रामायण · अध्याय 6.101
इति प्रतिसमादिष्टो हनूमान् मारुतात्मजः
प्रविवेश पुरीं लङ्कां पूज्यमानो निशाचरैः
प्रविश्य तु महातेजा रावणस्य निवेशनम्
ददर्श शशिना हीनां सातङ्काम् इव रोहिणीम्
निभृतः प्रणतः प्रह्वः सो ऽभिगम्याभिवाद्य च
रामस्य वचनं सर्वम् आख्यातुम् उपचक्रमे
वैदेहि कुशली रामः ससुग्रीवः सलक्ष्मणः
कुशलं चाह सिद्धार्थो हतशत्रुर् अरिंदमः
विभीषणसहायेन रामेण हरिभिः सह
निहतो रावणो देवि लक्ष्मणस्य नयेन च
पृष्ट्वा च कुशलं रामो वीरस् त्वां रघुनन्दनः
अब्रवीत् परमप्रीतः कृतार्थेनान्तरात्मना
प्रियम् आख्यामि ते देवि त्वां तु भूयः सभाजये
दिष्ट्या जीवसि धर्मज्ञे जयेन मम संयुगे
लब्धो नो विजयः सीते स्वस्था भव गतव्यथा
रावणः स हतः शत्रुर् लङ्का चेयं वशे स्थिता
मया ह्य् अलब्धनिद्रेण धृतेन तव निर्जये
प्रतिज्ञैषा विनिस्तीर्णा बद्ध्वा सेतुं महोदधौ
संभ्रमश् च न कर्तव्यो वर्तन्त्या रावणालये
विभीषणविधेयं हि लङ्कैश्वर्यम् इदं कृतम्
तद् आश्वसिहि विश्वस्ता स्वगृहे परिवर्तसे
अयं चाभ्येति संहृष्टस् त्वद्दर्शनसमुत्सुकः
एवम् उक्ता समुत्पत्य सीता शशिनिभानना
प्रहर्षेणावरुद्धा सा व्याजहार न किं चन
अब्रवीच् च हरिश्रेष्ठः सीताम् अप्रतिजल्पतीम्
किं त्वं चिन्तयसे देवि किं च मां नाभिभाषसे
एवम् उक्ता हनुमता सीता धर्मे व्यवस्थिता
अब्रवीत् परमप्रीता हर्षगद्गदया गिरा
प्रियम् एतद् उपश्रुत्य भर्तुर् विजयसंश्रितम्
प्रहर्षवशम् आपन्ना निर्वाक्यास्मि क्षणान्तरम्
न हि पश्यामि सदृशं चिन्तयन्ती प्लवंगम
मत्प्रियाख्यानकस्येह तव प्रत्यभिनन्दनम्
न च पश्यामि तत् सौम्य पृथिव्याम् अपि वानर
सदृशं मत्प्रियाख्याने तव दातुं भवेत् समम्
हिरण्यं वा सुवर्णं वा रत्नानि विविधानि च
राज्यं वा त्रिषु लोकेषु नैतद् अर्हति भाषितुम्
एवम् उक्तस् तु वैदेह्या प्रत्युवाच प्लवंगमः
प्रगृहीताञ्जलिर् वाक्यं सीतायाः प्रमुखे स्थितः
भर्तुः प्रियहिते युक्ते भर्तुर् विजयकाङ्क्षिणि
स्निग्धम् एवंविधं वाक्यं त्वम् एवार्हसि भाषितुम्
तवैतद् वचनं सौम्ये सारवत् स्निग्धम् एव च
रत्नौघाद् विविधाच् चापि देवराज्याद् विशिष्यते
अर्थतश् च मया प्राप्ता देवराज्यादयो गुणाः
हतशत्रुं विजयिनं रामं पश्यामि यत् स्थितम्
इमास् तु खलु राक्षस्यो यदि त्वम् अनुमन्यसे
हन्तुम् इच्छाम्य् अहं सर्वा याभिस् त्वं तर्जिता पुरा
क्लिश्यन्तीं पतिदेवां त्वाम् अशोकवनिकां गताम्
घोररूपसमाचाराः क्रूराः क्रूरतरेक्षणाः
राक्षस्यो दारुणकथा वरम् एतं प्रयच्छ मे
इच्छामि विविधैर् घातैर् हन्तुम् एताः सुदारुणाः
मुष्टिभिः पाणिभिश् चैव चरणैश् चैव शोभने
घोरैर् जानुप्रहारैश् च दशनानां च पातनैः
भक्षणैः कर्णनासानां केशानां लुञ्चनैस् तथा
भृशं शुष्कमुखीभिश् च दारुणैर् लङ्घनैर् हतैः
एवंप्रकारैर् बहुभिर् विप्रकारैर् यशस्विनि
हन्तुम् इच्छाम्य् अहं देवि तवेमाः कृतकिल्बिषाः
एवम् उक्ता महुमता वैदेही जनकात्मजा
उवाच धर्मसहितं हनूमन्तं यशस्विनी
राजसंश्रयवश्यानां कुर्वतीनां पराज्ञया
विधेयानां च दासीनां कः कुप्येद् वानरोत्तम
भाग्यवैषम्ययोगेन पुरा दुश्चरितेन च
मयैतत् प्राप्यते सर्वं स्वकृतं ह्य् उपभुज्यते
प्राप्तव्यं तु दशायोगान् मयैतद् इति निश्चितम्
दासीनां रावणस्याहं मर्षयामीह दुर्बला
आज्ञप्ता रावणेनैता राक्षस्यो माम् अतर्जयन्
हते तस्मिन् न कुर्युर् हि तर्जनं वानरोत्तम
अयं व्याघ्रसमीपे तु पुराणो धर्मसंहितः
ऋक्षेण गीतः श्लोको मे तं निबोध प्लवंगम
न परः पापम् आदत्ते परेषां पापकर्मणाम्
समयो रक्षितव्यस् तु सन्तश् चारित्रभूषणाः
पापानां वा शुभानां वा वधार्हाणां प्लवंगम
कार्यं कारुण्यम् आर्येण न कश् चिन् नापराध्यति
लोकहिंसाविहाराणां रक्षसां कामरूपिणम्
कुर्वताम् अपि पापानि नैव कार्यम् अशोभनम्
एवम् उक्तस् तु हनुमान् सीतया वाक्यकोविदः
प्रत्युवाच ततः सीतां रामपत्नीं यशस्विनीम्
युक्ता रामस्य भवती धर्मपत्नी यशस्विनी
प्रतिसंदिश मां देवि गमिष्ये यत्र राघवः
एवम् उक्ता हनुमता वैदेही जनकात्मजा
अब्रवीद् द्रष्टुम् इच्छामि भर्तारं वानरोत्तम
तस्यास् तद् वचनं श्रुत्वा हनुमान् पवनात्मजः
हर्षयन् मैथिलीं वाक्यम् उवाचेदं महाद्युतिः
पूर्णचन्द्राननं रामं द्रक्ष्यस्य् आर्ये सलक्ष्मणम्
स्थिरमित्रं हतामित्रं शचीव त्रिदशेश्वरम्
ताम् एवम् उक्त्वा राजन्तीं सीतां साक्षाद् इव श्रियम्
आजगाम महावेगो हनूमान् यत्र राघवः
मूल पाठ: Rāmāyaṇa · Edition: John Smith's Rāmāyaṇa-Page (last comparison: 2020-04-16) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0