रामायण · अध्याय 6.093
स तु मोहात् सुसंक्रुद्धः कृतान्तबलचोदितः
क्रोधसंरक्तनयनो रावणो सूतम् अब्रवीत्
हीनवीर्यम् इवाशक्तं पौरुषेण विवर्जितम्
भीरुं लघुम् इवासत्त्वं विहीनम् इव तेजसा
विमुक्तम् इव मायाभिर् अस्त्रैर् इव बहिष्कृतम्
माम् अवज्ञाय दुर्बुद्धे स्वया बुद्ध्या विचेष्टसे
किमर्थं माम् अवज्ञाय मच्छन्दम् अनवेक्ष्य च
त्वया शत्रुसमक्षं मे रथो ऽयम् अपवाहितः
त्वयाद्य हि ममानार्य चिरकालसमार्जितम्
यशो वीर्यं च तेजश् च प्रत्ययश् च विनाशितः
शत्रोः प्रख्यातवीर्यस्य रञ्जनीयस्य विक्रमैः
पश्यतो युद्धलुब्धो ऽहं कृतः कापुरुषस् त्वया
यस् त्वं रथम् इमं मोहान् न चोद्वहसि दुर्मते
सत्यो ऽयं प्रतितर्को मे परेण त्वम् उपस्कृतः
न हीदं विद्यते कर्म सुहृदो हितकाङ्क्षिणः
रिपूणां सदृशं चैतन् न त्वयैतत् स्वनुष्ठितम्
निवर्तय रथं शीघ्रं यावन् नापैति मे रिपुः
यदि वाप्य् उषितो ऽसि त्वं स्मर्यन्ते यदि वा गुणाः
एवं परुषम् उक्तस् तु हितबुद्धिर् अबुद्धिना
अब्रवीद् रावणं सूतो हितं सानुनयं वचः
न भीतो ऽस्मि न मूढो ऽस्मि नोपजप्तो ऽस्मि शत्रुभिः
न प्रमत्तो न निःस्नेहो विस्मृता न च सत्क्रिया
मया तु हितकामेन यशश् च परिरक्षता
स्नेहप्रस्कन्नमनसा प्रियम् इत्य् अप्रियं कृतम्
नास्मिन्न् अर्थे महाराज त्वं मां प्रियहिते रतम्
कश् चिल् लघुर् इवानार्यो दोषतो गन्तुम् अर्हसि
श्रूयताम् अभिधास्यामि यन्निमित्तं मया रथः
नदीवेग इवाम्भोभिः संयुगे विनिवर्तितः
श्रमं तवावगच्छामि महता रणकर्मणा
न हि ते वीर सौमुख्यं प्रहर्षं वोपधारये
रथोद्वहनखिन्नाश् च त इमे रथवाजिनः
दीना घर्मपरिश्रान्ता गावो वर्षहता इव
निमित्तानि च भूयिष्ठं यानि प्रादुर्भवन्ति नः
तेषु तेष्व् अभिपन्नेषु लक्षयाम्य् अप्रदक्षिणम्
देशकालौ च विज्ञेयौ लक्षणानीङ्गितानि च
दैन्यं हर्षश् च खेदश् च रथिनश् च बलाबलम्
स्थलनिम्नानि भूमेश् च समानि विषमाणि च
युद्धकालश् च विज्ञेयः परस्यान्तरदर्शनम्
उपयानापयाने च स्थानं प्रत्यपसर्पणम्
सर्वम् एतद् रथस्थेन ज्ञेयं रथकुटुम्बिना
तव विश्रामहेतोस् तु तथैषां रथवाजिनाम्
रौद्रं वर्जयता खेदं क्षमं कृतम् इदं मया
न मया स्वेच्छया वीर रथो ऽयम् अपवाहितः
भर्तृस्नेहपरीतेन मयेदं यत्कृतं विभो
आज्ञापय यथातत्त्वं वक्ष्यस्य् अरिनिषूदन
तत् करिष्याम्य् अहं वीरं गतानृण्येन चेतसा
संतुष्टस् तेन वाक्येन रावणस् तस्य सारथेः
प्रशस्यैनं बहुविधं युद्धलुब्धो ऽब्रवीद् इदम्
रथं शीघ्रम् इमं सूत राघवाभिमुखं कुरु
नाहत्वा समरे शत्रून् निवर्तिष्यति रावणः
एवम् उक्त्वा ततस् तुष्टो रावणो राक्षसेश्वरः
ददौ तस्य शुभं ह्य् एकं हस्ताभरणम् उत्तमम्
ततो द्रुतं रावणवाक्यचोदितः प्रचोदयाम् आस हयान् स सारथिः
स राक्षसेन्द्रस्य ततो महारथः क्षणेन रामस्य रणाग्रतो ऽभवत्
मूल पाठ: Rāmāyaṇa · Edition: John Smith's Rāmāyaṇa-Page (last comparison: 2020-04-16) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0