भाषा

ENहिગુ
ग्रंथ पाठ

रामायण · अध्याय 6.099

6.099.001

तासां विलपमानानां तथा राक्षसयोषिताम्
ज्येष्ठा पत्नी प्रिया दीना भर्तारं समुदैक्षत

6.099.002

दशग्रीवं हतं दृष्ट्वा रामेणाचिन्त्यकर्मणा
पतिं मन्दोदरी तत्र कृपणा पर्यदेवयत्

6.099.003

ननु नाम महाबाहो तव वैश्रवणानुज
क्रुद्धस्य प्रमुखे स्थातुं त्रस्यत्य् अपि पुरंदरः

6.099.004

ऋषयश् च महीदेवा गन्धर्वाश् च यशस्विनः
ननु नाम तवोद्वेगाच् चारणाश् च दिशो गताः

6.099.005

स त्वं मानुषमात्रेण रामेण युधि निर्जितः
न व्यपत्रपसे राजन् किम् इदं राक्षसर्षभ

6.099.006

कथं त्रैलोक्यम् आक्रम्य श्रिया वीर्येण चान्वितम्
अविषह्यं जघान त्वां मानुषो वनगोचरः

6.099.007

मानुषाणाम् अविषये चरतः कामरूपिणः
विनाशस् तव रामेण संयुगे नोपपद्यते

6.099.008

न चैतत् कर्म रामस्य श्रद्दधामि चमूमुखे
सर्वतः समुपेतस्य तव तेनाभिमर्शनम्

6.099.009

इन्द्रियाणि पुरा जित्वा जितं त्रिभुवणं त्वया
स्मरद्भिर् इव तद् वैरम् इन्द्रियैर् एव निर्जितः

6.099.010

अथ वा रामरूपेण वासवः स्वयम् आगतः
मायां तव विनाशाय विधायाप्रतितर्किताम्

6.099.011

यदैव हि जनस्थाने राक्षसैर् बहुभिर् वृतः
खरस् तव हतो भ्राता तदैवासौ न मानुषः

6.099.012

यदैव नगरीं लङ्कां दुष्प्रवेषां सुरैर् अपि
प्रविष्टो हनुमान् वीर्यात् तदैव व्यथिता वयम्

6.099.013

क्रियताम् अविरोधश् च राघवेणेति यन् मया
उच्यमानो न गृह्णासि तस्येयं व्युष्टिर् आगता

6.099.014

अकस्माच् चाभिकामो ऽसि सीतां राक्षसपुंगव
ऐश्वर्यस्य विनाशाय देहस्य स्वजनस्य च

6.099.015

अरुन्धत्या विशिष्टां तां रोहिण्याश् चापि दुर्मते
सीतां धर्षयता मान्यां त्वया ह्य् असदृशं कृतम्

6.099.016

न कुलेन न रूपेण न दाक्षिण्येन मैथिली
मयाधिका वा तुल्या वा त्वं तु मोहान् न बुध्यसे

6.099.017

सर्वथा सर्वभूतानां नास्ति मृत्युर् अलक्षणः
तव तावद् अयं मृत्युर् मैथिलीकृतलक्षणः

6.099.018

मैथिली सह रामेण विशोका विहरिष्यति
अल्पपुण्या त्व् अहं घोरे पतिता शोकसागरे

6.099.019

कैलासे मन्दरे मेरौ तथा चैत्ररथे वने
देवोद्यानेषु सर्वेषु विहृत्य सहिता त्वया

6.099.020

विमानेनानुरूपेण या याम्य् अतुलया श्रिया
पश्यन्ती विविधान् देशांस् तांस् तांश् चित्रस्रगम्बरा
भ्रंशिता कामभोगेभ्यः सास्मि वीरवधात् तव

6.099.021

सत्यवाक् स महाभागो देवरो मे यद् अब्रवीत्
अयं राक्षसमुख्यानां विनाशः पर्युपस्थितः

6.099.022

कामक्रोधसमुत्थेन व्यसनेन प्रसङ्गिना
त्वया कृतम् इदं सर्वम् अनाथं रक्षसां कुलम्

6.099.023

न हि त्वं शोचितव्यो मे प्रख्यातबलपौरुषः
स्त्रीस्वभावात् तु मे बुद्धिः कारुण्ये परिवर्तते

6.099.024

सुकृतं दुष्कृतं च त्वं गृहीत्वा स्वां गतिं गतः
आत्मानम् अनुशोचामि त्वद्वियोगेन दुःखिताम्

6.099.025

नीलजीमूतसंकाशः पीताम्बरशुभाङ्गदः
सर्वगात्राणि विक्षिप्य किं शेषे रुधिराप्लुतः
प्रसुप्त इव शोकार्तां किं मां न प्रतिभाषसे

6.099.026

महावीर्यस्य दक्षस्य संयुगेष्व् अपलायिनः
यातुधानस्य दौहित्रीं किं त्वं मां नाभ्युदीक्षसे

6.099.027

येन सूदयसे शत्रून् समरे सूर्यवर्चसा
वज्रो वज्रधरस्येव सो ऽयं ते सततार्चितः

6.099.028

रणे शत्रुप्रहरणो हेमजालपरिष्कृतः
परिघो व्यवकीर्णस् ते बाणैश् छिन्नः सहस्रधा

6.099.029

धिग् अस्तु हृदयं यस्या ममेदं न सहस्रधा
त्वयि पञ्चत्वम् आपन्ने फलते शोकपीडितम्

6.099.030

एतस्मिन्न् अन्तरे रामो विभीषणम् उवाच ह
संस्कारः क्रियतां भ्रातुः स्त्रियश् चैता निवर्तय

6.099.031

तं प्रश्रितस् ततो रामं श्रुतवाक्यो विभीषणः
विमृश्य बुद्ध्या धर्मज्ञो धर्मार्थसहितं वचः
रामस्यैवानुवृत्त्यर्थम् उत्तरं प्रत्यभाषत

6.099.032

त्यक्तधर्मव्रतं क्रूरं नृशंसम् अनृतं तथा
नाहम् अर्हो ऽस्मि संस्कर्तुं परदाराभिमर्शकम्

6.099.033

भ्रातृरूपो हि मे शत्रुर् एष सर्वाहिते रतः
रावणो नार्हते पूजां पूज्यो ऽपि गुरुगौरवात्

6.099.034

नृशंस इति मां राम वक्ष्यन्ति मनुजा भुवि
श्रुत्वा तस्य गुणान् सर्वे वक्ष्यन्ति सुकृतं पुनः

6.099.035

तच् छ्रुत्वा परमप्रीतो रामो धर्मभृतां वरः
विभीषणम् उवाचेदं वाक्यज्ञो वाक्यकोविदम्

6.099.036

तवापि मे प्रियं कार्यं त्वत्प्रभवाच् च मे जितम्
अवश्यं तु क्षमं वाच्यो मया त्वं राक्षसेश्वर

6.099.037

अधर्मानृतसंयुक्तः कामम् एष निशाचरः
तेजस्वी बलवाञ् शूरः संग्रामेषु च नित्यशः

6.099.038

शतक्रतुमुखैर् देवैः श्रूयते न पराजितः
महात्मा बलसंपन्नो रावणो लोकरावणः

6.099.039

मरणान्तानि वैराणि निर्वृत्तं नः प्रयोजनम्
क्रियताम् अस्य संस्कारो ममाप्य् एष यथा तव

6.099.040

त्वत्सकाशान् महाबाहो संस्कारं विधिपूर्वकम्
क्षिप्रम् अर्हति धर्मज्ञ त्वं यशोभाग् भविष्यसि

6.099.041

राघवस्य वचः श्रुत्वा त्वरमाणो विभीषणः
संस्कारेणानुरूपेण योजयाम् आस रावणम्

6.099.042

स ददौ पावकं तस्य विधियुक्तं विभीषणः
ताः स्त्रियो ऽनुनयाम् आस सान्त्वम् उक्त्वा पुनः पुनः

6.099.043

प्रविष्टासु च सर्वासु राक्षसीषु विभीषणः
रामपार्श्वम् उपागम्य तदातिष्ठद् विनीतवत्

6.099.044

रामो ऽपि सह सैन्येन ससुग्रीवः सलक्ष्मणः
हर्षं लेभे रिपुं हत्वा यथा वृत्रं शतक्रतुः

मूल पाठ: Rāmāyaṇa · Edition: John Smith's Rāmāyaṇa-Page (last comparison: 2020-04-16) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc