुष्यते स्त्रियः
सैषा युद्धगता चैव कृच्छ्रे महति च स्थिता
दर्शने ऽस्या न दोषः स्यान् मत्समीपे विशेषतः
तद् आनय समीपं मे शीघ्रम् एनां विभीषण
सीता पश्यतु माम् एषा सुहृद्गणवृतं स्थितम्
एवम् उक्तस् तु रामेण सविमर्शो विभीषणः
रामस्योपानयत् सीतां संनिकर्षं विनीतवत्
ततो लक्ष्मणसुग्रीवौ हनूमांश् च प्लवंगमः
निशम्य वाक्यं रामस्य बभूवुर् व्यथिता भृशम्
कलत्रनिरपेक्षैश् च इङ्गितैर् अस्य दारुणैः
अप्रीतम् इव सीतायां तर्कयन्ति स्म राघवम्
लज्जया त्व् अवलीयन्ती स्वेषु गात्रेषु मैथिली
विभीषणेनानुगता भर्तारं साभ्यवर्तत
सा वस्त्रसंरुद्धमुखी लज्जया जनसंसदि
रुरोदासाद्य भर्तारम् आर्यपुत्रेति भाषिणी
विस्मयाच् च प्रहर्षाच् च स्नेहाच् च परिदेवता
उदैक्षत मुखं भर्तुः सौम्यं सौम्यतरानना
अथ समपनुदन् मनःक्लमं सा सुचिरम् अदृष्टम् उदीक्ष्य वै प्रियस्य
वदनम् उदितपूर्णचन्द्रकान्तं विमलशशाङ्कनिभानना तदासीत्
मूल पाठ: Rāmāyaṇa · Edition: John Smith's Rāmāyaṇa-Page (last comparison: 2020-04-16) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0