भाषा

ENहिગુ
ग्रंथ पाठ

रामायण · अध्याय 6.091

6.091.001

तस्य क्रुद्धस्य वदनं दृष्ट्वा रामस्य धीमतः
सर्वभूतानि वित्रेषुः प्राकम्पत च मेदिनी

6.091.002

सिंहशार्दूलवाञ् शैलः संचचालाचलद्रुमः
बभूव चापि क्षुभितः समुद्रः सरितां पतिः

6.091.003

खगाश् च खरनिर्घोषा गगने परुषस्वनाः
औत्पातिका विनर्दन्तः समन्तात् परिचक्रमुः

6.091.004

रामं दृष्ट्वा सुसंक्रुद्धम् उत्पातांश् च सुदारुणान्
वित्रेषुः सर्वभूतानि रावणस्याविशद् भयम्

6.091.005

विमानस्थास् तदा देवा गन्धर्वाश् च महोरगाः
ऋषिदानवदैत्याश् च गरुत्मन्तश् च खेचराः

6.091.006

ददृशुस् ते तदा युद्धं लोकसंवर्तसंस्थितम्
नानाप्रहरणैर् भीमैः शूरयोः संप्रयुध्यतोः

6.091.007

ऊचुः सुरासुराः सर्वे तदा विग्रहम् आगताः
प्रेक्षमाणा महायुद्धं वाक्यं भक्त्या प्रहृष्टवत्

6.091.008

दशग्रीवं जयेत्य् आहुर् असुराः समवस्थिताः
देवा रामम् अथोचुस् ते त्वं जयेति पुनः पुनः

6.091.009

एतस्मिन्न् अन्तरे क्रोधाद् राघवस्य स रावणः
प्रहर्तुकामो दुष्टात्मा स्पृशन् प्रहरणं महत्

6.091.010

वज्रसारं महानादं सर्वशत्रुनिबर्हणम्
शैलशृङ्गनिभैः कूटैश् चितं दृष्टिभयावहम्

6.091.011

सधूमम् इव तीक्ष्णाग्रं युगान्ताग्निचयोपमम्
अतिरौद्रम् अनासाद्यं कालेनापि दुरासदम्

6.091.012

त्रासनं सर्वभूतानां दारणं भेदनं तथा
प्रदीप्त इव रोषेण शूलं जग्राह रावणः

6.091.013

तच् छूलं परमक्रुद्धो मध्ये जग्राह वीर्यवान्
अनेकैः समरे शूरै राक्षसैः परिवारितः

6.091.014

समुद्यम्य महाकायो ननाद युधि भैरवम्
संरक्तनयनो रोषात् स्वसैन्यम् अभिहर्षयन्

6.091.015

पृथिवीं चान्तरिक्षं च दिशश् च प्रदिशस् तथा
प्राकम्पयत् तदा शब्दो राक्षसेन्द्रस्य दारुणः

6.091.016

अतिनादस्य नादेन तेन तस्य दुरात्मनः
सर्वभूतानि वित्रेषुः सागरश् च प्रचुक्षुभे

6.091.017

स गृहीत्वा महावीर्यः शूलं तद् रावणो महत्
विनद्य सुमहानादं रामं परुषम् अब्रवीत्

6.091.018

शूलो ऽयं वज्रसारस् ते राम रोषान् मयोद्यतः
तव भ्रातृसहायस्य सद्यः प्राणान् हरिष्यति

6.091.019

रक्षसाम् अद्य शूराणां निहतानां चमूमुखे
त्वां निहत्य रणश्लाघिन् करोमि तरसा समम्

6.091.020

तिष्ठेदानीं निहन्मि त्वाम् एष शूलेन राघव
एवम् उक्त्वा स चिक्षेप तच् छूलं राक्षसाधिपः

6.091.021

आपतन्तं शरौघेण वारयाम् आस राघवः
उत्पतन्तं युगान्ताग्निं जलौघैर् इव वासवः

6.091.022

निर्ददाह स तान् बाणान् रामकार्मुकनिःसृतान्
रावणस्य महाशूलः पतंगान् इव पावकः

6.091.023

तान् दृष्ट्वा भस्मसाद् भूताञ् शूलसंस्पर्शचूर्णितान्
सायकान् अन्तरिक्षस्थान् राघवः क्रोधम् आहरत्

6.091.024

स तां मातलिनानीतां शक्तिं वासवनिर्मिताम्
जग्राह परमक्रुद्धो राघवो रघुनन्दनः

6.091.025

सा तोलिता बलवता शक्तिर् घण्टाकृतस्वना
नभः प्रज्वालयाम् आस युगान्तोल्केव सप्रभा

6.091.026

सा क्षिप्ता राक्षसेन्द्रस्य तस्मिञ् शूले पपात ह
भिन्नः शक्त्या महाञ् शूलो निपपात गतद्युतिः

6.091.027

निर्बिभेद ततो बाणैर् हयान् अस्य महाजवान्
रामस् तीक्ष्णैर् महावेगैर् वज्रकल्पैः शितैः शरैः

6.091.028

निर्बिभेदोरसि तदा रावणं निशितैः शरैः
राघवः परमायत्तो ललाटे पत्रिभिस् त्रिभिः

6.091.029

स शरैर् भिन्नसर्वाङ्गो गात्रप्रस्रुतशोणितः
राक्षसेन्द्रः समूहस्थः फुल्लाशोक इवाबभौ

6.091.030

स रामबाणैर् अतिविद्धगात्रो निशाचरेन्द्रः क्षतजार्द्रगात्रः
जगाम खेदं च समाजमध्ये क्रोधं च चक्रे सुभृशं तदानीम्

मूल पाठ: Rāmāyaṇa · Edition: John Smith's Rāmāyaṇa-Page (last comparison: 2020-04-16) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc