भाषा

ENहिગુ
ग्रंथ पाठ

रामायण · अध्याय 6.085

6.085.001

हन्यमाने बले तूर्णम् अन्योन्यं ते महामृधे
सरसीव महाघर्मे सूपक्षीणे बभूवतुः

6.085.002

स्वबलस्य विघातेन विरूपाक्षवधेन च
बभूव द्विगुणं क्रुद्धो रावणो राक्षसाधिपः

6.085.003

प्रक्षीणं तु बलं दृष्ट्वा वध्यमानं वलीमुखैः
बभूवास्य व्यथा युद्धे प्रेक्ष्य दैवविपर्ययम्

6.085.004

उवाच च समीपस्थं महोदरम् अरिंदमम्
अस्मिन् काले महाबाहो जयाशा त्वयि मे स्थिता

6.085.005

जहि शत्रुचमूं वीर दर्शयाद्य पराक्रमम्
भर्तृपिण्डस्य कालो ऽयं निर्वेष्टुं साधु युध्यताम्

6.085.006

एवम् उक्तस् तथेत्य् उक्त्वा राक्षसेन्द्रं महोदरः
प्रविवेशारिसेनां स पतंग इव पावकम्

6.085.007

ततः स कदनं चक्रे वानराणां महाबलः
भर्तृवाक्येन तेजस्वी स्वेन वीर्येण चोदितः

6.085.008

प्रभग्नां समरे दृष्ट्वा वानराणां महाचमूम्
अभिदुद्राव सुग्रीवो महोदरम् अनन्तरम्

6.085.009

प्रगृह्य विपुलां घोरां महीधरसमां शिलाम्
चिक्षेप च महातेजास् तद् वधाय हरीश्वरः

6.085.010

ताम् आपतन्तीं सहसा शिलां दृष्ट्वा महोदरः
असंभ्रान्तस् ततो बाणैर् निर्बिभेद दुरासदाम्

6.085.011

रक्षसा तेन बाणौघैर् निकृत्ता सा सहस्रधा
निपपात शिला भूमौ गृध्रचक्रम् इवाकुलम्

6.085.012

तां तु भिन्नां शिलां दृष्ट्वा सुग्रीवः क्रोधमूर्छितः
सालम् उत्पाट्य चिक्षेप रक्षसे रणमूर्धनि
शरैश् च विददारैनं शूरः परपुरंजयः

6.085.013

स ददर्श ततः क्रुद्धः परिघं पतितं भुवि
आविध्य तु स तं दीप्तं परिघं तस्य दर्शयन्
परिघाग्रेण वेगेन जघानास्य हयोत्तमान्

6.085.014

तस्माद् धतहयाद् वीरः सो ऽवप्लुत्य महारथात्
गदां जग्राह संक्रुद्धो राक्षसो ऽथ महोदरः

6.085.015

गदापरिघहस्तौ तौ युधि वीरौ समीयतुः
नर्दन्तौ गोवृषप्रख्यौ घनाव् इव सविद्युतौ

6.085.016

आजघान गदां तस्य परिघेण हरीश्वरः
पपात स गदोद्भिन्नः परिघस् तस्य भूतले

6.085.017

ततो जग्राह तेजस्वी सुग्रीवो वसुधातलात्
आयसं मुसलं घोरं सर्वतो हेमभूषितम्

6.085.018

तं समुद्यम्य चिक्षेप सो ऽप्य् अन्यां व्याक्षिपद् गदाम्
भिन्नाव् अन्योन्यम् आसाद्य पेततुर् धरणीतले

6.085.019

ततो भग्नप्रहरणौ मुष्टिभ्यां तौ समीयतुः
तेजोबलसमाविष्टौ दीप्ताव् इव हुताशनौ

6.085.020

जघ्नतुस् तौ तदान्योन्यं नेदतुश् च पुनः पुनः
तलैश् चान्योन्यम् आहत्य पेततुर् धरणीतले

6.085.021

उत्पेततुस् ततस् तूर्णं जघ्नतुश् च परस्परम्
भुजैश् चिक्षेपतुर् वीराव् अन्योन्यम् अपराजितौ

6.085.022

आजहार तदा खड्गम् अदूरपरिवर्तिनम्
राक्षसश् चर्मणा सार्धं महावेगो महोदरः

6.085.023

तथैव च महाखड्गं चर्मणा पतितं सह
जग्राह वानरश्रेष्ठः सुग्रीवो वेगवत्तरः

6.085.024

तौ तु रोषपरीताङ्गौ नर्दन्ताव् अभ्यधावताम्
उद्यतासी रणे हृष्टौ युधि शस्त्रविशारदौ

6.085.025

दक्षिणं मण्डलं चोभौ तौ तूर्णं संपरीयतुः
अन्योन्यम् अभिसंक्रुद्धौ जये प्रणिहिताव् उभौ

6.085.026

स तु शूरो महावेगो वीर्यश्लाघी महोदरः
महाचर्मणि तं खड्गं पातयाम् आस दुर्मतिः

6.085.027

लग्नम् उत्कर्षतः खड्गं खड्गेन कपिकुञ्जरः
जहार सशिरस् त्राणं कुण्डलोपहितं शिरः

6.085.028

निकृत्तशिरसस् तस्य पतितस्य महीतले
तद् बलं राक्षसेन्द्रस्य दृष्ट्वा तत्र न तिष्ठति

6.085.029

हत्वा तं वानरैः सार्धं ननाद मुदितो हरिः
चुक्रोध च दशग्रीवो बभौ हृष्टश् च राघवः

मूल पाठ: Rāmāyaṇa · Edition: John Smith's Rāmāyaṇa-Page (last comparison: 2020-04-16) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc