भाषा

ENहिગુ
ग्रंथ पाठ

रामायण · अध्याय 6.097

6.097.001

अथ संस्मारयाम् आस राघवं मातलिस् तदा
अजानन्न् इव किं वीर त्वम् एनम् अनुवर्तसे

6.097.002

विसृजास्मै वधाय त्वम् अस्त्रं पैतामहं प्रभो
विनाशकालः कथितो यः सुरैः सो ऽद्य वर्तते

6.097.003

ततः संस्मारितो रामस् तेन वाक्येन मातलेः
जग्राह स शरं दीप्तं निश्वसन्तम् इवोरगम्

6.097.004

यम् अस्मै प्रथमं प्रादाद् अगस्त्यो भगवान् ऋषिः
ब्रह्मदत्तं महद् बाणम् अमोघं युधि वीर्यवान्

6.097.005

ब्रह्मणा निर्मितं पूर्वम् इन्द्रार्थम् अमितौजसा
दत्तं सुरपतेः पूर्वं त्रिलोकजयकाङ्क्षिणः

6.097.006

यस्य वाजेषु पवनः फले पावकभास्करौ
शरीरम् आकाशमयं गौरवे मेरुमन्दरौ

6.097.007

जाज्वल्यमानं वपुषा सुपुङ्खं हेमभूषितम्
तेजसा सर्वभूतानां कृतं भास्करवर्चसं

6.097.008

सधूमम् इव कालाग्निं दीप्तम् आशीविषं यथा
रथनागाश्ववृन्दानां भेदनं क्षिप्रकारिणम्

6.097.009

द्वाराणां परिघाणां च गिरीणाम् अपि भेदनम्
नानारुधिरसिक्ताङ्गं मेदोदिग्धं सुदारुणम्

6.097.010

वज्रसारं महानादं नानासमितिदारुणम्
सर्ववित्रासनं भीमं श्वसन्तम् इव पन्नगम्

6.097.011

कङ्कगृध्रबलानां च गोमायुगणरक्षसाम्
नित्यं भक्षप्रदं युद्धे यमरूपं भयावहम्

6.097.012

नन्दनं वानरेन्द्राणां रक्षसाम् अवसादनम्
वाजितं विविधैर् वाजैश् चारुचित्रैर् गरुत्मतः

6.097.013

तम् उत्तमेषुं लोकानाम् इक्ष्वाकुभयनाशनम्
द्विषतां कीर्तिहरणं प्रहर्षकरम् आत्मनः

6.097.014

अभिमन्त्र्य ततो रामस् तं महेषुं महाबलः
वेदप्रोक्तेन विधिना संदधे कार्मुके बली

6.097.015

स रावणाय संक्रुद्धो भृशम् आयम्य कार्मुकम्
चिक्षेप परम् आयत्तस् तं शरं मर्मघातिनम्

6.097.016

स वज्र इव दुर्धर्षो वज्रबाहुविसर्जितः
कृतान्त इव चावार्यो न्यपतद् रावणोरसि

6.097.017

स विसृष्टो महावेगः शरीरान्तकरः शरः
बिभेद हृदयं तस्य रावणस्य दुरात्मनः

6.097.018

रुधिराक्तः स वेगेन जीवितान्तकरः शरः
रावणस्य हरन् प्राणान् विवेश धरणीतलम्

6.097.019

स शरो रावणं हत्वा रुधिरार्द्रकृतच्छविः
कृतकर्मा निभृतवत् स्वतूणीं पुनर् आविशत्

6.097.020

तस्य हस्ताद् धतस्याशु कार्मुकं तत् ससायकम्
निपपात सह प्राणैर् भ्रश्यमानस्य जीवितात्

6.097.021

गतासुर् भीमवेगस् तु नैरृतेन्द्रो महाद्युतिः
पपात स्यन्दनाद् भूमौ वृत्रो वज्रहतो यथा

6.097.022

तं दृष्ट्वा पतितं भूमौ हतशेषा निशाचराः
हतनाथा भयत्रस्ताः सर्वतः संप्रदुद्रुवुः

6.097.023

नर्दन्तश् चाभिपेतुस् तान् वानरा द्रुमयोधिनः
दशग्रीववधं दृष्ट्वा विजयं राघवस्य च

6.097.024

अर्दिता वानरैर् हृष्टैर् लङ्काम् अभ्यपतन् भयात्
हताश्रयत्वात् करुणैर् बाष्पप्रस्रवणैर् मुखैः

6.097.025

ततो विनेदुः संहृष्टा वानरा जितकाशिनः
वदन्तो राघवजयं रावणस्य च तं वधम्

6.097.026

अथान्तरिक्षे व्यनदत् सौम्यस् त्रिदशदुन्दुभिः
दिव्यगन्धवहस् तत्र मारुतः सुसुखो ववौ

6.097.027

निपपातान्तरिक्षाच् च पुष्पवृष्टिस् तदा भुवि
किरन्ती राघवरथं दुरवापा मनोहराः

6.097.028

राघवस्तवसंयुक्ता गगने च विशुश्रुवे
साधु साध्व् इति वाग् अग्र्या देवतानां महात्मनाम्

6.097.029

आविवेश महान् हर्षो देवानां चारणैः सह
रावणे निहते रौद्रे सर्वलोकभयंकरे

6.097.030

ततः सकामं सुग्रीवम् अङ्गदं च महाबलम्
चकार राघवः प्रीतो हत्वा राक्षसपुंगवम्

6.097.031

ततः प्रजग्मुः प्रशमं मरुद्गणा दिशः प्रसेदुर् विमलं नभो ऽभवत्
मही चकम्पे न च मारुता ववुः स्थिरप्रभश् चाप्य् अभवद् दिवाकरः

6.097.032

ततस् तु सुग्रीवविभीषणादयः सुहृद्विशेषाः सहलक्ष्मणास् तदा
समेत्य हृष्टा विजयेन राघवं रणे ऽभिरामं विधिनाभ्यपूजयन्

6.097.033

स तु निहतरिपुः स्थिरप्रतिज्ञः स्वजनबलाभिवृतो रणे रराज
रघुकुलनृपनन्दनो महौजास् त्रिदशगणैर् अभिसंवृतो यथेन्द्रः

मूल पाठ: Rāmāyaṇa · Edition: John Smith's Rāmāyaṇa-Page (last comparison: 2020-04-16) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc