रामायण · अध्याय 6.092
स तु तेन तदा क्रोधात् काकुत्स्थेनार्दितो रणे
रावणः समरश्लाघी महाक्रोधम् उपागमत्
स दीप्तनयनो रोषाच् चापम् आयम्य वीर्यवान्
अभ्यर्दयत् सुसंक्रुद्धो राघवं परमाहवे
बाणधारासहस्रैस् तु स तोयद इवाम्बरात्
राघवं रावणो बाणैस् तटाकम् इव पूरयत्
पूरितः शरजालेन धनुर्मुक्तेन संयुगे
महागिरिर् इवाकम्प्यः काकुस्थो न प्रकम्पते
स शरैः शरजालानि वारयन् समरे स्थितः
गभस्तीन् इव सूर्यस्य प्रतिजग्राह वीर्यवान्
ततः शरसहस्राणि क्षिप्रहस्तो निशाचरः
निजघानोरसि क्रुद्धो राघवस्य महात्मनः
स शोणितसमादिग्धः समरे लक्ष्मणाग्रजः
दृष्टः फुल्ल इवारण्ये सुमहान् किंशुकद्रुमः
शराभिघातसंरब्धः सो ऽपि जग्राह सायकान्
काकुत्स्थः सुमहातेजा युगान्तादित्यवर्चसः
ततो ऽन्योन्यं सुसंरब्धाव् उभौ तौ रामरावणौ
शरान्धकारे समरे नोपालक्षयतां तदा
ततः क्रोधसमाविष्टो रामो दशरथात्मजः
उवाच रावणं वीरः प्रहस्य परुषं वचः
मम भार्या जनस्थानाद् अज्ञानाद् राक्षसाधम
हृता ते विवशा यस्मात् तस्मात् त्वं नासि वीर्यवान्
मया विरहितां दीनां वर्तमानां महावने
वैदेहीं प्रसभं हृत्वा शूरो ऽहम् इति मन्यसे
स्त्रीषु शूर विनाथासु परदाराभिमर्शके
कृत्वा कापुरुषं कर्म शूरो ऽहम् इति मन्यसे
भिन्नमर्याद निर्लज्ज चारित्रेष्व् अनवस्थित
दर्पान् मृत्युम् उपादाय शूरो ऽहम् इति मन्यसे
शूरेण धनदभ्रात्रा बलैः समुदितेन च
श्लाघनीयं यशस्यं च कृतं कर्म महत् त्वया
उत्सेकेनाभिपन्नस्य गर्हितस्याहितस्य च
कर्मणः प्राप्नुहीदानीं तस्याद्य सुमहत् फलम्
शूरो ऽहम् इति चात्मानम् अवगच्छसि दुर्मते
नैव लज्जास्ति ते सीतां चोरवद् व्यपकर्षतः
यदि मत्संनिधौ सीता धर्षिता स्यात् त्वया बलात्
भ्रातरं तु खरं पश्येस् तदा मत्सायकैर् हतः
दिष्ट्यासि मम दुष्टात्मंश् चक्षुर्विषयम् आगतः
अद्य त्वां सायकैस् तीक्ष्णैर् नयामि यमसादनम्
अद्य ते मच्छरैश् छिन्नं शिरो ज्वलितकुण्डलम्
क्रव्यादा व्यपकर्षन्तु विकीर्णं रणपांसुषु
निपत्योरसि गृध्रास् ते क्षितौ क्षिप्तस्य रावण
पिबन्तु रुधिरं तर्षाद् बाणशल्यान्तरोथितम्
अद्य मद्बाणाभिन्नस्य गतासोः पतितस्य ते
कर्षन्त्व् अन्त्राणि पतगा गरुत्मन्त इवोरगान्
इत्य् एवं स वदन् वीरो रामः शत्रुनिबर्हणः
राक्षसेन्द्रं समीपस्थं शरवर्षैर् अवाकिरत्
बभूव द्विगुणं वीर्यं बलं हर्षश् च संयुगे
रामस्यास्त्रबलं चैव शत्रोर् निधनकाङ्क्षिणः
प्रादुर्बभूवुर् अस्त्राणि सर्वाणि विदितात्मनः
प्रहर्षाच् च महातेजाः शीघ्रहस्ततरो ऽभवत्
शुभान्य् एतानि चिह्नानि विज्ञायात्मगतानि सः
भूय एवार्दयद् रामो रावणं राक्षसान्तकृत्
हरीणां चाश्मनिकरैः शरवर्षैश् च राघवात्
हन्यमानो दशग्रीवो विघूर्णहृदयो ऽभवत्
यदा च शस्त्रं नारेभे न व्यकर्षच् छरासनम्
नास्य प्रत्यकरोद् वीर्यं विक्लवेनान्तरात्मना
क्षिप्ताश् चापि शरास् तेन शस्त्राणि विविधानि च
न रणार्थाय वर्तन्ते मृत्युकाले ऽभिवर्ततः
सूतस् तु रथनेतास्य तदवस्थं निरीक्ष्य तम्
शनैर् युद्धाद् असंभान्तो रथं तस्यापवाहयत्
मूल पाठ: Rāmāyaṇa · Edition: John Smith's Rāmāyaṇa-Page (last comparison: 2020-04-16) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0