रामायण · अध्याय 6.100
ते रावणवधं दृष्ट्वा देवगन्धर्वदानवाः
जग्मुस् तैस् तैर् विमानैः स्वैः कथयन्तः शुभाः कथाः
रावणस्य वधं घोरं राघवस्य पराक्रमम्
सुयुद्धं वानराणां च सुग्रीवस्य च मन्त्रितम्
अनुरागं च वीर्यं च सौमित्रेर् लक्ष्मणस्य च
कथयन्तो महाभागा जग्मुर् हृष्टा यथागतम्
राघवस् तु रथं दिव्यम् इन्द्रदत्तं शिखिप्रभम्
अनुज्ञाय महाभागो मातलिं प्रत्यपूजयत्
राघवेणाभ्यनुज्ञातो मातलिः शक्रसारथिः
दिव्यं तं रथम् आस्थाय दिवम् एवारुरोह सः
तस्मिंस् तु दिवम् आरूढे सुरसारथिसत्तमे
राघवः परमप्रीतः सुग्रीवं परिषस्वजे
परिष्वज्य च सुग्रीवं लक्ष्मणेनाभिवादितः
पूज्यमानो हरिश्रेष्ठैर् आजगाम बलालयम्
अब्रवीच् च तदा रामः समीपपरिवर्तिनम्
सौमित्रिं सत्त्वसंपन्नं लक्ष्मणं दीप्ततेजसं
विभीषणम् इमं सौम्य लङ्कायाम् अभिषेचय
अनुरक्तं च भक्तं च मम चैवोपकारिणम्
एष मे परमः कामो यद् इमं रावणानुजम्
लङ्कायां सौम्य पश्येयम् अभिषिक्तं विभीषणम्
एवम् उक्तस् तु सौमित्री राघवेण महात्मना
तथेत्य् उक्त्वा तु संहृष्टः सौवर्णं घटम् आददे
घटेन तेन सौमित्रिर् अभ्यषिञ्चद् विभीषणम्
लङ्कायां रक्षसां मध्ये राजानं रामशासनात्
अभ्यषिञ्चत् स धर्मात्मा शुद्धात्मानं विभीषणम्
तस्यामात्या जहृषिरे भक्ता ये चास्य राक्षसाः
दृष्ट्वाभिषिक्तं लङ्कायां राक्षसेन्द्रं विभीषणम्
राघवः परमां प्रीतिं जगाम सहलक्ष्मणः
स तद् राज्यं महत् प्राप्य रामदत्तं विभीषणः
प्रकृतीः सान्त्वयित्वा च ततो रामम् उपागमत्
अक्षतान् मोदकांल् लाजान् दिव्याः सुमनसस् तथा
आजह्रुर् अथ संहृष्टाः पौरास् तस्मै निशाचराः
स तान् गृहीत्वा दुर्धर्षो राघवाय न्यवेदयत्
मङ्गल्यं मङ्गलं सर्वं लक्ष्मणाय च वीर्यवान्
कृतकार्यं समृद्धार्थं दृष्ट्वा रामो विभीषणम्
प्रतिजग्राह तत् सर्वं तस्यैव प्रियकाम्यया
ततः शैलोपमं वीरं प्राञ्जलिं पार्श्वतः स्थितम्
अब्रवीद् राघवो वाक्यं हनूमन्तं प्लवंगमम्
अनुमान्य महाराजम् इमं सौम्य विभीषणम्
प्रविश्य रावणगृहं विनयेनोपसृत्य च
वैदेह्या मां कुशलिनं ससुग्रीवं सलक्ष्मणम्
आचक्ष्व जयतां श्रेष्ठ रावणं च मया हतम्
प्रियम् एतद् उदाहृत्य मैथिल्यास् त्वं हरीश्वर
प्रतिगृह्य च संदेशम् उपावर्तितुम् अर्हसि
मूल पाठ: Rāmāyaṇa · Edition: John Smith's Rāmāyaṇa-Page (last comparison: 2020-04-16) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0