भाषा

ENहिગુ
ग्रंथ पाठ

रामायण · अध्याय 6.090

6.090.001

लक्ष्मणेन तु तद् वाक्यम् उक्तं श्रुत्वा स राघवः
रावणाय शरान् घोरान् विससर्ज चमूमुखे

6.090.002

दशग्रीवो रथस्थस् तु रामं वज्रोपमैः शरैः
आजघान महाघोरैर् धाराभिर् इव तोयदः

6.090.003

दीप्तपावकसंकाशैः शरैः काञ्चनभूषणैः
निर्बिभेद रणे रामो दशग्रीवं समाहितः

6.090.004

भूमिस्थितस्य रामस्य रथस्थस्य च रक्षसः
न समं युद्धम् इत्य् आहुर् देवगन्धर्वदानवाः

6.090.005

ततः काञ्चनचित्राङ्गः किंकिणीशतभूषितः
तरुणादित्यसंकाशो वैदूर्यमयकूबरः

6.090.006

सदश्वैः काञ्चनापीडैर् युक्तः श्वेतप्रकीर्णकैः
हरिभिः सूर्यसंकाशैर् हेमजालविभूषितैः

6.090.007

रुक्मवेणुध्वजः श्रीमान् देवराजरथो वरः
अभ्यवर्तत काकुत्स्थम् अवतीर्य त्रिविष्टपात्

6.090.008

अब्रवीच् च तदा रामं सप्रतोदो रथे स्थितः
प्राञ्जलिर् मातलिर् वाक्यं सहस्राक्षस्य सारथिः

6.090.009

सहस्राक्षेण काकुत्स्थ रथो ऽयं विजयाय ते
दत्तस् तव महासत्त्व श्रीमाञ् शत्रुनिबर्हणः

6.090.010

इदम् ऐन्द्रं महच्चापं कवचं चाग्निसंनिभम्
शराश् चादित्यसंकाशाः शक्तिश् च विमला शिताः

6.090.011

आरुह्येमं रथं वीर राक्षसं जहि रावणम्
मया सारथिना राम महेन्द्र इव दानवान्

6.090.012

इत्य् उक्तः स परिक्रम्य रथं तम् अभिवाद्य च
आरुरोह तदा रामो लोकांल् लक्ष्म्या विराजयन्

6.090.013

तद् बभूवाद्भुतं युद्धं द्वैरथं लोमहर्षणम्
रामस्य च महाबाहो रावणस्य च रक्षसः

6.090.014

स गान्धर्वेण गान्धर्वं दैवं दैवेन राघवः
अस्त्रं राक्षसराजस्य जघान परमास्त्रवित्

6.090.015

अस्त्रं तु परमं घोरं राक्षसं राकसाधिपः
ससर्ज परमक्रुद्धः पुनर् एव निशाचरः

6.090.016

ते रावणधनुर्मुक्ताः शराः काञ्चनभूषणाः
अभ्यवर्तन्त काकुत्स्थं सर्पा भूत्वा महाविषाः

6.090.017

ते दीप्तवदना दीप्तं वमन्तो ज्वलनं मुखैः
रामम् एवाभ्यवर्तन्त व्यादितास्या भयानकाः

6.090.018

तैर् वासुकिसमस्पर्शैर् दीप्तभोगैर् महाविषैः
दिशश् च संतताः सर्वाः प्रदिशश् च समावृताः

6.090.019

तान् दृष्ट्वा पन्नगान् रामः समापतत आहवे
अस्त्रं गारुत्मतं घोरं प्रादुश्चक्रे भयावहम्

6.090.020

ते राघवधनुर्मुक्ता रुक्मपुङ्खाः शिखिप्रभाः
सुपर्णाः काञ्चना भूत्वा विचेरुः सर्पशत्रवः

6.090.021

ते तान् सर्वाञ् शराञ् जघ्नुः सर्परूपान् महाजवान्
सुपर्णरूपा रामस्य विशिखाः कामरूपिणः

6.090.022

अस्त्रे प्रतिहते क्रुद्धो रावणो राक्षसाधिपः
अभ्यवर्षत् तदा रामं घोराभिः शरवृष्टिभिः

6.090.023

ततः शरसहस्रेण रामम् अक्लिष्टकारिणम्
अर्दयित्वा शरौघेण मातलिं प्रत्यविध्यत

6.090.024

पातयित्वा रथोपस्थे रथात् केतुं च काञ्चनम्
ऐन्द्रान् अभिजघानाश्वाञ् शरजालेन रावणः

6.090.025

विषेदुर् देवगन्धर्वा दानवाश् चारणैः सह
रामम् आर्तं तदा दृष्ट्वा सिद्धाश् च परमर्षयः

6.090.026

व्यथिता वानरेन्द्राश् च बभूवुः सविभीषणाः
रामचन्द्रमसं दृष्ट्वा ग्रस्तं रावणराहुणा

6.090.027

प्राजापत्यं च नक्षत्रं रोहिणीं शशिनः प्रियाम्
समाक्रम्य बुधस् तस्थौ प्रजानाम् अशुभावहः

6.090.028

सधूमपरिवृत्तोर्मिः प्रज्वलन्न् इव सागरः
उत्पपात तदा क्रुद्धः स्पृशन्न् इव दिवाकरम्

6.090.029

शस्त्रवर्णः सुपरुषो मन्दरश्मिर् दिवाकरः
अदृश्यत कबन्धाङ्गः संसक्तो धूमकेतुना

6.090.030

कोसलानां च नक्षत्रं व्यक्तम् इन्द्राग्निदैवतम्
आक्रम्याङ्गारकस् तस्थौ विशाखाम् अपि चाम्बरे

6.090.031

दशास्यो विंशतिभुजः प्रगृहीतशरासनः
अदृश्यत दशग्रीवो मैनाक इव पर्वतः

6.090.032

निरस्यमानो रामस् तु दशग्रीवेण रक्षसा
नाशकद् अभिसंधातुं सायकान् रणमूर्धनि

6.090.033

स कृत्वा भ्रुकुटीं क्रुद्धः किं चित् संरक्तलोचनः
जगाम सुमहाक्रोधं निर्दहन्न् इव चक्षुषा

मूल पाठ: Rāmāyaṇa · Edition: John Smith's Rāmāyaṇa-Page (last comparison: 2020-04-16) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc