रामायण · अध्याय 6.096
तौ तथा युध्यमानौ तु समरे रामरावणौ
ददृशुः सर्वभूतानि विस्मितेनान्तरात्मना
अर्दयन्तौ तु समरे तयोस् तौ स्यन्दनोत्तमौ
परस्परवधे युक्तौ घोररूपौ बभूवतुः
मण्डलानि च वीथीश् च गतप्रत्यागतानि च
दर्शयन्तौ बहुविधां सूतौ सारथ्यजां गतिम्
अर्दयन् रावणं रामो राघवं चापि रावणः
गतिवेगं समापन्नौ प्रवर्तन निवर्तने
क्षिपतोः शरजालानि तयोस् तौ स्यन्दनोत्तमौ
चेरतुः संयुगमहीं सासारौ जलदाव् इव
दर्शयित्वा तदा तौ तु गतिं बहुविधां रणे
परस्परस्याभिमुखौ पुनर् एव च तस्थतुः
धुरं धुरेण रथयोर् वक्त्रं वक्त्रेण वाजिनाम्
पताकाश् च पताकाभिः समेयुः स्थितयोस् तदा
रावणस्य ततो रामो धनुर्मुक्तैः शितैः शरैः
चतुर्भिश् चतुरो दीप्तान् हयान् प्रत्यपसर्पयत्
स क्रोधवशम् आपन्नो हयानाम् अपसर्पणे
मुमोच निशितान् बाणान् राघवाय निशाचरः
सो ऽतिविद्धो बलवता दशग्रीवेण राघवः
जगाम न विकारं च न चापि व्यथितो ऽभवत्
चिक्षेप च पुनर् बाणान् वज्रपातसमस्वनान्
सारथिं वज्रहस्तस्य समुद्दिश्य निशाचरः
मातलेस् तु महावेगाः शरीरे पतिताः शराः
न सूक्ष्मम् अपि संमोहं व्यथां वा प्रददुर् युधि
तया धर्षणया क्रोद्धो मातलेर् न तथात्मनः
चकार शरजालेन राघवो विमुखं रिपुम्
विंशतिं त्रिंशतं षष्टिं शतशो ऽथ सहस्रशः
मुमोच राघवो वीरः सायकान् स्यन्दने रिपोः
गदानां मुसलानां च परिघाणां च निस्वनैः
शराणां पुङ्खवातैश् च क्षुभिताः सप्तसागराः
क्षुब्धानां सागराणां च पातालतलवासिनः
व्यथिताः पन्नगाः सर्वे दानवाश् च सहस्रशः
चकम्पे मेदिनी कृत्स्ना सशैलवनकानना
भास्करो निष्प्रभश् चाभून् न ववौ चापि मारुतः
ततो देवाः सगन्धर्वाः सिद्धाश् च परमर्षयः
चिन्ताम् आपेदिरे सर्वे सकिंनरमहोरगाः
स्वस्ति गोब्राह्मणेभ्यो ऽस्तु लोकास् तिष्ठन्तु शाश्वताः
जयतां राघवः संख्ये रावणं राक्षसेश्वरम्
ततः क्रुद्धो महाबाहू रघूणां कीर्तिवर्धनः
संधाय धनुषा रामः क्षुरम् आशीविषोपमम्
रावणस्य शिरो ऽच्छिन्दच् छ्रीमज् ज्वलितकुण्डलम्
तच् छिरः पतितं भूमौ दृष्टं लोकैस् त्रिभिस् तदा
तस्यैव सदृशं चान्यद् रावणस्योत्थितं शिरः
तत् क्षिप्रं क्षिप्रहस्तेन रामेण क्षिप्रकारिणा
द्वितीयं रावणशिरश् छिन्नं संयति सायकैः
छिन्नमात्रं च तच् छीर्षं पुनर् अन्यत् स्म दृश्यते
तद् अप्य् अशनिसंकाशैश् छिन्नं रामेण सायकैः
एवम् एव शतं छिन्नं शिरसां तुल्यवर्चसाम्
न चैव रावणस्यान्तो दृश्यते जीवितक्षये
ततः सर्वास्त्रविद् वीरः कौसल्यानन्दिवर्धनः
मार्गणैर् बहुभिर् युक्तश् चिन्तयाम् आस राघवः
मारीचो निहतो यैस् तु खरो यैस् तु सुदूषणः
क्रञ्चारण्ये विराधस् तु कबन्धो दण्डका वने
त इमे सायकाः सर्वे युद्धे प्रत्ययिका मम
किं नु तत् कारणं येन रावणे मन्दतेजसः
इति चिन्तापरश् चासीद् अप्रमत्तश् च संयुगे
ववर्ष शरवर्षाणि राघवो रावणोरसि
रावणो ऽपि ततः क्रुद्धो रथस्थो राक्षसेश्वरः
गदामुसलवर्षेण रामं प्रत्यर्दयद् रणे
देवदानवयक्षाणां पिशाचोरगरक्षसाम्
पश्यतां तन् महद् युद्धं सर्वरात्रम् अवर्तत
नैव रत्रिं न दिवसं न मुहूर्तं न चक्षणम्
रामरावणयोर् युद्धं विरामम् उपगच्छति
मूल पाठ: Rāmāyaṇa · Edition: John Smith's Rāmāyaṇa-Page (last comparison: 2020-04-16) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0