रामायण · अध्याय 6.098
रावणं निहतं श्रुत्वा राघवेण महात्मना
अन्तःपुराद् विनिष्पेतू राक्षस्यः शोककर्शिताः
वार्यमाणाः सुबहुशो वृष्टन्त्यः क्षितिपांसुषु
विमुक्तकेश्यो दुःखार्ता गावो वत्सहता यथा
उत्तरेण विनिष्क्रम्य द्वारेण सह राक्षसैः
प्रविश्यायोधनं घोरं विचिन्वन्त्यो हतं पतिम्
आर्यपुत्रेति वादिन्यो हा नाथेति च सर्वशः
परिपेतुः कबन्धाङ्कां महीं शोणितकर्दमाम्
ता बाष्पपरिपूर्णाक्ष्यो भर्तृशोकपराजिताः
करेण्व इव नर्दन्त्यो विनेदुर् हतयूथपाः
ददृशुस् ता महाकायं महावीर्यं महाद्युतिम्
रावणं निहतं भूमौ नीलाञ्जनचयोपमम्
ताः पतिं सहसा दृष्ट्वा शयानं रणपांसुषु
निपेतुस् तस्य गात्रेषु छिन्ना वनलता इव
बहुमानात् परिष्वज्य का चिद् एनं रुरोद ह
चरणौ का चिद् आलिङ्ग्य का चित् कण्ठे ऽवलम्ब्य च
उद्धृत्य च भुजौ का चिद् भूमौ स्म परिवर्तते
हतस्य वदनं दृष्ट्वा का चिन् मोहम् उपागमत्
का चिद् अङ्के शिरः कृत्वा रुरोद मुखम् ईक्षती
स्नापयन्ती मुखं बाष्पैस् तुषारैर् इव पङ्कजम्
एवम् आर्ताः पतिं दृष्ट्वा रावणं निहतं भुवि
चुक्रुशुर् बहुधा शोकाद् भूयस् ताः पर्यदेवयन्
येन वित्रासितः शक्रो येन वित्रासितो यमः
येन वैश्रवणो राजा पुष्पकेण वियोजितः
गन्धर्वाणाम् ऋषीणां च सुराणां च महात्मनाम्
भयं येन महद् दत्तं सो ऽयं शेते रणे हतः
असुरेभ्यः सुरेभ्यो वा पन्नगेभ्यो ऽपि वा तथा
न भयं यो विजानाति तस्येदं मानुषाद् भयम्
अवध्यो देवतानां यस् तथा दानवरक्षसाम्
हतः सो ऽयं रणे शेते मानुषेण पदातिना
यो न शक्यः सुरैर् हन्तुं न यक्षैर् नासुरैस् तथा
सो ऽयं कश् चिद् इवासत्त्वो मृत्युं मर्त्येन लम्भितः
एवं वदन्त्यो बहुधा रुरुदुस् तस्य ताः स्त्रियः
भूय एव च दुःखार्ता विलेपुश् च पुनः पुनः
अशृण्वता तु सुहृदां सततं हितवादिनाम्
एताः समम् इदानीं ते वयम् आत्मा च पातिताः
ब्रुवाणो ऽपि हितं वाक्यम् इष्टो भ्राता विभीषणः
धृष्टं परुषितो मोहात् त्वयात्मवधकाङ्क्षिणा
यदि निर्यातिता ते स्यात् सीता रामाय मैथिली
न नः स्याद् व्यसनं घोरम् इदं मूलहरं महत्
वृत्तकामो भवेद् भ्राता रामो मित्रकुलं भवेत्
वयं चाविधवाः सर्वाः सकामा न च शत्रवः
त्वया पुनर् नृशंसेन सीतां संरुन्धता बलात्
राक्षसा वयम् आत्मा च त्रयं तुलं निपातितम्
न कामकारः कामं वा तव राक्षसपुंगव
दैवं चेष्टयते सर्वं हतं दैवेन हन्यते
वानराणां विनाशो ऽयं राक्षसानां च ते रणे
तव चैव महाबाहो दैवयोगाद् उपागतः
नैवार्थेन न कामेन विक्रमेण न चाज्ञया
शक्या दैवगतिर् लोके निवर्तयितुम् उद्यता
विलेपुर् एवं दीनास् ता राक्षसाधिपयोषितः
कुरर्य इव दुःखार्ता बाष्पपर्याकुलेक्षणाः
मूल पाठ: Rāmāyaṇa · Edition: John Smith's Rāmāyaṇa-Page (last comparison: 2020-04-16) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0