रामायण · अध्याय 6.094
तम् आपतन्तं सहसा स्वनवन्तं महाध्वजम्
रथं राक्षसराजस्य नरराजो ददर्श ह
कृष्णवाजिसमायुक्तं युक्तं रौद्रेण वर्चसा
तडित्पताकागहनं दर्शितेन्द्रायुधायुधम्
शरधारा विमुञ्चन्तं धारासारम् इवान्बुदम्
तं दृष्ट्वा मेघसंकाशम् आपतन्तं रथं रिपोः
गिरेर् वज्राभिमृष्टस्य दीर्यतः सदृशस्वनम्
उवाच मातलिं रामः सहस्राक्षस्य सारथिम्
मातले पश्य संरब्धम् आपतन्तं रथं रिपोः
यथापसव्यं पतता वेगेन महता पुनः
समरे हन्तुम् आत्मानं तथानेन कृता मतिः
तद् अप्रमादम् आतिष्ठ प्रत्युद्गच्छ रथं रिपोः
विध्वंसयितुम् इच्छामि वायुर् मेघम् इवोत्थितम्
अविक्लवम् असंभ्रान्तम् अव्यग्रहृदयेक्षणम्
रश्मिसंचारनियतं प्रचोदय रथं द्रुतम्
कामं न त्वं समाधेयः पुरंदररथोचितः
युयुत्सुर् अहम् एकाग्रः स्मारये त्वां न शिक्षये
परितुष्टः स रामस्य तेन वाक्येन मातलिः
प्रचोदयाम् आस रथं सुरसारथिसत्तमः
अपसव्यं ततः कुर्वन् रावणस्य महारथम्
चक्रोत्क्षिप्तेन रजसा रावणं व्यवधूनयत्
ततः क्रुद्धो दशग्रीवस् ताम्रविस्फारितेक्षणः
रथप्रतिमुखं रामं सायकैर् अवधूनयत्
धर्षणामर्षितो रामो धैर्यं रोषेण लङ्घयन्
जग्राह सुमहावेगम् ऐन्द्रं युधि शरासनम्
शरांश् च सुमहातेजाः सूर्यरश्मिसमप्रभान्
तद् उपोढं महद् युद्धम् अन्योन्यवधकाङ्क्षिणोः
परस्पराभिमुखयोर् दृप्तयोर् इव सिंहयोः
ततो देवाः सगन्धर्वाः सिद्धाश् च परमर्षयः
समीयुर् द्वैरथं द्रष्टुं रावणक्षयकाङ्क्षिणः
समुत्पेतुर् अथोत्पाता दारुणा लोमहर्षणाः
रावणस्य विनाशाय राघवस्य जयाय च
ववर्ष रुधिरं देवो रावणस्य रथोपरि
वाता मण्डलिनस् तीव्रा अपसव्यं प्रचक्रमुः
महद् गृध्रकुलं चास्य भ्रममाणं नभस्तले
येन येन रथो याति तेन तेन प्रधावति
संध्यया चावृता लङ्का जपापुष्पनिकाशया
दृश्यते संप्रदीतेव दिवसे ऽपि वसुंधरा
सनिर्घाता महोल्काश् च संप्रचेतुर् महास्वनाः
विषादयन्त्यो रक्षांसि रावणस्य तदाहिताः
रावणश् च यतस् तत्र प्रचचाल वसुंधरा
रक्षसां च प्रहरतां गृहीता इव बाहवः
ताम्राः पीताः सिताः श्वेताः पतिताः सूर्यरश्मयः
दृश्यन्ते रावणस्याङ्गे पर्वतस्येव धातवः
गृध्रैर् अनुगताश् चास्य वमन्त्यो ज्वलनं मुखैः
प्रणेदुर् मुखम् ईक्षन्त्यः संरब्धम् अशिवं शिवाः
प्रतिकूलं ववौ वायू रणे पांसून् समुत्किरन्
तस्य राक्षसराजस्य कुर्वन् दृष्टिविलोपनम्
निपेतुर् इन्द्राशनयः सैन्ये चास्य समन्ततः
दुर्विषह्य स्वना घोरा विना जलधरस्वनम्
दिशश् च प्रदिशः सर्वा बभूवुस् तिमिरावृताः
पांसुवर्षेण महता दुर्दर्शं च नभो ऽभवत्
कुर्वन्त्यः कलहं घोरं सारिकास् तद्रथं प्रति
निपेतुः शतशस् तत्र दारुणा दारुणस्वनाः
जघनेभ्यः स्फुलिङ्गांश् च नेत्रेभ्यो ऽश्रूणि संततम्
मुमुचुस् तस्य तुरगास् तुल्यम् अग्निं च वारि च
एवं प्रकारा बहवः समुत्पाता भयावहाः
रावणस्य विनाशाय दारुणाः संप्रजज्ञिरे
रामस्यापि निमित्तानि सौम्यानि च शिवानि च
बभूवुर् जयशंसीनि प्रादुर्भूतानि सर्वशः
ततो निरीक्ष्यात्मगतानि राघवो रणे निमित्तानि निमित्तकोविदः
जगाम हर्षं च परां च निर्वृतिं चकार युद्धे ऽभ्यधिकं च विक्रमम्
मूल पाठ: Rāmāyaṇa · Edition: John Smith's Rāmāyaṇa-Page (last comparison: 2020-04-16) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0