भाषा

ENहिગુ
ग्रंथ पाठ

रामायण · अध्याय 6.095

6.095.001

ततः प्रवृत्तं सुक्रूरं रामरावणयोस् तदा
सुमहद् द्वैरथं युद्धं सर्वलोकभयावहम्

6.095.002

ततो राक्षससैन्यं च हरीणां च महद् बलम्
प्रगृहीतप्रहरणं निश्चेष्टं समतिष्ठत

6.095.003

संप्रयुद्धौ ततो दृष्ट्वा बलवन् नरराक्षसौ
व्याक्षिप्तहृदयाः सर्वे परं विस्मयम् आगताः

6.095.004

नानाप्रहरणैर् व्यग्रैर् भुजैर् विस्मितबुद्धयः
तस्थुः प्रेक्ष्य च संग्रामं नाभिजघ्नुः परस्परम्

6.095.005

रक्षसां रावणं चापि वानराणां च राघवम्
पश्यतां विस्मिताक्षाणां सैन्यं चित्रम् इवाबभौ

6.095.006

तौ तु तत्र निमित्तानि दृष्ट्वा राघवरावणौ
कृतबुद्धी स्थिरामर्षौ युयुधाते अभीतवत्

6.095.007

जेतव्यम् इति काकुत्स्थो मर्तव्यम् इति रावणः
धृतौ स्ववीर्यसर्वस्वं युद्धे ऽदर्शयतां तदा

6.095.008

ततः क्रोधाद् दशग्रीवः शरान् संधाय वीर्यवान्
मुमोच ध्वजम् उद्दिश्य राघवस्य रथे स्थितम्

6.095.009

ते शरास् तम् अनासाद्य पुरंदररथध्वजम्
रक्तशक्तिं परामृश्य निपेतुर् धरणीतले

6.095.010

ततो रामो ऽभिसंक्रुद्धश् चापम् आयम्य वीर्यवान्
कृतप्रतिकृतं कर्तुं मनसा संप्रचक्रमे

6.095.011

रावणध्वजम् उद्दिश्य मुमोच निशितं शरम्
महासर्पम् इवासह्यं ज्वलन्तं स्वेन तेजसा

6.095.012

जगाम स महीं भित्त्वा दशग्रीवध्वजं शरः
स निकृत्तो ऽपतद् भूमौ रावणस्य रथध्वजः

6.095.013

ध्वजस्योन्मथनं दृष्ट्वा रावणः सुमहाबलः
क्रोधजेनाग्निना संख्ये प्रदीप्त इव चाभवत्

6.095.014

स रोषवशम् आपन्नः शरवर्षं महद् वमन्
रामस्य तुरगान् दिव्याञ् शरैर् विव्याध रावणः

6.095.015

ते विद्धा हरयस् तस्य नास्खलन् नापि बभ्रमुः
बभूवुः स्वस्थहृदयाः पद्मनालैर् इवाहताः

6.095.016

तेषाम् असंभ्रमं दृष्ट्वा वाजिनां रावणस् तदा
भूय एव सुसंक्रुद्धः शरवर्षं मुमोच ह

6.095.017

गदाश् च परिघांश् चैव चक्राणि मुसलानि च
गिरिशृङ्गाणि वृक्षांश् च तथा शूलपरश्वधान्

6.095.018

मायाविहितम् एतत् तु शस्त्रवर्षम् अपातयत्
सहस्रशस् ततो बाणान् अश्रान्तहृदयोद्यमः

6.095.019

तुमुलं त्रासजननं भीमं भीमप्रतिस्वनम्
दुर्धर्षम् अभवद् युद्धे नैकशस्त्रमयं महत्

6.095.020

विमुच्य राघवरथं समन्ताद् वानरे बले
सायकैर् अन्तरिक्षं च चकाराशु निरन्तरम्
मुमोच च दशग्रीवो निःसङ्गेनान्तरात्मना

6.095.021

व्यायच्छमानं तं दृष्ट्वा तत्परं रावणं रणे
प्रहसन्न् इव काकुत्स्थः संदधे सायकाञ् शितान्

6.095.022

स मुमोच ततो बाणान् रणे शतसहस्रशः
तान् दृष्ट्वा रावणश् चक्रे स्वशरैः खं निरन्तरम्

6.095.023

ततस् ताभ्यां प्रयुक्तेन शरवर्षेण भास्वता
शरबद्धम् इवाभाति द्वितीयं भास्वद् अम्बरम्

6.095.024

नानिमित्तो ऽभवद् बाणो नातिभेत्ता न निष्फलः
तथा विसृजतोर् बाणान् रामरावणयोर् मृधे

6.095.025

प्रायुध्येताम् अविच्छिन्नम् अस्यन्तौ सव्यदक्षिणम्
चक्रतुस् तौ शरौघैस् तु निरुच्छ्वासम् इवाम्बरम्

6.095.026

रावणस्य हयान् रामो हयान् रामस्य रावणः
जघ्नतुस् तौ तदान्योन्यं कृतानुकृतकारिणौ

मूल पाठ: Rāmāyaṇa · Edition: John Smith's Rāmāyaṇa-Page (last comparison: 2020-04-16) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc